________________
-२२ ]
नवमः स्तबकः
३३३
भ्यर्चनीयः स च चक्रभृतामाद्यस्त्रिभुवनगुरुतनयो भरतराजः शरार्पणदानादिना पूजनीय इति प्रतिबोधितः प्रशान्तक्रोधः प्रसन्नचित्तवृत्तिः सुरैः सह प्रस्थितो मणिकिरीटमरी चिविचित्रितगगनतलः शरं रत्नपटलनिवेशितं पुरोधायासाद्य च चक्रपाणिमिमां वाणीं सविनयमभाणीत् ।
$ २१ ) पुरा लब्धं पुण्यं परिणतमयं मे सुदिवसो
भवान्यस्मादस्मन्नयनपथपान्यः समभवत् । इदानीमस्माकं मिलित इव सर्वोत्सवगुणो भवत्सङ्गानन्दो विवशयति पापं च नुदते ॥ १४॥
$ २२) त्रिभुवनगुरुर्यस्य श्रीमान्पिता सकलेष्टदः
सुरनरमुखाः सर्वे यस्यानुशास्तिमुपासते । नव च निधयो रत्नान्यर्व्यानि यस्य च तस्य ते सुलभमुपदीक लज्जां तनोति मनो मम ||१५|
Jain Education International
तनयः वृषभेश्वरपुत्रः, मणिकिरीटस्य मणिमयमोलेर्मरीचिभिर्विचित्रितं गगनतलं येन सः । शेषं सुगमम् । $ २१ ) पुरेति - पुरा प्राक् लब्धं समजितं पुण्यं सुकृतं परिणतमुदितम् मे मम अयं सुदिवसः शोभनवासरः, यस्मात् कारणात् भवान् अस्मन्नयनपथपान्थोऽस्मन्नेत्र मार्गपथिकः समभवत् । इदानीं सांप्रतं सर्वोत्सवगणः निखिलोत्सवसमूहः अस्माकं मिलित इव प्राप्त इव भवत्सङ्गेनानन्दो भवत्सङ्गानन्दो भवत्सङ्गतिसमुद्भूतसंमदः १५ विवशयति परवशं करोति मामिति शेषः पापं दुरितं च नुदते दूरीकरोति । शिखरिणीच्छन्दः ॥ १४ ॥ $ २२ ) त्रिभुवनेति - श्रीमान् अनन्तचतुष्टयादिलक्ष्मोयुतः सकलेष्टदो निखिलमनोरथपूरक: त्रिभुवनगुरुः वृषभ जिनेन्द्रो यस्य पिता जनकः अस्तीति शेषः, सुरनरमुखाः देवमनुजप्रधानाः सर्वे सकलाः प्राणिन: यस्य तव अनुशास्ति समाज्ञाम् उपासते सेवन्ते यस्य समीपे नवनिषयः अर्ध्यानि प्रशस्तानि रत्नानि चतुर्दश रत्नानि च सन्ति तस्य ते तव सुलभं सुप्राप्यं साधारणं वस्त्वित्यर्थः, उपदीकर्तुमुपायनीकर्तुं मम मनो लज्जां त्रपां २०
ܐ
परन्तु उसके बाद जिनकी बुद्धिकी कुशलता प्रसिद्ध थी ऐसे समीपमें बैठे हुए देवोंने जब उसे इस तरह समझाया कि 'यह चक्रवर्तीका बाण गन्ध, अक्षत आदिके द्वारा पूजा करने योग्य है तथा चक्रवर्तियोंमें प्रथम एवं भगवान् वृषभदेवका पुत्र भरत भी बाणको वापस देना आदिके द्वारा पूजनीय है, तब उसका क्रोध शान्त हो गया और प्रसन्न चित्त होकर वह देवोंके साथ मणिमय मुकुटकी किरणोंसे आकाशतलको चित्र-विचित्र करता हुआ चला २५ एवं रत्नोंके समूह के बीच रखे हुए उस बाणको आगे रखकर चक्रवर्तीके पास जाकर विनय पूर्वक यह शब्द कहने लगा । $२१ ) पुरेति – पहले प्राप्त किया हुआ पुण्य उदित हुआ है, यह मेरा बहुत ही अच्छा दिन है क्योंकि आप मेरे नयन-पथके पथिक हुए हैं। इस समय हम लोगोंको समस्त उत्सवोंका समूह प्राप्त हुआ है ऐसा जान पड़ता है, आपके समागम से उत्पन्न हुआ हर्ष मुझे परवश कर रहा है तथा पापको नष्ट कर रहा है ||१४|| $२२ ) त्रिभुव- ३० नेति -- -- अनन्तचतुष्टय आदि लक्ष्मीसे सहित तथा समस्त इष्ट पदार्थोंको देनेवाले त्रिलोकीनाथ - वृषभ जिनेन्द्र जिसके पिता हैं, देव, मनुष्य आदि सभी लोग जिसकी आज्ञाकी उपासना करते हैं, नौ निधियाँ और श्रेष्ठ चौदह रत्न जिसके पास हैं ऐसे आपके लिए सुलभ
For Private & Personal Use Only
www.jainelibrary.org