SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २४८ पुरुदेवचम्पूप्रबन्धे [६७१६७१ ) स्वर्णस्फुरत्सरोजश्रियं वितन्वन्तमुदितमभ्रमितम् । रविमिव विभया प्राची पुत्रं पुत्र्या सहाभजत्सैषा ॥४४॥ ६७२ ) तत्कालकामदेवं तारुण्यश्रीमनोहराकारम् । को वर्णयितुं शक्तो भुजबलिनं तं त्रिलोकरमणीयम् ।।४५।। ७३) यस्य च चञ्चरीकसंचयधिक्कारिणी कुन्तलराजी, राजोवसुहृद्वदनप्रभा, प्रभाकरनिभं कुण्डलमहो, महोत्पलच्छविनयनलक्ष्मीः, लक्ष्मीनिकेतनं वक्षोवलयं, वलयविलसितं करयुगलं, गलविलसिता मुक्तावली, बलित्रयभासुरं सुभगोदरं, दरहसितं तुलितेन्दुबिम्बं, बिम्बसहोदरमधरपल्लवं, पल्लवकोमलं पादयुगं, युगायतो भुजविलासो, विलासवतोमनोहरा तनुलतेति। वृषभस्य जिनेन्द्रस्य अतिसुन्दरी रमणोयतरा सुन्दरीति नामधेया पुत्री सुता अभूत् ॥४३ ॥ ६ ७१ ) स्वर्ण१० स्फुरदिति-एषा सा सुनन्दा प्राची पूर्वाशा विभया प्रभया सह रविमिव सूर्यमिव पुत्र्या दुहित्रा सह पुत्रं सूनुम् अभजत् प्रापत् । अथ पुत्ररव्योः सादृश्यमाह-स्वर्णस्य कनकस्य स्फुरद् विकसत् यत्सरोज कमलं तद्वत् श्रीः शोभा तां पक्षे सुष्ठु अर्णः स्वर्णः सुजलं तस्मिन् स्थितानि यानि सरोजानि कमलानि तेषां श्रियं शोभां वितन्वन्तं विस्तारयन्तम्, उदितं प्राप्तजन्मानं पक्षे प्राप्तोदयम्, भ्रमः संजातो यस्य स भ्रमितः संदेहयुक्तः न भ्रमित इत्यभ्रमितस्तं संदेहातीतं पक्षे अभ्रं गगनम् इतं प्राप्तम् । श्लेषोपमा। आर्या ॥४४॥ ६.२) तत्का१५ लेति-तत्कालकामदेवं स चासौ कालः तत्कालस्तत्समयः तृतीयकालान्त इत्यर्थः तत्र कामदेवस्तं चतुर्विशतिः कामदेवा भवन्ति तेष्वयं प्रथमकामदेवपदवीधारकोऽभूदिति भावः, तारुण्यश्रिया यौवनलक्ष्म्या मनोहर आकारो यस्य तं त्रिलोकरमणीयं त्रिभुवनैकसुन्दरं तं भुजबलिनं बाहुबलिनं वर्णयितुं कः शक्तः कः समर्थः । न कोऽपीत्यर्थः । आर्या ॥४५॥ ६ ७३ ) यस्य चेति-यस्य च बाहुबलिनः कुन्तलराजी अलकपङ्क्तिः चञ्चरीकसंचयस्य भ्रमरसमूहस्य धिक्कारिणी तिरस्कारिणी, वदनप्रभा मुखकान्तिः राजीवसुहृद् कमलमित्रम्, कूण्डलमहः कर्णाभरणतेजः प्रभाकरनिभं सूर्यसदर्श, नयनलक्ष्मीः नेत्रश्रीः महोत्पलस्यारविन्दस्येव छविर्यस्यास्तथाभूता, वक्षोवलयं उरःस्थलं लक्ष्मीनिकेतनं श्रीसदनं, करयुगलं पाणियुगं वलयविलसितं कटकालंकृतं, मुक्तावली हारयष्टिः गलविलसिता कण्ठविभूषिता, सुभगोदरं सुन्दरजठरं वलित्रयभासुरं रेखात्रितयशोभितं, दरहसितं मन्दहसितं तुलितेन्दुबिम्ब उपमितमृगाङ्कमण्डलम्, अधरपल्लवं अधरोष्ठकिसलयं बिम्बसहोदरं पक्वरुचकफलसदृशं, पादयुगं चरणयुगलं पल्लवकोमलं किसलयमृदुलं, भुजाविलासो बाहुविलासो युगायतो २५ युगवद्दोघः वृषभाणां स्कन्धेषु ध्रियमाणः काष्ठदण्डो युगपदेन गद्यते 'जुवा' इति हिन्दीभाषायां, तनुलता २० सुन्दर पुत्री हुई ॥४३॥ ६ ७१ ) स्वर्णेति-जिस प्रकार पूर्व दिशा प्रभाके साथ उत्तम जलमें स्थित कमलोंकी शोभाको बढ़ानेवाले, उदित तथा आकाशको प्राप्त हुए सूर्यको प्राप्त होती है उसी प्रकार यह सुनन्दा भी पुत्रीके साथ स्वर्गनिर्मित विकसित कमलके समान शोभाको विस्तृत करनेवाले, अभ्युदयको प्राप्त तथा सन्देहरहित पुत्रको प्राप्त हुई थी॥४४।। ३० ७२) तत्कालेति-जो उस समयके कामदेव थे, जिनका शरीर यौवनको लक्ष्मीसे अत्यन्त मनोहर था और जो तीनों लोकोंमें अद्वितीय सुन्दर थे ऐसे उन बाहुबलीका वर्णन करने के लिए कौन समर्थ हो सकता है ? ॥४५॥ ६७३) यस्य चेति-जिस बाहुबलीकी केशपंक्ति भ्रमर समूहका धिक्कार करनेवाली थी, मुखकी प्रभा कमलका मित्र थी, कुण्डलका तेज सूर्यके समान था, नयनोंकी लक्ष्मी कमलके समान कान्तिवाली थी, ३५ वक्षस्थल लक्ष्मीका घर था, हस्तयुगल कटकसे सुशोभित था, मोतियोंका हार गले में सुशोभित था, सुन्दर उदर त्रिवलियोंसे शोभित था, मन्दहास्य चन्द्रमण्डलके समान था, अधरपल्लव रुचकफलके समान था, चरणयुगल पल्लक्के समान कोमल था, भुजाएँ युगके समान लम्बी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy