________________
-१९] अष्टमः स्तबकः
२८७ समागत्यात्र संजातः परमश्रेयो निदानतया श्रेयानिति विख्यातः सोऽयं निशायाः पश्चिमे यामे समुत्तुङ्गसुमेरुं, शाखाग्रलम्बिभूषणभूषितं कल्पतरूं, विद्रुमपल्लवारुणकेसरं केसरिणं, शृङ्गाग्रलग्नमृत्स्नं वृषं, स्फुरत्कान्तिमनोहरी दिवाकरनिशाकरी, चलाचलवीचिविशालं पारावारं, अष्टमङ्गलधारीणि भूतरूपाणि च स्वप्ने विलोकयामास । १८) ततः प्रभाते परितुष्टचित्तः श्रेयानयं संसदि वर्तमानम् ।
सोमप्रभं प्राप्य सुरेशतुल्यं स्वप्नान्यथावत्कथयांबभूव ॥१०॥
१९) तदनु सोमप्रभेण वीक्षितवदनारविन्दः सुरगुरुप्रतिच्छन्दः पुरोधाः सुराद्रिदर्शनेन तद्वदुत्तुङ्गः परमपुरुषो भवत्सदनमलंकरिष्यत्यन्ये च स्वप्नास्तद्गुणोन्नति सूचयन्त्यस्माकं तु महत्तरकीर्तिलाभादिसंपदां निदानभूतः पुण्योदयः कुमारश्चायं तत्त्वविदिति प्रतिपादयास।
भूतपूर्वार्थे चरट् प्रत्ययः सर्वार्थसिद्धितः तन्नामानुत्तरविमानात् समागत्य अत्र हस्तिनापुरे संजातः समुत्पन्नः १० परमश्रेयसः परमकल्याणस्य निदानतया प्रधानकारणतया 'श्रेयान्' इति विख्यातः प्रसिद्धः, सोऽयं श्रेयान् निशायाः रजन्याः पश्चिमेऽन्तिमे यामे प्रहरे समुत्तुङ्गसुमेरुं सून्नतसुमेरुपर्वतं, शाखाग्रलम्बिभिभूषणभूषितं कल्पतरु सुरद्रुमं, विद्रुमश्च प्रवालश्च पल्लवश्च किसलयश्चेति विद्रुमपल्लवी तद्वद् अरुणा रक्ताः केसराः सटा यस्य तथाभूतं केसरिणं सिंह, शृङ्गाग्रयोर्लग्ना मृत्स्ना प्रशस्तमृत्तिका यस्य तथाभूतं वृषं वृषभं, स्फुरकान्तिमनोहरी देदीप्यमानकान्तिकमनीयो दिवाकरनिशाकरी सूर्याचन्द्रमसौ, चलाचला अतिचपला वोचयो १५ लहर्यस्ताभिविशालं पारावारं सागरं अष्टमङ्गलधारीणि दर्पणाद्यष्टविधमङ्गलद्रव्यधारकाणि भतरूपा व्यन्तरदेवांश्च स्वप्ने विलोकयामास ददर्श । $10) तत इति-ततस्तदनन्तरं प्रभाते प्रत्यूषे सति परितुष्टचित्तः संतुष्टस्वान्तः 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः, अयं श्रेयान् सोमप्रभानुजः संसदि सभायां वर्तमानं विद्यमानं सुरेशतुल्यं देवेन्द्रसंनिभं सोमप्रभं प्राप्य लब्ध्वा यथावत् यथादृष्टं स्वप्नान् कथयांबभूव निवेदयामास । उपजातिवृत्तम् ॥१०॥ $१९) तदन्विति-तदनु तदनन्तरं सोमप्रभेण हस्तिनापुरनरेन्द्रेण २० वीक्षितं समवलोकितं वदनारविन्दं मुखकमलं यस्य तथाभूतः, सुरगुरुप्रतिच्छन्दो बृहस्पतितुल्यः पुरोधाः पुरोहितः सुरानिदर्शनेन सुमेरुशैलविलोकनेन तद्वत् सुमेरुवत् उत्तुङ्गः समुन्नतः परमपुरुषः श्रेष्ठपुरुषः भवत्सदनं भवदीयभवनम् अलंकरिष्यति विभूषयिष्यति, अन्ये इतरे च स्वप्नाः तस्य परमपुरुषस्य गुणोन्नति सूचयन्ति प्रकटयन्ति । अस्माकं तु महत्तरकोतिलाभादिसंपदां विपुलतरकीर्तिप्राप्तिप्रभृतिविभूतीनां निदानभूतः कारणभूतः पुण्योदयः सुकृतोदयः अस्तीति शेषः । अयं कुमारश्च श्रेयान्कुमारश्च तत्त्वविद् तत्त्वज्ञः अस्तीति शेषः इति प्रति- २५ आर्या, स्वयंप्रमदेव, केशवराजा, अच्युतस्वर्ग का प्रतीन्द्र और धनदेवकी पर्याय धारण कर सर्वार्थसिद्धि गया था वहाँसे आकर जो हस्तिनापुरमें उत्पन्न हुआ और परमश्रेय-उत्कृष्ट कल्याणका कारण होनेसे जो श्रेयान् इस नामसे प्रसिद्ध था उसने रात्रिके पिछले पहरमें अत्यन्त ऊँचा सुमेरुपर्वत, शाखाओंके अग्रभागमें लटकते हुए आभूषणोंसे सुशोभित कल्पवृक्ष, मूंगा और नयी कोंपलके समान लालजटाओंसे युक्त सिंह, सीगोंके अग्रभागमें लगी हुई उत्तम मिट्टीसे युक्त बैल, देदीप्यमान कान्तिसे सुन्दर सूर्य और चन्द्रमा, अत्यन्त चंचल लहरोंसे परिपूर्ण समुद्र तथा आठ मंगल द्रव्योंको धारण करनेवाले व्यन्तरदेव स्वप्न में देखे।
१८) तत इति-तदनन्तर प्रातःकाल होनेपर सन्तुष्टचित्तसे युक्त इस श्रेयांसने सभामें विद्यमान इन्द्रतुल्य सोमप्रभके पास जाकर ज्योंके-त्यों सब स्वप्न कह सुनाये ॥१०॥ ६ १९) तदन्विति तदनन्तर सोमप्रभने जिसके मुखकी ओर देखा था तथा जो बृहस्पतिके तुल्य था । ऐसे पुरोहितने कहा कि सुमेरु पर्वतके देखनेसे उसीके समान ऊँचा कोई परम पुरुष तुम्हारे । भवनको अलंकृत करेगा और शेष स्वप्न उसी परम पुरुषके गुणोंकी उन्नतिको सूचित करते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org