________________
- ६१ ] सप्तमः स्तबकः
२७९ ६५९) तदा किल कच्छमहाकच्छप्रमुखाश्चतु:सहस्रसंख्याता नरपालास्तरङ्गितकेवलद्रव्यलिङ्गाः परिवर्धितस्वामिभक्तिपरिष्वङ्गाः केवलं स्वामिभक्त्यैव दीक्षामभजन्त । ६६०) अव्यक्तसंयममहीरमणैः परोतो
दीक्षालताविलसितो वृषभेश्वरोऽयम् । बालाज्रिपैः परिवृतस्य सुरद्रुमस्य
लक्ष्मीमसो त्रिभुवनैकगुरुर्बभार ॥४।। $६१ ) अथ भरतनरेन्द्रो भक्तिसान्द्रो मुनीन्द्र
सह भुजबलिमुख्यैः सोदरैः पूजयित्वा। तदनु तपनबिम्बे पश्चिमाशा प्रलम्ब
प्रभुरविशदयोध्यां स्वामिवाज्ञामलङ्घयाम् ॥४४॥ इत्यहदासकृतौ पुरुदेवचम्पूप्रबन्धे सप्तमः स्तबकः ॥७॥
स्वर्गलोकं जगाम ययौ ।।४२।। ६५२ ) तदेति तदा किल भगवद्दोक्षाकल्याणकावसरे कच्छमहाकच्छो प्रमुखौ प्रधानौ येषां तथाभूताः चतुःसहस्रसंख्याता नरपाला राजानः तरङ्गितं प्रकटितं केवलद्रव्यलिङ्गं मात्रद्रव्यवेषो यैस्तथाभूताः, परिवधितः समेधितः स्वामिभक्तिपरिष्वङ्गः प्रभुभक्तिसमाश्लेषो येषां ते, केवलं मात्र स्वामिभक्त्यैव प्रभुभक्त्यैव दीक्षां प्रव्रज्याम् अभजन्त सिषेविरे दीक्षिता बभूवुरिति भावः । ६६०) अव्यक्तेति- १५ अव्यक्तोऽप्रकटितः संयमो भावसंयमो येषां तथाभूता ये महोरमणा राजानस्तैः परीतः परिवृतः दीक्षा प्रव्रज्या एव लता वल्ली तया विलसितो विशोभितः त्रिभुवनैकगुरुः त्रिजगदेकनाथः अयमसौ वषभेश्वरः प्रथमतीर्थकर बालाध्रिपैः बालवृक्षः परिवृतस्य परिवेष्टितस्य सुरद्रुमस्य कल्पवृक्षस्य लक्ष्मी शोभा बभार दधार । उपमा । वसन्ततिलका ॥४३।। ६६.) अथेति-अथानन्तरं भक्तिसान्द्रो भक्तिनिबिडः भरतनरेन्द्रः भरतराजः भुजबलिमुख्यर्बाहुबलिप्रधानः सोदरैः सहोदरैः सह साधं मुनीन्द्रं मुनिराजं वृषभजिनेन्द्रमित्यर्थः पूजयित्वा २० समय॑ तदन तत्पश्चात तपनबिम्बे सूर्यमण्डले पश्चिमाशाप्रलम्बे वरुणदिगवलम्बमाने सति स्वां स्वकीयाम आज्ञामिव अलङ्घयामलङ्घनीयाम्, अयोध्याम् अविशत् साकेतं प्रविष्टवान् । मालिनीछन्दः ॥४४॥ इत्यहदासकृतेः पुरुदेवचम्पूप्रबन्धस्य 'वासन्ती' समाख्यायां संस्कृतव्याख्यायां
सप्तमः स्तबकः समाप्तः ॥७॥
अच्छी तरह स्मरण करता हुआ देवनिकायोंके साथ स्वर्ग चला गया ॥४२॥ ६५९) तदेति- २५ उस समय जिन्होंने पात्र द्रव्य लिंग धारण किया था और स्वामिभक्तिका आलिंगन जिनका बढ़ रहा था ऐसे कच्छ, महाकच्छ आदि चार हजार राजाओंने मात्र स्वामिभक्तिसे ही दीक्षा धारण की थी।। ६६०) अव्यक्तेति-जिनके भावसंयम प्रकट नहीं हुआ है ऐसे राजाओंसे घिरे हुए तथा दीक्षा रूपी लतासे सुशोभित, त्रिलोकीनाथ भगवान् वृषभ जिनेन्द्र छोटे-छोटे वृक्षोंसे परिवृत कल्पवृक्षकी शोभाको धारण कर रहे थे ॥४३॥ ६६१ ) अथेति- ३० तदनन्तर प्रगाढ़ भक्तिसे युक्त राजा भरत बाहुबली आदि भाइयोंके साथ भगवान्की पूजाकर जब सूर्य पश्चिम दिशाकी ओर ढल गया तब अपनी आज्ञाके समान अलंघनीय अयोध्यानगरीमें प्रविष्ट हुए ॥४४॥ इस प्रकार अर्हहासकी कृति पुरुदेवचम्पू प्रबन्धकी हिन्दी टीकामें सप्तम स्तबक समाप्त हुआ ॥७॥
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org