SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३४ पुरुदेवचम्पूप्रबन्धे [ १७०अभव्य इति संशयो मम हृदालये खेलति क्षमागुणमणेः खनी ! सह तदीयजिज्ञासया ॥५०॥ हु७० ) प्रश्नाभिधं मधु निगीर्य निरुक्तरीत्या तस्याथ मीलदधरोष्ठदले मुखाब्जे । आदित्यगत्यभिध एष मुनिमुखाब्ज हर्षाय सूक्तिकिरणान्प्रकटीचकार ॥५१॥ ६७१) भो सचिवोत्तंस ! असौ भवत्स्वामी भव्यो, भव्य एव भवद्वचनशैली प्रत्येष्यति, प्राप्स्यति च दशमजन्मन्यस्मिञ्जम्बूद्वीपस्यालङ्कारभूते भारतखण्डे युगारम्भे प्रचुरागण्यपुण्यवशेन तीर्थकराग्रगण्यतां सकलसंक्रन्दनप्रमुखवृन्दारक संदोहवन्दनीयतां च । ६७२ ) अतीतभवमेतस्य प्रतीतयशसः शृणु । धर्मबीजं हि यत्रोप्तं शर्मभोगेच्छयामुना ॥५२॥ १० महाबल इतीरितः महाबल नाम्ना प्रसिद्धः वसति, स किल भव्य एव रत्नत्रयप्राप्तियोग्य एव अथवा अभव्यो रत्नत्रयप्राप्त्ययोग्य इतीत्थं संशयो विचिकित्सा मम स्वयंबुद्धस्य हृदालये मनोमन्दिरे तदीया चासो जिज्ञासा च ज्ञातुमिच्छा च तया सह खेलति क्रीडति रूपकालंकारः पृथिवीवृत्तम् ॥५०॥ ६ ७० ) प्रश्नाभिधमिति१५ अथानन्तरं तस्य स्वयंबुद्धस्य मुखमेवाब्जं तस्मिन् वदनवारिजे निरुक्तरीत्या पूर्वोक्तप्रकारेण प्रश्नाभिधं प्रश्ननामधेयं मधु मकरन्दं विगीर्य प्रकटयित्वा मीलती अधरोष्ठदले यस्य तथाभूते निमीलदधरोष्ठपने सति आदित्यगतिरभिधा यस्य तथाभूत आदित्यगतिनामधेयः सूर्यतुल्य इत्यर्थः, एषोऽयं मुनिः, मुखाब्जहर्षाय स्वयंबुद्धमुखकमलविकासाय सूक्तय एव किरणास्तान् सुभाषितरश्मीन् प्रकटोचकार प्रकटयामास । रूपका लंकारः । वसन्ततिलकावृत्तम् ॥५१॥ ७१ ) मो सचिवोत्तंसेति-हे अमात्यभूषण ! असौ भवत्स्वामी २० भवत्प्रभुः भव्यो रत्नत्रयप्राप्त्यर्ह एवास्तीति शेषः, यतः भव्य एव भवद्वचनशैली भवदुपदेशप्रकारं प्रत्येष्यति श्रद्धास्यति, दशमजन्मनि दशमभवे जम्बूद्वीपस्य प्रथमद्वीपस्यालंकारभूते भूषणस्वरूपेऽस्मिन् भारतखण्डे भरतक्षेत्रे युगारम्भेऽवसर्पिणीकालान्तर्गतकर्मभूमिप्रारम्भे प्रचुरं प्रभूतमगण्यमपरिमितं च यत्पुण्यं सुकृतं तस्य वशेन तीर्थकरेष चतविशतिधर्मप्रवर्तकेष अग्रगण्यतां प्रथमतां सकलाः समस्ताः संक्रन्दनप्रमखा इन्द्रप्रधाना ये वृन्दारका देवास्तेषां संदोहेन समूहेन वन्दनीयतां नमस्करणीयतां च प्राप्स्यति लप्स्यते च । ६ ७२ ) प्रती२५ तेति-प्रतीतं प्रसिद्धं यशो यस्य तथाभूतस्य, एतस्य महाबलस्य अतीतभवं पूर्वपर्यायं शृणु समा कर्णय, यत्र यस्मिन्, अमुनानेन शर्मभोगेच्छया सुखानुभववाञ्छया धर्मबीजं उप्तं निक्षिप्तं कृतवापमिति यावत् ॥५२॥ राजा रहता है सो वह भव्य ही है अथवा अभव्य, यह संशय हमारे मनरूपी मन्दिर में उसकी जिज्ञासाके साथ क्रीडा किया करता है ॥५०॥७०) प्रश्नाभिमिति-तदन जब स्वयं बुद्धका मुखकमल पूर्वोक्त प्रकारसे प्रश्ननामक मकरन्दको प्रकट कर अधरोष्ठरूपी ३० दलोंको बन्द कर चुका तब आदित्यगति नामके मुनिराज इसके मुखकमलको विकसित करने के लिए सूक्तिरूपी किरणोंको प्रकट करने लगे ॥५१॥ ६७१) भो सचिवोत्तंसेति-हे अमात्याभरण ! यह आपका स्वामी भव्य है क्योंकि भव्य ही आपकी वचन शैलीपर प्रतीति करेगा और दशवें भवमें जम्बूद्वीपके अलंकारस्वरूप इस भरतक्षेत्र में कर्मभूमि रूप युगका प्रारम्भ होनेपर बहुत भारी पुण्यके वशसे तीर्थंकरोंमें अग्रगण्यता तथा इन्द्रादि समस्त देव समूहके द्वारा ३५ वन्दनीयताको प्राप्त करेगा ।। ६ ७२ ) अतीतेति-प्रसिद्ध यशके धारकपू इसका व भव सुनो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy