SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ -२३ ] प्रथमः स्तबकः २१) शास्ता तस्याः सकलखचरक्ष्मापकोटीरकोटी खेलन्मालासदृशविलसच्छासना संबभूव । धीरः श्रीमानतिबल इति ख्यातनामा खगेन्द्रः प्रख्यातश्रीनिजकुलमहामेरुमन्दारशाखी ॥१८॥ ६२२ ) गङ्गीयन्ति सदा समस्तसरितो रौप्याचलन्त्यद्रयो नीलाब्जानि सिताम्बुजन्ति गजता जम्भारिकुम्भीयति । चन्द्रत्यम्बुजबान्धवः पिककुलं लीलामरालायते कर्पूरन्ति च कज्जलानि विलसद्यत्कीर्तिसंघट्टतः ॥१९॥ $ २३ ) यदीयकीर्तिकल्लोलैविश्वस्मिन्विशदोकृते । वैरिस्त्रोवदनाब्जानि मलिनानि वताभवन् ॥२०॥ निर्मला । विरोधाभासः ॥१७॥ ६२१ ) अथ नगरोवर्णनानन्तरं नृपति वर्णयितुमाह-शास्तेति-तस्या अलकायाः शास्ता रक्षको नृपतिरिति यावत् अतिबल इति ख्यातनामा प्रसिद्धाभिधानः, खगेन्द्रो विद्याधरेन्द्रः संबभूव । अथ तस्यैव विशेषणान्याह-सकलेति-सकला निखिला ये खचरक्ष्मापा विद्याधरराजास्तेषां कोटीरकोटीषु मुकुटाग्रभागेषु खेलन्ती विलसन्ती या माला तस्याः सदृशं विलसच्छोभमानं शासनं यस्य सः, धीरो गभीरः श्रीमान् लक्ष्मीमान् प्रख्यातश्रीः प्रसिद्धलक्ष्मीकः, निजेति–निजकुलमेव स्ववंश एव महामेरुः सुमेरुस्तत्र मन्दार- १५ शाखी कल्पवृक्षः । रूपकालंकारः, मन्दाक्रान्ताच्छन्दः ॥१८॥ ६ २२) अथातिबलनृपतेः कीर्ति वर्णयितुमाहगङ्गीयन्तीति-'मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीयोः' इति कविसंप्रदायात्कीर्तिः शुक्ला वर्ण्यते तत्संसर्गादशुक्ला अपि पदार्थाः शुक्ला वर्ण्यन्ते, तथाहि-विलसन्ती शोभमाना यत्कीर्तिः यदीयसमज्ञा तस्याः संघट्टतः संसर्गात् 'यशः कीर्तिः समज्ञा च' इत्यमरः । सदा शश्वत् समस्तसरितो निखिलनद्यः, गङ्गीयन्ति गङ्गेवाचरन्ति शुक्ला भवन्तीति भावः । अद्रयो गिरयः, रौप्याचलन्ति विजयार्धवदाचरन्ति, नीलाब्जानि नीलकमलानि सिताम्बुजन्ति शुक्लकमलवदाचरन्ति, गजता हस्तिसमूहः, जम्भारिकुम्भीयति ऐरावतवदाचरति, अम्बुजबान्धवः सूर्यः, चन्द्रति चन्द्रवदाचरति, पिककुलं कोकिलसमूहः लीलामरालायते क्रीडाहंसवदाचरति, कज्जलानि च कर्पूरन्ति घनेसारवदाचरन्ति । तद्गुणानुप्राणितोपमालंकारः, शार्दूलविक्रीडितच्छन्दः ॥१९॥ ६२३ ) यदीयेति-यदीया चासो कीर्तिश्च यदीयकोतिस्तस्याः कल्लोलैः परम्पराभिः विश्वस्मिन् जगति विशदीकृते धवलीकृते सति वैरिस्त्रीणां शत्रुसीमन्तिनीनां वदनाब्जानि मुखकमलानि मलिनानि कृष्णानि २५ उज्ज्वल है)।१७।। ६२१) शास्तेति-समस्त विद्याधर राजाओंके मुकुटोंके अग्रभागपर सुशोभित होनेवाली मालाके समान जिसकी आज्ञा सशोभित हो रही है, जो अत्यन्त धीर वीर लक्ष्मीमान, प्रसिद्ध लक्ष्मीसे यक्त तथा अपने वंशरूपी महामेरु पर्वतपर कल्पवृक्ष स्वरूप था ऐसा अतिबल नामका विद्याधरेन्द्र उस अलका नगरीका शासक था ॥१८॥ ६२२) गंगोयन्तीतिजिस अतिबल राजाकी कीर्तिके संसर्गसे समस्त नदियाँ सदा गंगानदीके समान आचरण ३० करती हैं, पर्वत विजया के समान आचरण करते हैं, नीलकमल सफेद कमलोंके समान जान पड़ते हैं, हाथियोंका समूह इन्द्रके हाथी-ऐरावतके समान हो जाता है, सूर्य चन्द्रमाके समान आचरण करता है, कोकिलोंका समूह क्रीड़ाहंसके समान हो जाता है और कज्जल कपूरके समान आचरण करते हैं ।।१९।। $ २३ ) यदीयेति-जिसकी कीर्तिकी परम्परासे समस्त संसारके सफेद हो जानेपर शत्रुस्त्रियोंके मुखकमल काले पड़ गये थे यह खेदकी बात थी ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy