SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ -४ ] प्रथमः स्तबकः ६३) जीवं जीवं प्रति कलयितु नित्यसौख्यं प्रवृत्तः । श्रीमानाद्यो जिनपतिशशी संगतानन्तसौख्यः । भव्योल्लासं वितरतु सभोल्लासक्लुप्तप्रतिष्ठः प्रौढध्वान्तस्फुरणहरणः सत्पथे संनिविष्टः ।।३।। $४ ) विशासितकुशासनं विविधबन्धविच्छेदनं जिनाधिपतिशासनं जयति भव्यसंमाननम् । कुतीर्थकरवासनाकुलितचित्तसंत्रासनं सतां सुंगुणशासनं सकलमङ्गलाशासनम् ॥४॥ छन्दः ॥२।। ३) पुनरपि चन्द्ररूपकेणाद्यं जिनपति स्तोतुमाह-जीवं जीवमिति-आद्यः प्रथमः, जिनपतिरेव शशी जिनपतिशशी जिनेन्द्रचन्द्रः, भव्यानामुल्लासस्तं भव्योल्लासं पक्षे भव्यश्चासावुल्लासश्चेति भव्योल्लासस्तं, १० वितरतु ददातु, इति कर्तृक्रियासंबन्धः । अथोभयोः सादृश्यमाह-जीवं जीवं प्रति जन्तुं जन्तुं प्रति वीप्सायां द्वित्वम् पक्षे जीवंजीवं चकोरकं 'जीवंजीवश्चकोरकः' इत्यमरः, नित्यं च तत् सौख्यं चेति नित्यसौख्यं कर्मक्षयजनितत्वेन स्थायिसुखं पक्षेऽभीक्ष्णसुखं कलयितुं प्रापयितुं प्रवृत्तस्तत्परः, श्रीमान् अनन्तचतुष्टयलक्ष्मीसहितः पक्षे शोभासहितः, संगतं प्राप्तमनन्तसौख्यं यस्य तथाभूतः, पक्षे संगतं प्राप्तमनन्तसौख्यं निस्सीमसुखं यस्मात् जीवानां तथाभूतः अथवा सुष्ठु खं सुखं, सुखमेव सौख्यम्, अनन्तं च तत्सौख्यं चेत्यनन्तसौख्यं सर्वतो निरवधि- १५ गगनं संगतं प्राप्त सौख्यं येन तथाभूतः, सभायाः समवसरणपरिषद उल्लासे प्रहर्षणे क्लृप्ता निश्चिता प्रतिष्ठा यस्य तथाभूतो जिनपतिः, पक्षे स इति पदं पृथक्कृत्य 'जिनपतिशशी' इत्यस्य विशेषणं कार्यम्, भायाः कान्तेरुल्लासे क्लृप्ता प्रतिष्ठा यस्य तथाभूतः शशी, प्रौढध्वान्तस्य निबिडाज्ञानान्धकारस्य यत्स्फुरणं संचारस्तस्य हरणं यस्मात्तथाभूतो जिनपतिः पक्षे गाढतिमिरसंचारम्पहारी, सत्पथे समीचीनमार्गे पक्षे सतां नक्षत्राणां पन्थाः सत्पथम् तस्मिन आकाशे संनिविष्टः स्थितः । मन्दाक्रान्ताच्छन्दः, श्लेषानुप्राणितो रूपकालंकारः। २० ६४) अथ जिनशासनं स्तोतुमाह-विशासितेति-जिनाधिपतेजिनेन्द्रस्य शासनं जिनाधिपतिशासनं जिनसमयः जयति सर्वोत्कर्षेण वर्तते । तदेव विशिनष्टि-विशासितं विनाशितं कुशासनं मिथ्यासमयो येन तथाभूतं विशासितकुशासनम्, विविधानां प्रकृत्यादिभेदभिन्नानां बन्धानां विच्छेदनं विनाशकम् विविधबन्धविच्छेदनम्, भव्यानां मोक्षप्राप्त्यर्हाणां संमाननं समादरणीयं भव्यसंमाननम्, कुतीर्थकरी मिथ्यासमयप्रवर्तिका या वासना $३) जीवं जीवमिति-वे आदि जिनेन्द्ररूपी चन्द्रमा भव्यजीवोंको परमहर्ष प्रदान करें २५ (पक्षमें उत्तम हर्ष प्रदान करें) जो प्रत्येक जीवके प्रति स्थायी सुख प्राप्त करनेके लिए तत्पर हैं (पक्षमें चकोर पक्षीके लिए निरन्तर आनन्द प्रदान करनेवाले हैं, अनन्त चतुष्टय. रूप लक्ष्मीसे सहित हैं (पक्षमें शोभासे सहित हैं ), जिन्हें अनन्त सुख प्राप्त हुआ है (पक्षमें जिनसे अनन्त सुख प्राप्त हुआ है अथवा जिन्होंने अवधिरहित निर्मल आकाश प्राप्त किया है), जिनकी महिमा समवसरण सभाके हर्षित करनेमें निश्चित है ३० (पक्षमें जिनकी प्रतिष्ठा कान्तिके विस्तारमें निश्चित है), अत्यन्त सघन अज्ञानान्धकारके संचारको नष्ट करनेवाले हैं (पक्षमें प्रगाढ़ अन्धकारके संचारको नष्ट करनेवाले हैं) और समीचीन मार्गमें स्थित हैं (पक्ष में आकाशमें स्थित हैं)॥३॥ $ ४ ) विशासितेतिमिथ्याधर्मको नष्ट करनेवाला, अनेक प्रकारके बन्धोंको दूर करनेवाला, भव्य जीवोंके द्वारा आदरणीय, मिथ्याधर्मकी वासनासे दूषित चित्तवाले पुरुषोंको भय उत्पन्न करनेवाला, ३५ १. सुगुणशालिनांक.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy