SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ -१० ] प्रथमः स्तबकः ६८) कल्याणं कलयन्तु पूर्वकवयः पीयूषकल्लोलिनी सल्लापिप्रथमानकोमलवचोधाराः स्फुरत्कीर्तयः । यैरादोश्वरसत्कथामृतझरी नीता प्रकाशं परं संसारोद्भवतापमप्रतिहतं लोपं नैयन्त्यन्ततः ॥८॥ ६९) आदीश्वरोदारकथारसज्ञा स्तुति गुरूणां तनुतां रसज्ञा । येषां कटाक्षामृतसेचनेन सुपुष्पिताभून्मम सूक्तिवल्ली ॥९॥ १०) जयन्तु श्रीमन्तः प्रथितजिनसेनार्यगुरवः प्रवादिप्रागल्भ्योद्धरशिखरदम्भोलिपटवः । दलन्मल्लीवल्लीकुसुमरससौरभ्यलहरी ___ मुचा वाचा मोचाफलमधुरचौर्येकचतुराः ॥१०॥ मरालस्तेनाढयं सहितम्, अधर एव प्रवाल: किसलयो यस्मिन् तत्, नीलभ्रूः श्यामभ्रुकुटिरेव मरुकं तन्नामवृक्षो यस्मिन् तत्, उदयद्रूपेण वर्धमानसौन्दर्येण कलितं सहितम् । रूपकालंकारः, शिखरिणीच्छन्दः ॥७॥ ६८ ) अथ पूर्वकवीन् स्तोतुमाह-कल्याणमिति-पीयूषकल्लोलिन्याः सुधास्रवन्त्याः सल्लापिनी सदृशी प्रथमाना प्रसिद्धा कोमला मृदुला वचोधारा वचनपक्तिर्येषां तथाभूताः, स्फुरन्ती वर्धमाना कीर्तिर्येषां ते, पूर्वकवयः जिनसेनादयः, कल्याणं श्रेयः कलयन्तु कुर्वन्तु, यैः पूर्वकविभिः अप्रतिहतं अखण्डितं संसारोद्भवतापं भवभ्रमणसमुत्पन्नसंतापं अन्ततः सामस्त्येन लोपं विनाशं नयन्ती प्रापयन्ती आदीश्वरस्य भगवतो वृषभदेवस्य सत्कथैवामृतझरी पीयूषनिर्झरिणी परं सातिशयं प्रकाशं प्राकट्यं प्रख्याति वा नीता प्रापिता । रूपकालंकारः, शार्दूलविक्रीडितं छन्दः ॥८॥ ६९) आदीश्वरेति-आदीश्वरस्य प्रथमतीर्थकरस्य उदारकथाया उत्कृष्टकथाया रसं जानातीति तथाभूता, रसज्ञा रसना, तेषां गुरूणामाशाधरसूरिवर्याणां स्तुति तनुताम् येषां कटाक्ष एवामृतं तस्य सेचनेन ममाहद्दासस्य सूक्तिवल्ली सुभाषितलता, सुपुष्पाणि संजातानि यस्यां तथाभूता अभूत् । रूपकालंकारः । उपजातिवृत्तम् ॥९॥ २० १०) जयन्त्विति-श्रीमन्तः काव्यलक्ष्मीयुक्ताः, प्रवादिनां प्रतिवादिनां प्रागल्भ्यमेवोद्धरशिखरमुन्नतशृङ्गं तस्मिन् दम्भोलिवद् वज्रवत् पटवः समर्थाः प्रवादिमानशिखरभङ्क्तार इत्यर्थः, दलन्ति विकसन्ति यानि मल्लीवल्ल्या मालतीलतायाः कुसुमानि पुष्पाणि तेषां रसस्य मकरन्दस्य या सौरम्यलहरी सौगन्ध्यसंततिस्तां मुञ्चति तथाभूता तया वाचा वाण्या मोचाफलस्य कदलीफलस्य मधरो मधररसस्तस्य चौर्येपहरण एकचतुरा अतिनिपुणाः प्रथितजिनसेनार्यगुरवः प्रसिद्धजिनसेनाचार्याः, जयन्तु जयवन्तो भवन्तु । रूपकानुप्रासयोः संसृष्टिः । २५ भगवानका मुखरूपी उद्यान जिसका स्थान है आचारांगादि शाखाओंसे सुशोभित उस श्रुतस्कन्धरूप उन्नत वृक्षकी हम स्तुति करते हैं ॥७॥ ६८) कल्याणमिति-अमृतकी नदीके समान प्रसिद्ध तथा कोमल वचनावलीसे सहित एवं बढ़ती हुई कीर्तिसे युक्त वे पूर्व कवि कल्याण करें जिन्होंने अखण्डित संसारसे समुत्पन्न संतापको सम्पूर्ण रूपसे नष्ट करनेवाली आदीश्वर भगवान्की उत्तम कथा रूपी अमृतझरीको उत्कृष्ट प्रकाशमें लाया है ।।८।। $९) आदोश्वरेतिभगवान् वृषभदेवकी कथाके रसको जाननेवाली मेरी जिह्वा उन गुरुओंकी स्तुतिको विस्तृत करे जिनके कटाक्ष रूप अमृतके सींचनेसे मेरी सुभाषित रूपी लता सुपुष्पित हुई थी ।।९।। १०) जयन्त्विति-प्रवादियोंके गाम्भीर्यरूपी शिखरको गिरानेके लिए वज्रके समान निपुण तथा मालतीलताके खिले हुए पुष्परसकी सुगन्धिसन्ततिको छोड़नेवाली वाणीके द्वारा कदलीफलके मिठासके अपहरण करने में अतिशय चतुर श्रीमान् प्रसिद्ध जिनसेनाचायें गुरु जयवन्त ३५ १. नयत्यन्ततः कः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy