________________
श्रीः
महाकविश्रीमदर्हद्दासविरचितः
पुरुदेवचम्पूप्रबन्ध:
प्रथमः स्तबकः
$ १ ) क्रियाद्वः कल्याणं भ्रमरहितसामोदसुमनः
समासेव्यः श्रीमान् वृषभ इति विद्वत्सु विदितः । ददानः कल्पद्रुः श्रितजनत तेरुत्तमफलं
समासीनो दिव्यध्वनिमृदुलतालंकृतमुखः ॥१॥
पुरुदेवमुरुं लक्ष्म्या लक्षितं परया मुदा । वन्दारु वृन्दवन्द्याङ्घ्रि वन्देऽनन्तगुणार्णवम् ॥ १॥ महावीरं वीरं गुणगणगभीरं भवहरं महाघीरं धीरं निखिलजनहीरं सुखकरम् । समोरं ध्यानाग्नेर्दुरितदवनीरं श्रमहरं भजामः सद्भक्त्या सुगतभवतीरं शमघरम् ॥२॥ पुरुदेव चम्पकाव्यं गद्यपद्यावभासितम् । विवृणोमि समासेन विद्वज्जनमनोहरम् ||३|| ध्यायं ध्यायं गुरुगुणधरं ज्ञानलक्ष्म्या लसन्तं धीरं वीरं नततमसुरं भासुरं देहदीप्त्या । भक्त्या शक्त्या कृतविवरणं काव्यमेतत्करोमि ध्वान्तं चेतोगृहगतमिदं सत्त्वरं मे प्रणश्यात् ॥४॥ अर्हद्दासकृतं काव्यं नानालंकारभूषितम् । गहनं छात्रवृन्दस्य सत्यमब्धीयते सदा ॥५॥ छात्रास्तरन्तु तत्क्षिप्रं तरण्या टोकयानया । इति चेतः समाधाय कृतयत्नो भवाम्यहम् || ६ || अथ निर्विघ्नं ग्रन्थपरिसमाप्तिकामो महाकविर्ग्रन्थनायकं वृषभं भगवन्तं स्तोतुमाह
Jain Education International
१०
६१ ) क्रियाद्व इति वृषेण रत्नत्रयधर्मेण भाति शोभत इति वृषभः । वृषभ इति विद्वत्सु विशेषु विदितः कल्पद्रुः कल्पवृक्षः, वो युष्माकं, कल्याणं क्रियादिति कर्तृकर्मसंबन्धः । अथ वृषभकल्पवृक्षयोः सादृश्यमाह - भ्रमरहित सामोदसुमनः समासेव्यः तत्र वृषभपक्षे - भ्रमेण संशयेन रहिताः भ्रमरहिताः, आमोदेन हर्षेण २० सहिताः सामोदाः, भ्रमरहिताः सामोदाश्च ये सुमनसो देवा विद्वांसो वा तैः समासेव्यः कल्पवृक्षपक्षे भ्रमरहिता भृङ्गहितकराः सामोदाः सुगन्धिसहिताश्च या, सुमनसः पुष्पाणि ताभिः समासेव्यः । 'सुगन्धि मुदि वामोदः ' 'सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान्' इति च विश्वलोचनः । श्रीमान् अनन्तचतुष्टयलक्ष्मी सहितः पक्षे शोभासहितः । श्रितजनततेः आश्रितजनसमूहस्य उत्तमफलं मोक्षफलं पक्षे वस्त्राभरणादिसमीप्सितफलं ददानः, समासीनः - वृषभपक्षे सम्यक्प्रकारेण आसीनः समवसरणंस्थित इत्यर्थः, दिव्यध्वनिमृदुलतालंकृतमुखः दिव्यध्वने - २५
१५
$ १ ) क्रियाद्वः - विद्वानोंमें वृषभ इस नामसे प्रसिद्ध वह कल्पवृक्ष तुम सबका कल्याण करे जो कि संशय, रहित तथा हर्ष सहित देवोंसे सेवनीय है ( पक्षमें भ्रमरोंके लिए हितकारी तथा सुगन्धित फूलोंसे सेवनीय है । अनन्तचतुष्टयरूप लक्ष्मीसे सहित है । ( पक्षमें अनुपम शोभासे सहित है) आश्रित जन समूहको मोक्षरूपी उत्तमफल देनेवाला है (पक्ष में मनोवांछित वस्त्राभूषण आदि फल देनेवाला है ) समवसरणसभा में विराजमान हैं और दिव्यध्वनिकी ३०
For Private & Personal Use Only
www.jainelibrary.org