SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८८ पुरुदेवचम्पूप्रबन्धे [ ८६।२०$२०) तदानीं योगीन्द्रे प्रविशति पदा हास्तिनपुर तमेनं संद्रष्टु कुतुकितहृदां संभ्रमवताम् । जनानां संमन्निबिडतररथ्याङ्गणजुषां पुपूरे व्योमाध्वा प्रबलतरकोलाहलरवैः ॥११॥ २१) तदात्वे किल संवेगवैराग्यसिद्धयर्थं बद्धपरिच्छदं, जगत्कायस्वभावादितत्त्वान्यनुघ्यायन्तं, सत्त्वगुणाधिकक्लिश्यमानाविनयेषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि भावयन्तं, युगप्रमितदेशे पुरःप्रदेशे दृष्टिं प्रसायं शनैः पादाम्बुजं गन्धसिन्धुरलीलया विन्यस्यन्तं राजमन्दिरसमीपमापतन्तं भगवन्तं सिद्धार्थनामका द्दोवारिकाच्छ्रुत्वाधिराजयुवराजौ सोमप्रभश्रेयान्सो, अन्तःपुरामात्य सेनानी प्रमुखैनिबिडितपाश्वंभागी ससंभ्रमं प्रत्युद्गम्य प्रणम्य च ततश्चरणाम्बुजं निवेद्य चाय१. पाद्यादिकं प्रमोदस्य परां काष्ठामुपजग्मतुः। पादयामास कथयामास । $२०) तदानीमिति तदानीं तस्मिन् काले योगीन्द्रे वृषभजिनेन्द्रे पदा चरणेन हास्तिनपुरं कुरुजाङ्गलजनपदराजधानों प्रविशति सति, एनं तं योगीन्द्रं संद्रष्टुं समवलोकितुं कुतुकितहृदां कुतूहलाकुलचेतसां संभ्रमवतां त्वरायुक्तानां निबिडतराणि सान्द्रतराणि यानि रथ्याङ्गणानि राजमार्गाजिराणि तानि जुषन्ते प्रीत्या सेवन्ते तेषां जनानां लोकानां सम्मत् समाघातात प्रबलतरा अतिप्रबला ये कोलाहलरवाः कलकलशब्दास्तैः व्योमाध्वा गगनमार्गः पुपरे संपूर्णः। शिखरिणी छन्दः ॥११॥२.) तदात्व इतितदात्वे तदानीं किल संवेगश्च वैराग्यं चेति संवेगवैराग्ये तयोः सिद्ध्यर्थ बद्धपरिच्छदं बद्धपरिकरं समुद्यतमिति भावः। जगच्च कायश्चेति जगत्कायो संसारशरीरे तयोः स्वभावस्तदादितत्त्वानि अनुध्यायन्तं भूयोभूयश्चिन्तयन्तं 'जगत्कायस्वभावौ वा संवेगवैराग्यार्थम' इति प्ररूपितत्वात, सत्त्वाश्च गुणाधिकाश्च क्लिश्यमानाश्च अविनयाश्च तेषु सत्याः सामान्यप्राणिनः गुणाधिका ज्ञानादिगुणसंपन्ना: क्लिश्यमाना दुःखभाजः अविनया उद्दण्ड प्रकृतिका एतेष क्रमेण मैत्री च प्रमोदश्च कारुण्यं च माध्यस्थ्यं चेति मैत्रोप्रमोदकारुण्यमाध्यस्थ्यानि भावयन्तं २° 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु' इति निरूपितत्वात्, भावयन्तं चिन्तयन्तं, युगः शकटवाहवृषभयोः स्कन्धोपरिधृतश्चतुर्हस्तप्रमाणोदारुविशेषः तेन प्रमितो युगप्रमितः स चासो देशश्च तस्मिन् पुरःप्रदेशे अग्रस्थाने दृष्टिं दृशं प्रसार्य विस्तार्य शनर्मन्दं गन्धसिन्धुरलीलया मत्तमतङ्गजलीलया पादाम्बुजं चरणकमलं विन्यस्यन्तं निक्षिपन्तं, राजमन्दिरसमीपं राजभवनाभ्यर्णम् आपतन्तं समागच्छन्तं भगवन्तं जिनेन्द्र सिद्धार्थनामका दौवारिकात् सिद्धार्थाभिधानद्वारपालात् श्रुत्वा निशम्य अधिराजश्च युवराजश्चेति २५ अधिराजयुवराजो सोमप्रभश्रेयान्सो तन्नामानी अन्तःपुरामात्यसेनानीप्रमुखैः शुद्धान्तसचिवसेनापतिप्रधानर्जनैः हैं। इस समय हम लोगोंके बहुत भारी कीर्तिकी प्राप्ति आदि संपदाओंका कारणभूत पुण्यका उदय है तथा यह श्रेयांसकुमार तत्त्वोंका ज्ञाता है। $२०) तदानीमिति-उस समय योगिराज वृषभजिनेन्द्रने ज्योंही चरणोंके द्वारा हस्तिनापुरमें प्रवेश किया त्योही उन्हें देखनेके लिए कुतूहलसे युक्त, शीघ्रता करनेवाले तथा राजमार्गके मैदानमें एकत्रित ३० मनुष्योंकी धक्का-मुक्कीसे उत्पन्न बहुत भारी कोलाहलके शब्दसे आकाशमार्ग भर गया॥११॥ $२१) तदात्व इति-उस समय जो संवेग और वैराग्यकी सिद्धिके लिए बद्धपरिकर-पूर्णउद्यत थे. संसार और शरीरके स्वभाव आदि तत्त्वोंका बार-बार ध्यान करते थे, सत्त्व, गुणाधिक, दुःखी तथा उद्दण्ड मनुष्योंमें क्रमसे मैत्री, प्रमोद, कारुण्य और माध्यस्थ्य भावकी भावना रखते थे, तथा युगप्रमाण भूमिमें आगे दृष्टि पसारकर मत्तहाथीकी लीलासे धीरे३५ धीरे चरण कमलको रख रहे थे, ऐसे भगवानको सिद्धार्थक नामक द्वारपालसे राजभवनके समीप आते हुए सुनकर अधिराज और युवराज पदके धारक सोमप्रभ और श्रेयांस, अन्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy