________________
प्रथमः स्तबकः
$९६ ) ततश्चाणिमादिगुणमणिगणरोहणायमानः, समानः समासहस्रण समासादितमानसाहारः, पक्षेणैकेन लक्षितसुगन्धबन्धुरनिश्वाससुरभितसविधप्रदेशः, शरत्काल इव विधृतविमलाम्बरः, महाकविवचनोल्लास इव सरसशोभाविभासितः, अङ्गदमनोज्ञविलासोऽप्यनङ्गमनोज्ञविलासः, अयं ललिताङ्गदेवो देवीचतुःसहस्रपरिग्रहो'ऽनवरतोल्लासिताभिरपि नवरतोल्लासिताभिः स्वयंप्रभा-कनकप्रभा-कनकलता-विद्युल्लता-नामधेयाभी रतिरूपसुभागधेयाभिर्विलास- ५ विजितरतिदेवीभिश्चतसृभिर्महादेवीभिर्विविधान्भोगाननुभुजानः कालमनल्पमतिवाहयांचक्रे । सर्वं चकार कृतवान् ॥६९॥ ६ ९६ ) तत इति-ततश्च तदनन्तरं च, अणिमादिगुणा एव मणयस्तेषां गणस्य समूहस्य रोहणायमानो रोहणगिरिवदाचरन् तथाभूतः, रोहणो नाम कश्चित्पर्वतः कविसंप्रदाये प्रसिद्धो यत्र बाहुल्येन मणयो वर्तन्ते । मानेन सहितः समानः, समासहस्रेण वर्षसहस्रेण 'हायनोऽस्त्री शरत्समा' इत्यमरः, समासादित. प्राप्तो मानसाहारो येन सः, एकेन पक्षेण पञ्चदशदिवसात्मकेन लक्षितः प्रकटितो यः सुगन्धबन्धुर- १० निश्वासः सुगन्धितश्वासोच्छ्वासस्तेन सुरभितः सुगन्धितः सविधप्रदेशः समीपप्रदेशो येन सः, शरत्काल इव जलदान्तकाल इव विधृतं विमलं निरभ्रत्वेन निर्मलमम्बरं गगनं येन सः पक्षे विधृतं विमलं स्वच्छमम्बरं वस्त्रं येन सः, महाकविवचनोल्लास इव सरसा शृङ्गारादिरसैः सहिता या शोभा काव्यस्य विच्छित्तिविशेषस्तया शोभितः पक्षे सरसा सानुरागा या शोभा सुषमा तया विभासितः समलंकृतः, अङ्गं ददातीत्यङ्गदस्तथाभूतो मनोज्ञो मनोहरो विलासो यस्य स एवंभूतोऽपि अङ्गं न ददातीत्यनङ्गदस्तथाभूतो मनोज्ञो विलासो यस्येति १५ विरोधः यस्य मनोज्ञविलासोऽङ्गदस्तस्य मनोज्ञविलासः कथमनङ्गदः स्यादिति भावः । परिहारपक्षे अङ्गदेन केयूरेण मनोज्ञो विलासो लीला यस्य तथाभूतः सन्नपि अनङ्गदः कामप्रदो मनोज्ञो विलासो हावो यस्य सः 'विलासो हावलीलयोः' इति विश्वलोचनः, देवीनां चतुःसहस्राणि परिग्रहो यस्य सः चतुःसहस्रपरिमितदेवीसहितः, अयं ललिताङ्गदेवो महाबलजीवः, न नवरतेन नूतनसुरतेन उल्लासिताः प्रहर्षिता इति अनवरतोल्लासितास्ताभिस्तथाभूताभिरपि नवरतेन नूतनसुरतेनोल्लासिताः प्रहर्षितास्ताभिरिति विरोधः । परिहारपक्षे अनवरतं २० निरन्तरमुल्लासिताः प्रहर्षितास्ताभिः, स्वयंप्रभा कनकप्रभा कनकलता विद्युल्लतेति नामधेयं यासां ताभिः, रतेः देवने यह सब किया ॥६९॥ ६९६ ) ततश्चेति-तदनन्तर जो अणिमा आदि गुण रूपी मणियोंके समूहके लिए रोहणगिरिके समान था, मानसे सहित था, एक हजार वर्ष में जो मानसिक आहार प्राप्त करता था, एक पक्षमें प्रकट होनेवाली सुगन्धित श्वाससे जो समीपके प्रदेशको सुगन्धित किया करता था, जो शरत्कालके समान विधृतविमलाम्बर-निर्मल आकाश- २५ को धारण करनेवाला (पक्षमें निर्मल वस्त्रोंको धारण करनेवाला) था, महाकवियोंकी वचन रचनाके समान सरसशोभाविभासित-शृंगारादिरस सहित चमत्कारविशेषसे सुशोभित (पक्षमें अनुरागसहित शोभासे सुशोभित ) था, अंगदमनोज्ञविलास-अंगको देनेवाले मनोहर विलाससे सहित होकर भी अनंगदमनोज्ञविलास-अंगको न देनेवाले मनोहर विलाससे सहित था (परिहारपक्ष में बाजूबन्धोंसे मनोहर लीलाको धारण करनेवाला होकर ३० भी अनंगद-कामको देनेवाले मनोज्ञ हावभावसे सहित था) और जो चार हजार देवियों के परिग्रहसे युक्त था ऐसा यह ललितांगदेव; जो अनवरतोल्लासिता-नूतन रतसे प्रहर्षित न होनेपर भी नवरतोल्लासिता-नूतनरससे प्रहर्षित थी (पक्ष में अनवरत-निरन्तर प्रहर्षित होनेपर भी नवरत-नूतनरतसे प्रहर्षित) थीं, रतिके समान जिनका रूप तथा भाग्य था, और जिन्होंने अपने विलासोंसे रतिदेवीको जीत लिया था ऐसी स्वयंप्रभा, कनकप्रभा, ३५ कनकलता और विद्यल्लता नामकी चार महादेवियोंके साथ नाना प्रकारके भोग भोगता
१. नवरतोल्लासिताभिरप्यनवरतोल्लासिताभिः क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org