SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २७ -५२] प्रथमः स्तबकः ऽपि तृप्तिमलभमानः, तीव्रसंक्लेशपरिणामसंकल्पिततियंगायुः, जीवितान्तकालिकदुर्ध्यानवैभवविज़म्भितदुर्मरणो निजभाण्डागारे समजायत महानजगरः । ६५१ ) भंवस्मरणसंभूतभाण्डागारमहादरः । सोऽनुमेने निजं सूनुं तत्प्रवेशे न चापरम् ॥३९॥ ६५२ ) अन्येधुरसौ मणिमालिनामा खेचरपतिरवधिज्ञानलोचनान्मुनिविकर्तनाद्विज्ञाता- ५ जगरोदन्तः, पितृभक्त्या शयुं पुरोधाय 'भवान् विषयासङ्गदोषविशेषेण कुयोनि प्राप्तस्तद्विषयामिषमिदं किंपाकफलसंकाशं, तोम्बूलमिव संयोगाधीनरागसंपादकम्, अन्धकारमिव सन्मार्गनिरोधनं, विषयान् अनुभुजानोऽपि तृप्ति संतोषम् अलभमानोऽप्राप्नुवन् तीव्रसंक्लेशपरिणामेन संक्लिष्टतरभावेन संकल्पितं निश्चितं तिर्यगायुर्यस्य तथाभूतः, जीवितान्तकालिकं जीवान्तसमयसमुत्पन्नं यद् दुर्ध्यानमार्तध्यानं तस्य वैभवेन सामर्थ्येन विजृम्भितं प्राप्तं दुर्मरणं यस्य तथाभूतः सन्, निजभाण्डागारे स्वकीयभाण्डारगृहे महान् अजगरो १० विशालकायः शयुः समजायत, समुदभूत् । $ ५१) मवेति-भवस्य पूर्वपर्यायस्य स्मरणेन ध्यानेन संभूतः समुत्पन्नो भाण्डागारे महान् आदरः प्रीतिर्यस्य तथाभूतः स शयुः तस्मिन् भाण्डागारे प्रवेशस्तस्मिन्, निजं सूनुं स्वकीयं पुत्रं मणिमालिनम् अनुमेनेऽनुमन्यते स्म न चापरं तदितरं नानुमन्यते स्म ॥३९॥ ६५२) अन्येधुरिति-अन्यस्मिन् दिवसे, असौ मणिमालिनामा विद्याधरधरावल्लभः, अवधिज्ञानमेव लोचनं नेत्रं यस्य तस्मात् मुनिविकर्तनान्मुनिषु विकर्तन इव सूर्य इव तस्मान्मुनिश्रेष्ठात्, विज्ञातो विदितोऽजगरोदन्तः शयुवृत्तान्तो १५ येन तथाभूतः, सन् पितृभक्त्या जनकानुरागेण शयुमजगरं पुरोधायाने स्थापयित्वा, इतीत्थं बोधयामासेति कर्तृक्रियासंबन्धः । किं बोधयामासेत्युच्यते भवान् विषयेष्वासङ्ग आसक्तिः स एव दोषविशेषस्तेन कुयोनि कुत्सितपर्यायं प्राप्तः, तत्तस्मात्कारणात्, इदं विषयामिष विषय एवामिष भोग्यवस्तु तत्, किंपाकफलसंकाशं विषफलसदृशम्, ताम्बूलमिव नागवल्लीदलमिव संयोगाधीनस्य पुत्रकलत्रादिसंसर्गायत्तस्य पक्षे चूर्णखदिरक्रमकादिसंयोगाधीनस्य रागस्य प्रेम्णः पक्षे लौहित्यस्य संपादकं कारकम्, अन्धकारमिव ध्वान्तमिव सन्मार्गस्य २० प्रकारके भोग भोगने लगा फिर भी सन्तोषको प्राप्त नहीं हुआ। फलस्वरूप उसने तीब्र संक्लेश परिणामोंके कारण तिर्यच आयुका बन्ध किया और जीवनके अन्तमें होने वाले खोटे ध्यान की सामर्थ्यसे कुमरण प्राप्तकर वह अपने ही भाण्डारमें बड़ा भारी अजगर हुआ। ६५१ ) भवेति-पूर्वभवके स्मरणसे जिसे भाण्डागारमें बहुत भारी आदर उत्पन्न हुआ था ऐसा वह अजगर उसमें प्रवेश करनेके लिए अपने पुत्रको ही आज्ञा देता था अन्य किसीको २५ नहीं ॥३९।। ६ ५२) अन्येधु-किसी अन्य दिन मणिमाली नामका विद्याधर राजा, अबधिज्ञानी श्रेष्ठमुनिराजसे अजगरका वृत्तान्त जानकर पितृभक्तिसे उसे आगे कर इस प्रकार समझाने लगा-'आप विषयासक्तिरूप दोषकी विशेषतासे खोटी योनिको प्राप्त हुए हो इसलिए यह विषयरूपी भोग्यवस्तु किंपाक फलके समान है, पानके समान स्त्रीपुत्रादिके संयोगाधीन राग-प्रेमको उत्पन्न करनेवाला है (पक्षमें चूना खैर आदिके संयोगाधीन राग- ३० लालिमाको उत्पन्न करनेवाला है ) अन्धकारके समान सन्मार्ग-मोक्षमार्गको रोकनेवाला है (पक्षमें कण्टकादिसे रहित मार्ग अथवा सन्मार्ग-नक्षत्रोंका मार्ग-आकाशको रोकनेवाला १. गद्यमिदं महापुराणे जिनसेनाचार्योक्तिमिमामनुजीवति–ताम्बूलमिव संयोगादिदं रागविवर्धनम् । अन्धकारमिवोत्सर्पत्सन्मार्गस्य विरोधनम् ॥ जैनं मतमिव प्रायः परिभूतमतान्तरम् । तडिल्लसितवल्लोलं विचित्रं सुरचापवत् ॥ ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy