SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ -३१ ] प्रथमः स्तबकः यशः कुसुममाधुरीप्रमुदितामरीबम्भरीस्वरप्रसरपूरितत्रिभुवनः कुमारो बभौ ||२४|| $ २९ ) कलाविलाससदनं कान्तिकेलिनिकेतनम् । महाबल इति ख्यातं मूर्तं तेजो व्यजृम्भत ||२५| $ ३० ) नभश्च रधरापतिस्तदनु यौवराज्ये पदे कुमारमिममादिशत्कमलबन्धुकल्पप्रभम् । नृपे नृपसुते तदा पृथगवस्थिता श्री भी हिमाद्रिकटके पयोनिधिजले च गङ्गा यथा ॥२६॥ १७ ५ $ ३१ ) अथ कदाचन व्योमचरवसुधाधिपतिः संसारविषयसंजातनिर्वेगः अनादिप्रस्थितकर्मबीजप्ररोहप्ररूढकाण्डां, जननादिकुसुमकोरकितां, व्यसनफलविलसितामसुभृत्कदम्बलोलम्ब भागो यस्य तथाभूतः, निखिलकोविदानां समग्रविदुषामुल्लासको हर्षको निखिलविद्वन्मोदक इत्यर्थः, यशः कुसुमस्य कीर्तिपुष्पस्य माधुर्यां मधुरसेन प्रमुदिताः प्रसन्ना या अमर्यो देवाङ्गनास्ता एव बम्भ्रर्यो भ्रमर्यस्तासां स्वरप्रसरेण स्वरसमूहेन पूरितं त्रिभुवनं येन सः कुमारो महाबलः, बभौ शुशुभे । रूपकालंकारः । पृथिवी छन्दः ||२४|| $ २९ ) कलेति — कलानां हस्त्यश्वारोहणविज्ञानप्रभृतिनानाविधवैदग्धीनां विलाससदनं क्रीडाभवनं, कान्त्या दीप्ते : केलिनिकेतनं क्रीडाभवनं महाबल इति ख्यातं प्रसिद्धं मूर्तं सशरीरं तेजः प्रतापं व्यजृम्भत । रूपकालंकारः १५ ||२५|| $ ३० ) नमश्चरेति — तदनु तत्पश्चात् नभश्चराणां विद्याधराणां धरापतिर्नभश्चरधरापतिः अतिबलनृपतिः कमलबन्धुकल्पप्रभं सूर्यसमतेजसम् इमं कुमारं महाबलं युवा चासो राजा च युवराजस्तस्य भावः कर्म वा यौवराज्यं तद्रूपे पदे, आदिशत् नियोजयामास । तदा नृपेऽतिबलमहाराजे नृपसुते महाबलयुवराजे च पृथग् भिन्नरूपेण अवस्थिता विद्यमाना श्री राजलक्ष्मीः हिमाद्रिकटके हिमाचलकटके पयोनिधिजले च सागरसलिले च अवस्थिता गङ्गा यथा भागीरथीव बभौ शुशुभे । उपमालंकारः । पृथिवी छन्दः ||२६|| ३१ ) अथेति — २० अथ महाबलाय युवराजपददानानन्तरं कदाचन जातुचित् व्योमचरवसुधाधिपतिः खगधराधीशितातिबलः, संसारविषये संजातः समुत्पन्नो निवेंगो वैराग्यं यस्य तथाभूतः सन् अनादिप्रस्थितानि अनाद्यायातानि कर्माणि ज्ञानावरणप्रभृतीन्येव बीजप्ररोहाबीजाङ्कुरास्तेभ्यः प्ररूढः समुत्पन्नः काण्डः स्कन्धो यस्यास्तां ' काण्डः स्तम्बे तरुस्कन्धे' इति मेदिनी । जननादीन्येत्र जन्ममरणादीन्येव कुसुमकोरकाणि पुष्पकुङ्मलानि तानि संजातानि यस्यां तां, व्यसनानि दुःखान्येव फलानि तैर्विलसितां शोभिताम्, असुभृत्कदम्बकानि प्राणिसमूहा एव लोलम्बा भ्रमरा २५ For Private & Personal Use Only १० था तथा यशरूपी पुष्पोंकी मिठास से प्रसन्न देवीरूपी भ्रमरियों के स्वरसमूह से जिसने तीनों लोकोंको व्याप्त कर दिया था ऐसा वह महाबलकुमार अतिशय शोभायमान होता था ||२४|| $ २९ ) कलाविलासेति -- कलाओंका विलासभवन और कान्तिका क्रीड़ाभवन महाबल इस नामसे प्रसिद्ध मूर्तिक तेज वृद्धिको प्राप्त होने लगा ||२५|| ६३० ) नभश्चरेति - तदनन्तर विद्याधरोंके राजा अतिबलने सूर्यके समान तेजस्वी इस महाबल कुमार को युवराज पद पर ३० नियुक्त कर दिया । उस समय राजा और राजपुत्रमें पृथग् पृथग् रूप से अवस्थित राजलक्ष्मी हिमाचल के कटक और समुद्रके जलमें स्थित गंगा नदीके समान सुशोभित हो रही थी ||२६|| $३१ ) अथेति — तदनन्तर किसी समय जिसे संसारके विषय में वैराग्य उत्पन्न हो गया था ऐसा विद्याधरराजा अतिबल, अनादिकालसे आये हुए कर्मरूपी बीजांकुरोंसे जिसका स्कन्ध उत्पन्न हुआ है, जो जन्ममरणादिरूप फूलोंकी बोंडियोंसे व्याप्त है, दुःखरूपी फलोंसे सुशोभित ३५ ३ Jain Education International www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy