SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ -३४ ] सप्तमः स्तबकः २६९ भयेभ्यः स्वं त्रातर्यपि महितनीतिज्ञचतुरो प्यनीतिः पौरोऽयं समजनि भयाढ्यश्च वत हा ॥२१॥ $३२ ) अथ कदाचन महास्थानमध्ये पूर्वाचलतटमिव पुटकिनीविटं, सिंहासनमलंकुर्वन्तं नृपशतपरिवृतं त्रिभुवनपतिमुपासितुमागतेन भर्तुविषयेषु विरतिमापादयितुमुद्यतेन पाकाहितेन प्रेरिता प्रक्षीणायुर्दशा नीलाञ्जनानाम सुरनर्तकी सविलासं नटन्ती सौदामिनीव क्षणाददृश्यता- ५ माससाद। $ ३३ ) तदा सुरेन्द्रो रसभङ्गभीत्या प्रायुक्त तस्याः सदृशं मनोज्ञम् । पात्रान्तरं तुल्यविलासवेषं तथापि वेत्ति स्म तदेष देवः ।।२२।। ६ ३४ ) ततोऽस्य चेतसीत्यासीच्चिन्ता भोगाद्विरज्यतः। परां संवेगनिर्वेगभावनां समुपेयुषः ॥२३॥ जनः महितनीतिज्ञेषु प्रशस्तनीतिज्ञातृषु चतुरो विदग्धोऽपि सन् अनीतिः नोतिरहितो बभूव किंच भयाठ्यः भयेन भीत्या आढ्यो भयाढयो भीतियुक्तः समजनि बभूव इति बत हा खेदस्य विषयः । इत्थं विरोधः परिहारपक्षे अनीतिः न विद्यन्त ईतयो यस्य सः, भयाढयः भया कान्त्या आढयः सहित इति 'अतिवृष्टिरनावष्टिर्मूषकः शलभः शुकः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः'। विरोधाभासः । शिखरिणीछन्दः ॥२१॥३२) अथेति कदाचन जातुचित् महास्थानमध्ये विशालसभामण्डपमध्ये पूर्वाचलतट पूर्वाद्रितट १५ पुटकिनीविटमिव कमलिनीवल्लभमिव सूर्यमिवेत्यर्थः, सिंहासनं मृगेन्द्रविष्टरम् अलंकुर्वन्तं शुम्भयन्तं नृपशतपरिवृतं बहुनृपतिपरीतं त्रिभुवनपति वृषभं जिनेन्द्रम्, उपासितुं सेवितुम् आगतेन विषयेषु पञ्चेन्द्रियभोग्यपदार्थेषु भर्तुः स्वामिनो विरतिं विरक्तिम् आपादयितुं प्रापयितुम् उद्यतेन तत्परेण पाकाहितेन पुरंदरेण प्रेरिता प्राप्तसंकेता प्रक्षीणायर्दशा अल्पायष्का नीलाजना तन्नामधेया सरनर्तकी देवनत्यकारिणी सविलासं सविभ्रमं नटन्ती सौदामिनीव विद्यदिव क्षणात अदश्यतामनवलोकनीयताम आससाद प्राप मतेत्यर्थः। 8३३) नोलाजनाविलयवेलायां सुरेन्द्रः सौधर्मेन्द्रः रसभङ्गभीत्या रसविनाशभयेन तस्या नीलाञ्जनायाः सदृशं समानं मनोजं सुन्दरं तुल्यौ सदृशौ विलासवेषो यस्य तथाभूतं तत्सदृशविभ्रमनेपथ्ययुक्तं पात्रान्तरं अन्यत्पात्रं यद्यपि प्रायुक्त प्रयुक्तं चकार तथापि एष देवो वृषभः तत् पात्रान्तरं वेत्तिस्म जानाति स्म । उपजातिवृत्तम् ॥२२॥ $३४ ) ततोऽस्येति-ततस्तदनन्तरं भोगाद् पाञ्चेन्द्रियविषयात् विरज्यतो विरक्ति प्राप्तवतः परामुस्कृष्टां संवेगः संसाराद्भीतिः निर्वेग औदासीन्यं तयोर्भावनां समुपेयुषः प्राप्तवतः अस्य भगवतः चेतसि चित्ते २५ रक्षा करते थे तथापि यह नगरवासी जनसमूह प्रशस्तनीतिज्ञ जनोंमें चतुर होकर भी अनीतिनीतिसे रहित तथा भयाढय-भयोंसे युक्त था यह खेदकी बात थी (परिहारपक्षमें नीतिज्ञ होकर भी अनीति-अतिवृष्टि आदि ईतियोंसे रहित था तथा कान्तिसे सम्पन्न था ॥२१॥ $३२) अथेति-तदनन्तर किसी समय महासभामण्डपके मध्यमें पूर्वाचलको सूर्यके समान सिंहासनको अलंकृत करनेवाले तथा सैकड़ों राजाओंसे घिरे हुए त्रिलोकीनाथकी सेवाके ३० लिए आगत और इन्द्रियों के विषयोंमें भगवानको विरक्ति उत्पन्न कराने में तत्पर इन्द्र के द्वारा प्रेरित अल्पायुष्क नीलांजना नामकी देवनर्तकी विलास सहित नृत्य करती हुई बिजलीकी भाँति क्षणभरमें अदृश्यताको प्राप्त हो गयी। $३३) तदेति-उस समय इन्द्रने रसभंगके भयसे यद्यपि उसीके समान सुन्दर तथा एक समान विलास और वेषको धारण करनेवाले दूसरे पात्रको नियुक्त कर दिया था तथापि यह भगवान् उसे जान गये ॥२२॥ ६३४ ) ततोऽ- ३५ स्येति-तदनन्तर भोगोंसे विरक्त हो संवेग और निर्वेगकी उत्कृष्ट भावनाको प्राप्त होनेवाले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy