SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ -८ ] वास्तुविद्यां च भुजबलितनयाय कामतन्त्रसामुद्रिकायुर्वेदधनुर्वेदहस्त्यश्वतन्त्र रत्नपरीक्षादीनि, अन्येभ्यश्च यथोचितं लोकोपकारकशास्त्राण्युपदिदेश । $ ६ ) सुतैरधीत निःशेषविद्यैरद्युतदीक्षिता । किरणैरिव तिग्मांशुरासादितश रद्युतिः ॥३॥ $७ ) पुत्रैः कलत्रैश्च महापवित्रैर्वृतस्य नित्यं वृषभेश्वरस्य । कालो व्यतीयाय महान् क्रमेण मनोहरेमंङ्गलदिव्यभोगैः ॥४॥ ९ ८ ) अत्रान्तरे कालवैभवकृतेन महौषधिदीप्तोषधिप्रमुखसर्वौषधिशक्तिप्रक्षयेण नरनिकररक्षणविचक्षणानामकृष्टपच्यानां सस्यानां विरलीभावेन लोकोत्तरपादपानां रसवीर्यविपाकप्रहाणेन जीवनशङ्कातङ्ककलङ्कितमनोवृत्तयः प्रकृतयो नाभिराजाज्ञया सनातनं पुरुषमासाद्य सविनयमेवं विज्ञापयामासुः । सप्तमः स्तबकः चित्रकलाशास्त्रम् आलेख्यकलाशास्त्रम्, वास्तुविद्यां च भवननिर्माणविद्यां च भुजबलितनयाय बाहुबलिपुत्राय कामतन्त्रं कामशास्त्रं, सामुद्रिकं रेखाविज्ञानं आयुर्वेदश्चिकित्साशास्त्रं धनुर्वेदः शस्त्रविद्या, हस्त्यश्वतन्त्र हस्तिह्यपरीक्षाशास्त्रं, रत्नपरीक्षा रत्नगुणदोषपरीक्षा तदादीनि अन्येभ्यश्च पुत्रेभ्यो यथोचितं यथायोग्यं लोकोपकारकशास्त्राणि जनहितावहविद्याः उपदिदेश समुपदिष्टवान् । $६ ) सुतैरिति-- ईशिता भगवान् वृषभदेवः, अधीताः पठिता निःशेषविद्याः सकलविद्या यैस्तैः सुतैः पुत्रैः आसादिता प्राप्ता शरदा शरदृतुना युति: संबन्धो येन तथाभूतः तिग्मांशुः सूर्यः किरणैरिव मयूररवैरिव अद्युतत् व्यशोभत । उपमा ॥३॥ $ ७ ) पुत्रैरिति --- महापवित्रैरतिशुचिभिः पुत्रः सुतैः कलत्रैश्च स्त्रीभिश्च नित्यं निरन्तरं वृतस्य परिवेष्टितस्य वृषभेश्वरस्यादिजिनेन्द्रस्य महान् विपुलः कालः मनोहरैश्चेतोहरैः मङ्गलदिव्यभोगैः श्रेयोमयसुरोपनीतभोगैः क्रमेण व्यतीयाय व्यतिजगाय । उपजातिच्छन्दः ||४|| ८ ) अत्रान्तर इति---अत्रान्तरे एतन्मध्ये कालस्यावसर्पिणीसंज्ञस्य वैभवेन सामर्थ्येन कृतस्तेन, महौषधिदीप्तोषधिप्रमुखसर्वोषधीनां शक्त्याः प्रक्षयस्तेन, नरनिकरस्य मर्त्यसमूहस्य रक्षणे त्राणे विचक्षणानां निपुणानाम् अकृष्टपच्यानाम् अकृष्टपक्तुमर्हाणां सस्यानां धान्यानां विरलीभावेन विरलतया, लोकोत्तरपादपानां तात्कालिक श्रेष्ठवृक्षाणां रसवीर्यविपाकस्य प्रहाणेन नाशेन जीवनशङ्का जीवितसंशीतिरेवातङ्क आमयस्तेन कलङ्किता मनोवृत्तिर्यासां ताः प्रकृतयो प्रजाः नाभिराजाज्ञया नाभिराजादेशेन सनातनं पुरुषं वृषभजिनेन्द्रम् आसाद्य प्राप्य सविनयं सप्रश्रयं यथा स्यात्तथा एवं Jain Education International २५५ For Private & Personal Use Only १० १५ नाटयशास्त्रका, वृषभसेनके लिए संगीतशास्त्रका, अनन्त विजयके लिए चित्रकला शास्त्र तथा २५ मकान बनानेकी विद्याका, बाहुबलिके लिए कामशास्त्र, सामुद्रिकशास्त्र, आयुर्वेद, धनुर्वेद, हस्तिपरीक्षा, अश्वपरीक्षा तथा रत्नपरीक्षा आदिके शास्त्र और अन्य पुत्रोंके लिए लोकोपकारी शास्त्रोंका उपदेश दिया । १६ ) सुतैरिति-- समस्त विद्याओंका अध्ययन करनेवाले पुत्रोंसे भगवान् वृषभदेव इस प्रकार सुशोभित हो रहे थे जिस प्रकार कि किरणोंसे शरदऋतुका सूर्य सुशोभित होता है ||३|| १७ ) पुत्रैरिति - अतिशय पवित्र पुत्रों तथा स्त्रियोंसे निरन्तर ३० घिरे रहनेवाले वृषभ जिनेन्द्रका बहुत भारी समय मनोहर तथा मंगलमय देवोपनीत भोगों द्वारा क्रमसे व्यतीत हो गया ||४|| $८ ) अत्रान्तर इति - इसी बीच में अवसर्पिणीकालकी सामर्थ्य से किये हुए महौषधि, दीप्तौषधि आदि समस्त औषधियोंकी शक्तिके क्षयसे, मनुष्यसमूहकी रक्षा करनेमें निपुण बिना जोते अपनेआप उत्पन्न होनेवाली धान्यके विरलभावसे तथा उस समय के श्रेष्ठ वृक्षोंके रस और वीर्य शक्ति नष्ट हो जानेसे जीवनकी आशंकारूपी ३५ रोगसे जिनकी मनोवृत्ति कलंकित हो रही थी ऐसी प्रजा नाभिराजकी आज्ञासे वृषभ जिनेन्द्र २० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy