SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ -१८ ] प्रथमः स्तबकः $१७ ) यत्रच पूजोत्सवमङ्गलतरङ्गितदुन्दुभिमन्द्रतमनिध्वाननिर्भरेण, पिकनायकमदनिर्मूलननिदानललनाजनकलगीतकलाकल्लोलपल्लवितवल्लकोक्वणितकमनीयेन, विद्याधरीजनकलितलास्यवेलाचलितरशनादामम मजीररवमेदुरेण, तत्समाकर्णनवेलादोलायमानसंगोतविद्यापारीणविद्याधरमुकुटतट्घटितमालाजालोच्चलितचञ्चरीकसंचयसंकल्पितझङ्कारमनोहरेण, उत्सवकोलाहलेन जागरूकेव लक्ष्मीरालक्ष्यते । $१८ ) द्विविधाः सुदृशो भान्ति यत्र मुक्तोपमाः स्थिता।। राजहंसाश्च सरसान्तरङ्गविभवाश्रिताः ॥१६॥ ६१७ ) यन्नेति-यत्र च अलकानगर्याम्, उत्सवकोलाहलेन उद्धवकलकलेन लक्ष्मीः श्रीः जागरूकेव जागरणशीलेव, आलक्ष्यते दृश्यते इति कर्तृक्रियासंबन्धः । अथोत्सवकोलाहलं वर्णयितुमाह-पूजेति-पूजाया उत्सव एव मङ्गलं तस्मिन् तरङ्गिता वृद्धिंगता ये दुन्दुभीनां पटहानां मन्द्रतमा अतिगम्भीरा निध्वानाः शब्दास्तैनिर्भरेण संभृतेन, पिकेति-पिकनायकस्य कोकिलश्रेष्ठस्य यो मदो गर्वस्तस्य निर्मूलनं निराकरणं तस्य निदानमादिकारणं यत् ललनाजनस्य स्त्रीसमूहस्य कलगीतं मधुरगीतं तस्य कलाया बैदग्ध्याः कल्लोलैः परम्पराभिः पल्लवितं वृद्धिंगते यद् वल्लकीक्वणितं वीणाशब्दस्तेन कमनीयेन मनोहरेण, विद्याधरीतिविद्याधरीजनेन खेचराङ्गनासमूहेन कलितं कृतं यत् लास्यं नृत्यं तस्य वेलायां समये चलितानि यानि रसनादाममञ्जमञ्जीराणि मेखलादाममनोहरनूपुराणि तेषां रखः शब्दस्तेन मेदुरेण वृद्धिंगतेन, तत्समाकर्णनेति-तस्य १५ रवस्य समाकर्णनवेलायां श्रवणसमये दोलायमानानि कम्प्यमानानि संगीतविद्यापारीणविद्याधराणां संगीतकलाकुशलखेचराणां यानि मुकुटतटानि मौलितटानि तत्र घटितानि धृतानि यानि मालाजालानि सक्निकुरम्बाणि तेभ्य उच्चलिता उत्पतिता ये चञ्चरीका भ्रमरास्तेषां संचयः समहस्तेन संकल्पितः कृतो यो झड्रारोऽव्यक्तशब्दस्तेन मनोहरेण रम्येण । ६१८ ) द्विविधा इति-यत्रालकायां स्थिताः कृतनिवासाः द्विविधा द्विप्रकाराः सुदृशः सुष्ठु दृशौ नयने यासां तथाभूताः सुलोचनाः स्त्रियः सुष्ठु दृग् सम्यग्दर्शनं येषां तथाभूताः सम्यग्दृष्टयः, २० भान्ति शोभन्ते । उभयोः सादृश्यमाह-मुक्तोपमाः, सुलोचनापक्षे मुक्ता त्यक्ता उपमा याभिस्ता निरुपमा इत्यर्थः, सम्यग्दष्टिपक्षे मक्तानां मक्ताफलानां सिद्धानां वा उपमा येषां तथाभताः । राजहंसाश्च राजहंसा अपि द्विविधा द्विप्रकाराः कलहंसा नृपोत्तमाश्च भान्ति 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे' इति विश्वलोचनः । उभयोः सादृश्यमाह-सरसामिति तत्र कलहंसपक्षे सरसां कासाराणां तरङ्गविभवं कल्लोलवैभवम् आश्रिताः बिछुड़ती नहीं थीं ॥१५॥ ६१७ ) यत्र चेति-पूजाके उत्सवरूप मंगलकार्यों में बजते हुए २५ दुन्दुभियोंके अत्यन्त गम्भीर शब्दोंसे जो भरा हुआ था, श्रेष्ठ कोयलोंका गर्व दूर करनेवाली स्त्रीजनोंकी मधुर गानकलासे वृद्धिंगत वीणाके निनादसे जो मनोहर था, विद्याधरियोंके द्वारा किये हुए नृत्यके समय चंचल मेखलादाम और मनोहर नूपुरोंके शब्दोंसे जो मिला हुआ था, तथा उस संगीतके सुनते समय हिलते हुए संगीतविद्यामें निपुण विद्याधरोंके मुकुटतटोंमें स्थित मालाओंके समूहसे उड़े हुए भ्रमरोंके समूहसे कृत झंकारसे जो मनोहर था ऐसे उत्सव सम्बन्धी कोलाहलसे जिस अलका नगरीमें लक्ष्मी ऐसी जान पड़ती थी मानो जागृत ही रहती है। ६१८) द्विविधा इति-जिस नगरीमें रहनेवाले दो प्रकारके सुदृश-सुन्दर नेत्रोंवाली स्त्रियाँ और सम्यग्दर्शनसे सहित मनुष्य सुशोभित होते हैं क्योंकि दोनों ही मुक्तोपमा हैं अर्थात् स्त्रियाँ तो उपमारहित-अनुपम हैं और सम्यग्दृष्टि मुक्ताओं अथवा सिद्धोंकी उपमाको धारण करनेवाले हैं। इसी प्रकार जिस अलकानगरीमें दो प्रकारके राजहंस-कल- ३५ हंस पक्षी और श्रेष्ठ राजा सुशोभित होते हैं क्योंकि जिस प्रकार कलहंसपक्षी 'सरसां तरङ्ग१. मकुट क० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy