SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [ ११६५ पुरुदेवचम्पूप्रबन्धे $५) रत्नत्रयं राजति जैत्रमस्त्रमचिन्त्यदिव्याद्भतशक्तियुक्तम् । मोहक्षमावल्लभगुप्तसेनां जिगाय तां येन जिनाधिराजः ॥५॥ $६) वाणी मे प्रथयन्तु ते गणधराः सज्ज्ञानवाराकरा येषां निर्मलमानसे श्रुतमयी हंसी सदा खेलति । स्याद्वादोत्तमपक्षयुग्जिनपतेर्वक्त्राम्बुजान्निर्गता-- मिथ्यैकान्तमृणालकाण्डनिचयं द्राक् खण्डशः कुर्वती ॥६॥ ७) श्रुतस्कन्धोदञ्चत्तरुमधिकशाखाविलसितं स्तुमो यस्य स्थानं जिनपवदनोद्यानमनघम् । दृगम्भोजोपेतं स्मितमधुरहंसाढयमधर प्रवालं नीलभ्रमरुकमुदयद्रूपकलितम् ॥७॥ तया आकुलितं यच्चित्तं तस्य संत्रासनं भयोत्पादकम् अथवा कुतीर्थकरवासनया आकुलितं चित्तं येषां तेषां संत्रासनम्, सतां साधूनां सुगुणशासनं सम्यक्त्वादिगुणोपदेशकम्, सकलमङ्गलानां निखिलश्रेयसां स्वर्गापवर्गाणामाशासनं प्रापकम् । पृथ्वीछन्दः ॥४॥६५) अथ रत्नत्रयं स्तोतुमाह-रत्नत्रयमिति-जिनाधिराजो जिनेन्द्रः, येन रत्नत्रयेण तां प्रसिद्धां मोह एव समावल्लभो राजा तेन गुप्ता सुरक्षिता या सेना तां मोहाधिष्ठितकर्मपृतनां १५ जिगाय जयति स्म, अचिन्त्या अज्ञानि जनमनोऽगोचरा, दिव्या-अलौकिकी, अद्भताश्चर्यकरी च या शक्तिस्तया युक्तं, रत्नत्रयं सम्यग्दर्शनज्ञानचारित्ररूपं, जैत्रं जेतुं शीलम् अस्त्रं राजति शोभते । रूपकालंकारः, उपजातिवृत्तम् । ६६) अथ गुरून् स्तोतुमाह-वाणीमिति-सज्ज्ञानवाराकराः सद्बोधसिन्धवः, ते वक्ष्यमाणगुणविशिष्टा गणधरा गौतमादयः, मे ग्रन्थकर्तुः, वाणी भारती प्रथयन्तु विस्तारयन्तु । येषां निर्मलमानसे स्वच्छान्तःकरणे निष्पङ्क मानससरोवरे च, श्रुतमयी द्वादशाङ्गरूपा, स्याद्वादोत्तमपक्षयुक्-स्याद्वादेन प्ररूपितो उत्तमपक्षी निर्बाधविधि२० निषेधात्मकसिद्धान्तो पक्षे गरुतौ ताभ्यां युज्यते तथाभूता, जिनपतेजिनेन्द्रस्य, वक्त्राम्बुजान्मुखारविन्दात् निर्गता प्रकटिता, मिथ्र्यकान्त एव मृणालकाण्डनिचयो विसलतासमूहस्तं, द्राक् झटिति, खण्डशः कुर्वती नाशयन्ती हंसी मराली सदा खेलति क्रीडति । जिनवाणीप्रख्यापकाश्चतुर्ज्ञानसागरा गणधरा मम वाणी विस्तारयन्त्विति भावः । श्लेषानुप्राणितो रूपकालंकारः, शार्दूलविक्रीडितच्छन्दः ॥६॥ ६७) अथ श्रुतस्कन्धं स्तोतुमाहे-श्रुतस्क न्धेति-अधिकशाखाभिराचाराङ्गादिप्रभेदैविलसितं शोभितं तं श्रुतस्कन्ध एवोदञ्चत्तरुरुन्नतवृक्षस्तं स्तुमो नुमः, २५ यस्य स्थानं धाम, जिनपवदनं जिनेन्द्रवक्त्रमेव उद्यानमुपवनमिति जिनपवदनोद्यानम् आसीदिति शेषः । कथंभूतं तदुद्यानमित्युच्यते-अनघं निर्दोषम्, दृगम्भोजोपेतं नयनारविन्दसहितं, स्मितं मन्दहसितमेव मधुरहंसो मनोज्ञ सत्पुरुषोंको उत्तम गुणोंका उपदेश देनेवाला और समस्त मंगलोंको प्राप्त करानेवाला जिनेन्द्रदेवका शासन जयवन्त है-सबसे उत्कृष्ट है ॥४॥ ६५) रत्नत्रयमिति-जिनेन्द्र देवने जिसके द्वारा मोहरूपी राजाके द्वारा पालित उस प्रसिद्ध कर्मरूपी सेनाको जीता था ३० वह अचिन्त्य दिव्य तथा आश्चर्यकारी सामर्थ्यसे युक्त रत्नत्रय रूपी विजयी शस्त्र सुशोभित हो रहा है ।।५।। ६६) वाणीमिति-जिनके निर्मल मनरूपी मानसरोवरमें स्याद्वादके द्वारा प्ररूपित उभयपक्ष रूपी पंखोंसे युक्त, जिनेन्द्रदेवके मुख कमलसे निकली हुई तथा मिथ्या एकान्त रूपी मृणालोंके समूहको शीघ्र ही खण्ड-खण्ड करनेवाली द्वादशांगरूपी हंसी सदा क्रीडा करती है; सम्यग्ज्ञानके सागर वे गणधर देव मेरी वाणीको विस्तृत करें ॥६॥ ३५ ६७) श्रुतस्कन्धेति-निर्दोष, नेत्ररूपी कमलोंसे सहित, मन्दमुसकानरूपी हंससे सहित, अध. रोष्ठरूपी किसलयसे सहित, श्यामभृकुटिरूपी मरुवासे युक्त एवं वर्धमान रूपसे सहित जिनेन्द्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy