SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५ २२ पुरुदेव चम्पूप्रबन्धे $ ४० ) समस्तशास्त्ररत्नानां निस्तुल्यनिकषोपलः । स्वयं बुद्धोऽभवत्तेषु सम्यग्दर्शनशुद्धधीः ॥३२॥ $ ४१ ) खगानां राजापि प्रशमित विपक्षव्रजतया गताशङ्कातङ्कः सकलखच रश्लाघ्यमहिमा । अमात्येषु न्यस्तक्षितिवलयभारोऽनुबुभुजे निजस्त्रीभिः साकं खगसमुचितान्भोगविभवान् ॥३३॥ $ ४२ ) अबलाढ्योऽपि भूपालो दिक्षु ख्यातमहाबलः । - भोगोऽपि स्वयं भोगान्विविधान्बुभुजे चिरम् ||३४|| ९ ४३ ) तथाहि कदाचिदसो महाबलमहीपालो मन्देतरवनवाटीपर्यटनसुरभिलमन्दानिल [ १६४० १० स्यात्तथा उपरूढो प्रेमरसो येषु तथाभूताः । ६४० ) समस्तेति - तेषु सचिवेषु स्वयंबुद्ध एतन्नामधेयः सचिवः समस्तशास्त्राण्येव रत्नानि तेषां निखिलागमरत्नानां निस्तुल्यश्चासौ निकषोपलश्चेति निस्तुल्यनिकषोपलो निरुपमनिकष प्रस्तरः सम्यग्दर्शनेन शुद्धा धोर्यस्य तथाभूतः सम्यक्त्वपूताधिषणः अभवत् । रूपकालंकारः ||३२|| $ ४१ ) खगानामिति - खगानां विद्याधराणां राजापि नृपतिरपि महाबलः प्रशमितविपक्षत्र जतया प्रशमितशत्रु समूहतया गतो नष्ट आशङ्कातङ्को भयरोगो यस्य तथाभूतः सकलखचरेषु निखिलविद्याधरेषु १५ श्लाघ्यो महिमा यस्य तादृशः, अमात्येषु सचिवेषु न्यस्तः स्थापितः क्षितिवलयभारो येन तथाभूतः सन् निजस्त्रीभिः साकं निजवनिताभिः सह खगसमुचितान् विद्याधरयोग्यान् भोगविभवान् भोगैश्वर्यान् अनुबुभुजे - भुङ्क्ते स्म । अत्र महाबलमहीपालः खगानां पक्षिणां राजापि भूत्वा प्रशमितविपक्षव्रजतया प्रणाशितपक्षिपक्षसमूहतया गताशङ्कातङ्कः प्रणष्टभय रोगोऽभूदिति विरोधो ध्वन्यते । शिखरिणीछन्दः ||३३|| १४२ ) अबळेतिबलेन पराक्रमेण सैन्येन वा आढ्यः सहितो बलाढ्यः, न बलाढ्यः अबलाढयस्तथाभूतोऽपि सन् दिक्षु काष्ठासु २० ख्यातं महाबलं महापराक्रमो महासैन्यं वा यस्य स ख्यातमहाबल इति विरोधः, परिहारपक्षे अबलाभिः स्त्रीभिराढ्यः सहितोऽपि दिक्षु महाबलनाम्ना प्रसिद्धो भूपालः, नभोगोऽपि सन् भोगरहितोऽपि सन् स्वयं चिरं दीर्घकालपर्यन्तं विविधान् नैकविधान् भोगान् विलासान् स्वयं बुभुजे भुक्तवानिति विरोधः । परिहारपक्षे नभसि गगने गच्छतीति नभोगोऽपि खेचरोऽपि सन् । विरोधाभासालंकारः ॥ ३४ ॥ ६४३ ) अथ तमेव भोगानुभवं वर्णयितुमाह - तथाहीति - असो महाबलमहीपालः कदाचित् मन्देतरा विशाला या वनवाटी समुद्यानवीथी Jain Education International २५ प्रजाके सन्तोषरूपी अमृतके सागर थे तथा परस्पर अत्यन्त प्रेमरससे युक्त थे । ९४०) समस्तेति — उन मन्त्रियों में स्वयंबुद्धमन्त्री समस्त शास्त्ररूपी रत्नोंकी परीक्षा करनेके लिए अनुपम कसौटी था तथा सम्यग्दर्शनसे विशुद्ध बुद्धिका धारक था ||३२|| १४१ ) खगानामिति - समस्त विद्याधरोंमें प्रशंसनीय महिमासे युक्त, विद्याधरोंका राजा महाबल भी शत्रुसमूहको नष्ट कर निःशंक हो मन्त्रियोंपर पृथिवीमण्डलका भार रख अपनी स्त्रियोंके ३० साथ विद्याधरोंके योग्य भोगोंके वैभवका उपभोग करने लगा ||३३|| $ ४२ अबलाढ्योऽपि - वह राजा यद्यपि अबलाढ्य था - पराक्रम अथवा सेनासे सहित नहीं था तो भी दिशाओंमें महाबल - महान् पराक्रम अथवा बड़ी भारी सेनासे सहित प्रसिद्ध था ( परिहार पक्ष में अबलाढ्य – अबलाओं - स्त्रियोंसे सहित था और दिशाओंमें महाबल नाम से प्रसिद्ध था ) | तथा नभोग - भोगों से रहित होकर भी विविध भोगोंको चिरकाल तक भोग करता था ३५ ( परिहार पक्ष में नभोग - आकाशगामी विद्याधर होकर भी चिरकाल तक विविध भोगोंको भोग करता था ) ||३४|| ६ ४३ तथाहि - उन्हीं भोगोंका कुछ वर्णन इस प्रकार है - वह महाबल राजा, कभी तो कल्पवृक्षोंकी विशाल वनवीथियों में भ्रमण करनेसे सुगन्धित मन्द मन्द वायु For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy