SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १० २० १० २५ पुरुदेव चम्प्रबन्धे $ १४) मदीयरत्नप्रचयं महार्घमाहृत्य सर्वं क्व नु गच्छसीति । रुषापयोराशिरिवावृतोऽद्य यस्याः समीपे परिखा समिच्छे ॥ १३ ॥ $ १५ ) यदीयकनकोज्ज्वलप्रथितसालमालाभितो विभाति नगरश्रिया विधृतकाञ्चनक्षीमवत् । नभश्च रवसुंधरा रमणराजलक्ष्म्याः पुनः परीतनवहाटकप्रचुरकाण्डवस्त्रालिवत् ॥१४॥ $ १६ ) यस्या: शारदनी रदामलमहाहर्म्यावलिप्रोल्लसत्प्रख्याताम्बुज रागरत्नखचितैर्वातायनैविस्तृतेः । मार्तण्डाधिककान्तिभिर्द्युतटिनोपाथोजचक्राङ्गना १५ स्वदीप्तितरङ्गः परिहसिताः कुलाचला येन तस्य । $ १४ ) अथालकायाः परिखां वर्णयितुमाह- मदीयेति — महा महामूल्यं सर्वं निखिलं मदीयश्चासौ रत्नप्रचयश्चेति मदीयरत्नप्रचयस्तं मामकीनरत्नसमूहम्, आहृत्य अपहृत्य क्व नु गच्छसि । इति रुषा क्रोधेन आवृतः परीत्य स्थितः पयोराशिरिव सागर इव यस्या अलकायाः समीपे परिखा खेयम् अस्तीति समिच्छे तर्कयामि । उपजातिवृत्तम्, उत्प्रेक्षालंकारः ॥ १३ ॥ $ १५ ) अथालकायाः प्राकारं वर्णयितुमाह-- यदीयेति — अभितः परितः, यदीया यत्संबन्धिनी कनकोज्ज्वला सुवर्णनिर्मला प्रथिता प्रसिद्धा च या सालमाला, प्राकारपङ्क्तिः सा, नगरश्रिया नगरलक्ष्म्या विधृतं यत् काञ्चनक्षौमं सुवर्णवस्त्रं तद्वत्, विभाति शोभते । पुनर्भूयः नभश्चराणां विद्याधराणां यो वसुन्धरारमणो नृपस्तस्य राज्यलक्ष्म्या राज्यश्रियाः, परीतानि परिघृतानि नवहाटकप्रचुराणि प्रत्यग्रभर्मव्याप्तानि काण्डवस्त्राणि चण्डातकानि 'लहँगा' इति प्रसिद्धानि कटिवस्त्राणि तेषामालिः पङ्क्तिस्तद्वत् विभाति । उपमालंकारः । पृथिवी च्छन्दः ॥ १४ ॥ ६१६ ) अथालकाया वातायनानि वर्णयितुमाह-यस्था इति - यस्या अलकायाः, शारदनीरदा इव शरन्मेघा इवामला धवला या महाहर्म्यावलयो महाभवनपङ्क्तयस्तासु प्रोल्लसन्ति शोभमानानि प्रख्यातानि प्रसिद्धानि यानि अम्बुजरागरत्नानि पद्मरागरत्नानि तैः खचितैर्व्याप्तैः विस्तृतैर्बृहद्भिः, मार्तण्डादकदधिका कान्तिर्येषां तैः तथाभूतैर्वातायनैर्गवाक्षैः पाथोजानि च चक्राङ्गनाश्चेति पाथोजचक्राङ्गनाः द्युतटिन्या पाथोजचक्रांङ्गना इति द्युतटिनीपाथोजचक्राङ्गनाः मन्दाकिनी कमलचक्रवाक्यः, रात्रौ रजन्यां मीलनं च विप्रयोगश्चेति मीलनविप्रयोगी निमीलनविप्रलम्भी तो विषय यस्यास्तथाभूता या व्युत्पत्तिः कविसंप्रदायस्तया शून्या रहिताः कृताः । यस्या वातायनैर्मन्दाकिन्याः कमलानि न निमीलन्ति चक्रवाक्यश्च न वियुक्ता भवन्तीति भावः । अतिशयोक्तिः । शार्दूलविक्रीडितं छन्दः ॥ १५ ॥ रात्री मीलनविप्रयोगविषयव्युत्पत्तिशून्याः कृताः ॥१५॥ / Jain Education International [ १६१४ $१४ ) मदीयेति - जिस अलका नगरीके समीप परिखा ऐसी जान पड़ती है मानो 'मेरे समस्त महामूल्य रत्नों के समूहको चुराकर कहाँ जाते हो,' इस क्रोधसे समुद्र ही उसे घेरकर स्थित हो ||१३|| $ १५ ) यदीयेति - जिस नगरीके चारों ओर स्थित सुवर्णसे देदीप्यमान कोटोंकी ३० पंक्ति नगरलक्ष्मीके द्वारा धारण किये हुए सुवर्णकी लड़ीवाले वस्त्र के समान सुशोभित होती है अथवा विद्याधर राजाकी राज्यलक्ष्मी के पहने हुए नवीन सुवर्णकी लड़ियोंसे व्याप्त कटिवस्त्रों (लहँगों ) की पंक्तिके समान जान पड़ती है || १४ || $१६ ) यस्या इति - शरद् ऋतुके मेघोंके समान सफेद बड़े-बड़े महलोंके समूह में सुशोभित प्रसिद्ध पद्मराग मणियोंसे जड़े तथा सूर्य से अधिक कान्तिसे युक्त जिसके बड़े-बड़े झरोखोंके द्वारा रात्रि में आकाशगंगा के ३५ कमल और चकवियाँ निमीलित होने तथा बिछुड़ने सम्बन्धी कविसम्प्रदाय से शून्य कर दिये येथे अर्थात् वहाँ ऊँचे-ऊँचे महलोंके लम्बे-चौड़े झरोखे सूर्य से भी अधिक कान्तिवाले थे इसलिए रात्रि के समय आकाशगंगाके कमल निमीलित नहीं होते थे और चकवियाँ चकवोंसे For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy