SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४ [ २६९२ पुरुदेवचम्पूप्रबन्धे $ ९२ ) जयेश नन्देति गभीरवाचः सुरास्तदानों नतमौलिमालाः । विज्ञापयामासुरिदं समेत्य प्रज्ञापयोधि ललिताङ्गदेवम् ॥६६॥ $९३) आदौ मङ्गलमज्जनं विरचयन्पश्चाग्जिनेन्द्रार्चनां भक्त्या कल्पय देव मोक्षपदवीप्रासादनिश्रेणिकाम् । श्रीमत्पुण्यबलार्जितं बलमिदं दृष्टया समालोकय प्रेक्षस्वाथ मनोज्ञनतंनकलां स्वासिकोल्लासिताम् ॥६७॥ $ ९४ ) सौदामिनीसमानाङ्गीर्देवोस्तदनु लालय । पञ्चेषुपट्टकरणीः शृङ्गाररसधोरणीः॥६८।। ६९५ ) इति तद्वचनात्सर्व चकारामरवल्लभः । निसर्गवस्त्राभरणो निष्टप्तकनकच्छविः ॥६९।। १० इत्यादिविस्मयेन विस्तारितं चित्तं यस्य तथाभूतः, तत्क्षणं तत्कालं विलसितेन अवधिविलोचनेनावधिज्ञाननेत्रेण विलोकितो दृष्टः पूर्वभवपरिचितानां स्वयंबुद्धादीनां वृत्तान्तो येन तथाभूतः सन्, कल्पतरुभिः कल्पवृक्षः परिशोभमानम् इदं विमानम्, इमे प्रणामतत्परा नमस्काराभिमुखाः सुरा अमराः, अयमेष लास्यलीलाकरो नृत्य क्रीडाकरः अप्सरःपरिवारः अप्सरसां समूहः, इत्यादिक्रमेण सर्वम् अबुध्यत ज्ञातवान् । $ ९२ ) जयेशेति१५ तदानीं तस्मिन् काले हे ईश जय सर्वोत्कर्षेण वर्तस्व, नन्द समृद्धिमान्भव, इति गभीरवाचः प्रगल्भभारतीकाः नता प्रह्वा मौलिमाला मुकुटसंततिर्येषां तथाभूताः सुरा देवाः समेत्यागत्य प्रज्ञापयोधि प्रतिभापाथोधि ललिताङ्गदेवम् इदं वक्ष्यमाणं विज्ञापयामासुनिवेदयामासुः । उपजातिछन्दः ॥६६॥६९३ ) आदाविति-हे देव ! आदी सर्वतः प्राक मङ्गलमज्जनं मङ्गलस्नानं विरचयन् कुर्वन् पश्चात्तदनु भक्त्यानुरागातिशयेन मोक्षपदवी मोक्षमार्ग एव प्रासादो भवनं तस्य निश्रेणिकां सोपानं जिनेन्द्रार्चनां जिनपूजां कल्पय कुरु, पुण्यबलेन सुकृतमहिम्नाजितं प्राप्तं श्रीमत् लक्ष्मीयुतम् इदं बलं देवसैन्यं दृष्टया समालोकय पश्य, अथ तदनन्तरं च स्वासिकाभिस्त्रिदिवनर्तकीभिरुल्लासितां कृतां मनोज्ञा चासो नर्तनकला च तां ललितलास्यलीला प्रेक्षस्वावलोकय ॥६७॥ ६९४ ) सौदामिनीति-तदनु तत्पश्चात् सौदामिन्या विद्युता समानमङ्गं यासां तास्तथाभूताः, पञ्चेषुपट्टकरणीर्मदनोत्तेजनकारिणीः, शृङ्गाररसधोरणीः शृङ्गाररसकृत्रिमनदीः, देवीः लालय प्रीणय ॥६८॥ ६९५ ) इतीति-इतीत्थं तद्वचनाद् देवकथनात् निसर्गवस्त्राभरणः स्वाभाविकाम्बरालंकारः, निष्टप्तं संतप्तं २५ यत्कनकं स्वणं तस्य छविरिव छविर्यस्य सः, अमरवल्लभः सुरप्रियो ललिताङ्गः सर्वं वापोमज्जनजिनपूजनादिक २० अप्सराओंका परिवार है। ६९२) जयेशेति-उसी समय जो हे ईश! जयवन्त होओ, समृद्धिमान् होओ इस प्रकारके गम्भीर वचन बोल रहे थे तथा जिनके मुकुटोंकी मालाएँ नम्रीभूत थीं ऐसे देवोंने आकर बुद्धिके सागर स्वरूप ललितांगदेवसे यह कहा ॥६॥ ६९३) आदाविति-सबसे पहले मंगलस्नान कर पीछे मोक्षमार्ग रूपी भवनकी सीढ़ी ३० स्वरूप जिनपूजाको भक्तिपूर्वक करो, फिर पुण्यकी सामर्थसे प्राप्त, लक्ष्मीसे युक्त इस देवोंकी सेनाको दृष्टिसे देखो और तदनन्तर स्वर्गकी नर्तकियोंके द्वारा की हुई सुन्दर नृत्यकलाका अवलोकन करो ॥६७॥ ६९४) सौदामिनीति-इसके पश्चात् बिजलीके समान देदीप्यमान शरीरसे युक्त, कामको उत्तेजित करनेवाली तथा शृंगाररसकी लहर स्वरूप देवियों को प्रसन्न करो-उनसे प्रेम करो ॥६८।। ६९५) इतीति-इस प्रकार उन देवोंके कहनेसे ३५ स्वाभाविक वस्त्राभूषणोंसे सहित तथा अत्यन्त तप्त सुवर्णके समान कान्तिसे युक्त ललितांग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy