SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पुरुदेव चम्पूप्रबन्धे $ १० ) तस्य किल करसरोरुहनिरन्तरनिर्मितदानप्रभावेण स्वर्णत्वमुपगता दीना नदीना बभूवुरिति युज्यते, ते पुनर्लक्ष्मीकुमाराः कथमासन्निति सविस्मयमास्महे । $ ११ ) आस्थितो दशभवानिचन्द्रो निष्कलङ्कविदितो भवितेति । नूनमिन्दुरकरोद्दशभावांस्तस्य हस्तनखरूपमुपेत्य ||८|| $ १२ ) सदाखण्डलाभिख्यमाक्रान्तनेत्रं वलग्नं वलघ्नं वरस्यास्य विद्मः । स्फुरद्रत्नकाची सुवज्रायुधाढ्यं स्वराजत्वजुष्टं घनश्रीसमेतम् ||९|| २२६ १० व्याजेन मदधारा दानसंततिः कथं स्यात् । रूपकोत्प्रेक्षा । आर्या ॥७॥ $१० ) तस्येति — तस्य किल भगवतः करसरोरुहाभ्यां पाणिपद्माभ्यां निरन्तरं सततं निर्मितं रचितं यद्दानं त्यागस्तस्य प्रभावेण दानसलिलमहिम्नेति यावत् स्वर्णत्वं काञ्चनत्वं पक्षे जलत्वम् उपगताः प्राप्ता दीना निर्धना जना न दोना इति नदीना न निर्धनाः सधना इति यावत् बभूवुः अथ च नदीनामिना नदीनाः सागरा बभूवुरिति च युज्यते युक्तं प्रतिभाति, किंतु ते लक्ष्मीकुमाराः लक्ष्मीपुत्राः कथम् आसन् बभूवुः इति सविस्मयं साश्चर्यम् आस्महे तिष्ठामः । श्लेषः ॥ $ ११ ) आस्थित इति - दशभवान् महाबलप्रभृतीन् दशभवान् आस्थितः प्राप्तो जिनचन्द्रो जिनेन्द्रचन्दिर: निष्कलङ्कः इति विदितो निष्कलङ्कविदितः कर्मकालिमारहितो भविता भविष्यतीति हेतोः नूनं निश्चयेन इन्दुश्चन्द्रः तस्य भगवतो हस्तनखरूपं हस्तयोर्नखानि हस्तनखानि तेषां रूपं समाकारम् उपेत्य प्राप्य दशभावान् १५ दशपर्यायान् अकरोत् विदधे । उत्प्रेक्षा ॥ ८॥ १२ ) सदेति - वरस्य श्रेष्ठस्य अस्य भगवतो वलग्नं मध्यं 'मध्यमं चावलग्नं' चेत्यमरः । भागुरिमतेऽवेत्यस्याकारलोपः बलघ्नं बलारिम् इन्द्रमित्यर्थः विद्मो जानीमः । अथोभयोः सादृश्यमाह -तत्र मध्यमपक्षे सदाखण्डलाभिख्यं सती प्रशस्ता अखण्डला खण्डरहिता अभिख्या शोभा यस्य तत्, इन्द्रपक्षे सदा सर्वदा आखण्डल इति अभिख्या नाम यस्य स तम्, 'अभिख्या नामशोभयोः ' इत्यमरः । आक्रान्तनेत्रं आक्रान्तं परिवृतं नेत्रं वस्त्रं यस्य तत् तथाभूतं मध्यं, आक्रान्तानि घृतानि नेत्राणि २० सहस्रनयनानि यस्य स तं इन्द्रम्, स्फुरद्रत्नकाञ्ची सुवज्रायुधाढ्यं स्फुरद्रत्नकाञ्चीव देदीप्यमानमणिखचितमेखलेव सुवज्रायुधं शक्रशरासनं तेन आढ्यं सहितं इन्द्रं, मध्यपक्षे स्फुरद्रत्नकाञ्ची सुवज्रायुवमिव इति स्फुरद्रत्नकाञ्च सुवज्रायुधं तेन आढ्यं सहितं स्वराजत्वजुष्टं स्वस्य राजत्वं राज्यमिति स्वराजत्वं तेन जुष्टं सेवितं मध्यं, पक्षे राजा शक्रः तस्य भावो राजत्वं शक्रत्वमित्यर्थः स्वस्य राजत्वं, स्वराजत्वं तेन जुष्टं सेवितं ३० २५ था यदि ऐसा न होता तो रोमराजिके छलसे इसकी मदधारा कैसे होती ? ॥७॥ $ १० ) तस्येति—उनके हस्तकमलोंके द्वारा निरन्तर निर्मित दानके प्रभाव से स्वर्णत्व - सुवर्णपानेको प्राप्त कर दोन मनुष्य नदीन- धनवान् हो गये थे ( पक्ष में दानजलके द्वारा स्वर्ण -- उत्तम जलको पाकर नदीन - समुद्र बन गये थे ) यह तो हो सकता है किन्तु वे लक्ष्मीपुत्र कैसे हो गये यह विचारकर हम आश्चर्य सहित हैं । $ ११ ) आस्थित इति - महाबल आदि दशभवको प्राप्त हुआ जिनेन्द्ररूपी चन्द्रमा निष्कलंक हो जावेगा यह विचारकर ही मानो चन्द्रमाने उनके हाथोंके नखोंका रूप प्राप्त कर दश भाव - दश पर्याय धारण की थी ||८|| १२ ) सदेति - हम श्रेष्ठ जिनेन्द्र भगवान् के मध्य भागको इन्द्र समझते हैं क्योंकि जिस प्रकार इन्द्र सदाखण्डलाभिख्य - निरन्तर आखण्डल इस नामसे सहित है उसी प्रकार मध्य भाग भी सदाखण्डलाभिख्य - प्रशस्त तथा अखण्ड शोभासे युक्त था, जिस प्रकार इन्द्र आक्रान्तनेत्र - एक हजार नेत्रोंसे सहित है उसी प्रकार मध्यभाग भी आक्रान्तनेत्र - वस्त्र से सहित था, जिस प्रकार इन्द्र देदीप्यमान मणिमेखलाके समान उत्तम इन्द्रधनुषसे सहित है उसी प्रकार मध्यभाग भी इन्द्रधनुषकी तुलना करनेवाली देदीप्यमान मणिमेखलासे सहित था, जिस प्रकार इन्द्र स्वराजत्वजुष्ट- अपने इन्द्रपनेसे सहित है उसी प्रकार मध्यभाग ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy