SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ -५७ ] प्रथमः स्तबकः ६५६ ) एवं पुरा भवदीयपितामहः शतबलो नाम विद्याधरक्षोणीवल्लभो राज्यलक्ष्मों सुचिरमनुभवन्भवत्पितरि विन्यस्तसमस्तराज्यभारः सम्यग्दर्शनादिसंपन्नः सुध्यानेन त्यक्ततनुमहेन्द्रकल्पे सुराग्रणीः संजातः। स कदाचन काञ्चनशिखरिशिखरे नन्दनवने मया सह खेलन्तं भवन्तं समीक्ष्यापारस्नेहपूरितमानसो 'जैनधर्म लोकोत्तराभ्युदयसाधनं कदापि न विस्मरेति' समादिदेश । ६५७ ) तथा भवत्पितृपितामहोऽपि निखिलखेचरमुकुटराजिनीराजितचरणनीरेजः सहस्रबलः शतबले सुते निक्षिप्तराज्यभारो जैनी दीक्षामासाद्य तपोऽशुप्रकाशप्रकाशितमहीवलयः क्रमेणोत्पन्नकेवलज्ञानः समागतसुरासुरादिभिरचितः शाश्वतं पदमुपजगाम । लक्ष्म्याः श्रिया लीलाहसितस्य क्रीडाहासस्य रुचिवकान्तिवत् कीर्तेर्यशसो बीजालिवच्च बीजपङ्क्तिरिव च विलसते शोभते । उपमालंकारः, मन्दाक्रान्ता छन्दः ॥४२॥ ५६ ) अथ धर्मध्यानस्य फलं निरूपयितुमाह- १० एवमिति–एवं पुरा पूर्व भवदीयश्चासो पितामहश्चेति भवदीयपितामहो भवत्पितृपिता शतबलो नाम विद्याधरक्षोणीवल्लभो गगनेचरराजः सुचिरं दीर्घकालपर्यन्तं राज्यलक्ष्मी राज्यश्रियम् अनुभवन् भवत्पितरि भवदीयजनकेऽतिबलमहाराजे विन्यस्तो विनिक्षिप्तः समस्तो राज्यभारो येन तथाभूतः, सम्यग्दर्शनादिभिः सम्यक्त्वप्रभृतिभिः संपन्नः सहितः सुध्यानेन धाभिधानेन प्रशस्तध्योनेन त्यक्ततनुस्त्यक्तशरीरो मतः सन् महेन्द्रकल्पे महेन्द्रस्वर्गे सराग्रणीः प्रधानदेवः संजातः । स देवः कदाचन जातचित काञ्चनशिखरिणः सवर्णशैलस्य शिखरे शृङ्गे १५ नन्दनवने मेरुस्थितोद्यानविशेषे मया स्वयंबद्धन सह खेलन्तं क्रोडन्तं भवन्तं समीक्ष्य सम्यग्दष्टवा अपारस्नेहेन प्रचुरप्रेम्णा पूरितं मानसं चित्तं यस्य तथाभूतः सन् लोकोत्तराश्च तेऽभ्युदयाश्चेति लोकोत्तराभ्युदयास्तेषां साधनं निमित्तं जैनधर्म जिनमतं कदापि जात्वपि न विस्मर इति समादिदेश समादिष्टवान् । ६ ५७ ) अथ शुक्लध्यानस्य फलं निरूपयितुमाह-तथेति-पितुः पिता पितामहः, भवत्पितुः पितामह इति भवत्पितृपितामहः सोऽपि निखिलखेचराणां समग्रविद्याधराणां मुकुटराजिभिौलिपङ्क्तिभिर्नीराजिते कृतारातिके चरणनीरेजे २० यस्य सः, सहस्रबल एतन्नामा राजा शतबले सुते एतदभिधाने पुढे निक्षिप्तः स्थापितो राज्यभारो येन तादृशः सन् जैनी दैगम्बरी दीक्षां प्रव्रज्याम् आसाद्य प्राप्य तपोऽशूनां तपःकिरणानां प्रकाशेन प्रकाशितं शोभितं महोवलयं भूमण्डलं येन तथाभूतः क्रमेण क्रमशः उत्पन्नं केवलज्ञानं यस्य तथाभूतः, सन्, समागता समायाता ये सुरासुरादयः देवधरणीन्द्राः ते आदी येषां तैः, अभ्यर्चितः पूजितः सन् शाश्वतं पदं मोक्षम् उपजगाम प्राप । अथवा कीर्तिरूपी लताके बीजोंकी पंक्तिके समान सुशोभित हो रही है ।।४।। $ ५६) एवमिति- २५ इसी प्रकार पहले आपके पितामह शतबल नामके विद्याधर धरापति चिरकाल तक राज्यलक्ष्मीका उपभोग करते हुए, आपके पितापर समस्त राज्यभार रख सम्यग्दर्शनादिसे युक्त हो धयध्यानसे शरीर छोड़कर महेन्द्र स्वर्गमें श्रेष्ठ देव हुए थे। किसी समय सुमेरुपर्वतके शिखरपर मेरे साथ खेलते हुए आपको देखकर उनका हृदय अपार स्नेहसे भर गया था। उस समय उन्होंने आपको आज्ञा दी थी कि सर्वश्रेष्ठ अभ्युदय-सांसारिक सुखोंके निमित्त- ३० भूत जैनधर्मको कभी नहीं भूलना । ६ ५७) तथेति-इसी तरह समस्त विद्याधरोंके मुकुटोंकी पंक्तियोंसे जिनके चरणकमलोंकी आरती की जाती थी ऐसे आपके पिताके पितामह सहस्रबल भी, शतबल नामक पुत्रपर राज्यका भार रख दैगम्बरी दीक्षाको प्राप्त हो तपकी किरणोंके प्रकाशसे भूमण्डलको प्रकाशित करते, क्रमसे केवलज्ञान प्राप्त करते तथा समस्त देव और १. मकुट क०। ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy