SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ -३९ ] प्रथमः स्तबकः $ ३७ ) तदा तादृग्रूपं प्रकटमभवत्खेचरपते यंदालोक्य व्रोलेस्तनुमसमबाणोऽपि विजहो । नभोगस्त्रीनेत्रभ्रमरनिकराकर्षणकला धुरीणं यत्प्रोद्यत्तरुणिमसुमामोदसुरभिः ॥३०॥ ६३८) खेचरीचित्तलोहानामयस्कान्तशलालिका। ___तस्य प्रजाभागधेयं रूपधेयमजृम्भत ॥३१॥ ६३९ ) तस्य च राज्ञो निखिलकलावगाहगम्भीरबुद्धयो, नोतिशास्त्रपारावारपारदृश्वानः, सकलभुवनराज्यभारार्णवकर्णधाराः, कृच्छ्रेष्वपि कार्यसंकटेषु प्रसन्नमतिविभवाः धामानि धैर्यस्य, स्थानानि स्यर्यस्य, सेतवः सत्यस्य, प्रवाहाः करुणारसस्य, विहारसदनानि राजभक्तेः, सागराः प्रजासंतोषामृतस्य, निर्भरमुपरूढप्रेमरसा, महामति-संभिन्नमति-शतमति-स्वयंबुद्धनामानश्चत्वारः १० सचिवाः संबभूवुः। मालोपमालंकारः। $३७ ) तदेति-तदा यौवनारम्भे खेचरपतेविद्याधरराजस्य महाबलस्य तादृक् तादृशं रूपं सौन्दर्य प्रकटमभवत् । यद् रूपम् आलोक्य दृष्ट्वा असमबाणोऽपि कामोऽपि वीलन् लज्जितोभवन् तनुं शरोरं विजही तत्याज । यच्च रूपं नभोगस्त्रीणां विद्याधरीणां नेत्राण्येव भ्रमरा मिलिन्दास्तेषां निकरः समूहस्तस्याकर्षणकलायां वशीकरणवैदग्ध्यां धुरीणं निपुणम्, यच्च रूपं प्रोद्यत्तरुणिमैव प्रकटीभवत्तारुण्यमेव सुमं पुष्पं १५ तस्यामोदेन गन्धेन सुरभि मनोज्ञं च बभूवेति शेषः । रूपकोत्प्रेक्षालंकारः । शिखरिणीछन्दः ।।३०।। ६३८) खेचरीति-खेचरीणां विद्याधरीणां चित्तान्येव लोहास्तेषाम् अयस्कान्तशलाकिका चुम्बकमणिसूची, प्रजाभागधेयं प्रजाभाग्यं तस्य महाबलस्य रूपधेयं सौन्दर्यम् । अजृम्भत अहर्निशं वृद्धिंगतमभूत् । रूपकालकारः ॥३१॥ ६३९) तस्य चेति-तस्य च महाबलस्य राज्ञः महामति-संभिन्नमति-शतमति-स्वयंबुद्धनामांनः चत्वारः सचिवा अमात्याः संबभूवुरिति कर्तक्रियासंबन्धः । अथ तेषां विशेषणान्याह-निखिलकलासु सर्वविधवैदग्धीषु २० अवगाहेन प्रवेशेन गम्भीरा प्रगल्भा बुद्धिर्येषां ते, नोतिशास्त्रमेव पारावारः सागरस्तस्य पारं दृष्टवन्त इति नीतिशास्त्रपारावारपारदृश्वानः, सकलभुवनस्य निखिललोकस्य राज्यभार एवार्णवः सागरस्तत्र कर्णधाराः, कृच्छ्रेष्वपि कठिनेष्वपि कार्यसंकटेषु प्रसन्नो निर्मलो मतिविभवो बुद्धिसामर्थ्य येषां तथाभूताः, धैर्यस्य धामानि, स्थैर्यस्य स्थानानि, सत्यस्य तथ्यस्य सेतवः पुलिनानि, करुणारसस्य दयारसस्य प्रवाहा निझराः, राजभक्ते विहारसदनानि क्रीडाभवनानि, प्रजासंतोषामृतस्य प्रजासंतोष एवामृतं पीयूषं तस्य सागराः, निर्भरं यथा २५ कमलवनके सूर्योदय, और तरुणमयूरके पिच्छ प्रकट होता है । ६ ३७ तदेति-उस समय विद्याधरोंके राजा महाबलका वैसा रूप प्रकट हुआ था कि जिसे देखकर लज्जित होते हुए कामदेवने भी शरीर छोड़ दिया था। जो रूप विद्याधरियोंके नेत्र रूपी भ्रमरसमूहको आकृष्ट करने की कलामें निपुण था, तथा प्रकट होते हुए तारुण्यरूपी पुष्पोंकी सुगन्धिसे मनोहर था ॥३०॥ ३८) खेचरीति-जो विद्याधरियोंके चित्त रूपी लोहोंको खींचनेके लिए चुम्बकमणि ३० सलाईके समान था तथा प्रजाके भाग्य स्वरूप था ऐसा उसका वह रूप निरन्तर वृद्धिको प्राप्त हो रहा था ॥३१॥ $३९ तस्य चेति-उस राजा महाबलके महामति, संभिन्नमति, शतमति और स्वयंबुद्ध नामके चार मन्त्री थे। वे मन्त्री सकल कलाओंमें अवगाहन करनेसे गम्भीर बुद्धि वाले थे, नीतिशास्त्र रूपी समुद्र के पारदर्शी थे, समस्त संसारके राज्यभार रूपी समुद्रके खेवटिया थे, कठिनसे कठिन कार्योंके संकटोंमें निर्मलबुद्धिके धारक थे, धैर्यके धाम ३५ थे, स्थिरताके स्थान थे, सत्यके सेतु थे, दयारसके प्रवाह थे, राजभक्तिके क्रीडाभवन थे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy