SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२४ पुरुदेवचम्पूप्रबन्धे [ ६।१५६५) तस्य किल वदनं प्रौढशोभनक्षत्राधिधं सकलमहीभृन्मस्तकसेव्यमानपादं निखिलदिगन्तेषु व्यवस्थापितकरं महितशोभनवसुधाधिपतिविख्यात संबंधितभुवनपति राजानमेव निजप्रौढिम्ना न जिगाय, वनवासिनं कलितमहातपस्थिति सदापरागरुचिशोभितं कुशेशयनिकर जिगायेति किं चित्रम् । १० नीलोत्पलकान्तिः समुद्गततिमिरश्रीश्च युज्यते पक्षे नीलोत्पलतुल्यकान्तिः उत्कृष्टलक्ष्मीश्च । हन्तेति पादपूर्ती। ५ श्लेषोत्प्रेक्षा । शार्दूलविक्रीडितं छन्दः ॥३॥ ६५) तस्येति-तस्य किल भगवतो वदनं मुखं जिनप्रौढिम्ना स्वकीयसामर्थ्येन राजानमेव चन्द्रमसमेव पक्षे नृपतिमेव न जिगाय जितवान् किंतु कुशेशयनिकरं कमलसमूह पक्षे तपस्विसमूहमपि जिगायेति किं चित्रम् । किमाश्चर्यम् । न किमपीत्यर्थः । अथ राजानं वर्णयितुमाहप्रौढशोभनक्षत्राधिपं प्रौढा शोभा येषां तानि प्रौढशोभानि प्रकृष्टशोभासहितानि यानि नक्षत्राणि भानि तेषामधिपस्तं चन्द्रमसं पक्षे प्रौढं शोभनं येषां ते प्रौढशोभनाः ते च ते क्षत्राश्चेति प्रौढशोभनक्षत्रास्तेषामधिपस्तं नृपतिम्, सकलमहीभृन्मस्तकसेव्यमानपादं-सकलमहीभृतां निखिलपर्वतानां मस्तकैः शिखरैः सेव्यमानाः पादाः किरणा यस्य तं चन्द्रमसं पक्षे सकलमहीभतां निखिलनरेन्द्राणां मस्तकर्मभिः सेव्यमानी पादौ चरणौ यस्य तं नपतिम, निखिलदिगन्तेष सर्वकाष्ठान्तेष व्यवस्थापितकरं व्यवस्थापिता: कराः किरणा यस्य तं चन्द्रमसं पक्ष व्यवस्थापिता कराः राजस्वानि यस्य तं नृपति, महितशोभनवसुधापतिविख्यातं महिता प्रशस्ता शोभा यस्या स्तथाभूता या नवसुधा प्रत्यग्रपीयूषं तस्या अधिपतिः स्वामीति विख्यातस्तं चन्द्रमसं पक्षे महितं शोभनं यस्या१५ स्तथाभूता या वसुधा पृथिवी तस्या अधिपतिः स्वामीति विख्यातस्तम्, संवर्धितभुवनपति संवर्धितः समुद्वेलितो भुवनपतिः समुद्रो येन तथाभूतस्तं चन्द्रमसं पक्षे संवर्षिताः समुल्लासिता भुवनपतयो राजानो येन तं नृपतिम् । अथ कुशेशयनिकरं विशेषयितुमाह-कुशेशयनिकर कुशे जले शेरत इति कुशेशयानि कमलानि तेषां निकरं समूहं पक्षे कुशे दर्भे शेरत इति कुशेशयास्तपस्विनस्तेषां निकरं समूहं । उभयोः सादृश्यं यथा वनवासिनं कमलनिकरपक्षे जलवासिनं तपस्विनिकरपक्षे काननवासिनम्, कलितमहातपस्थिति-कलिता २० कृता महातपे महाघमें स्थितिर्येन तं कमलनिकरं पक्षे कलिता कृता महातपसि प्रचण्डतपश्चरणे स्थितियेन तं तपस्विनिकर, सदापरागरुचिशोभितं-सदा सर्वदा परागस्य रजसो रुच्या "कान्त्या शोभितस्तं कमलनिकरं पक्षे सदा सर्वदा अपरागे वीतरागे रुचिः श्रद्धा तया शोभितस्तं तपस्विनिकरम् । श्लेषोपमा । कान्ति और उत्पन्न हुए तम-अन्धकारकी शोभा भी कैसे रहती ( पक्ष में नीलोत्पन्न तुल्य कान्ति और उत्कृष्ट अन्धकारकी शोभा कैसे रहती ?)॥३|| ६५) तस्येति-उन वृषभ २५ जिनेन्द्र के मुखने अपनी सामर्थ्य से प्रौढशोभ-नक्षत्राधिप-अत्यन्तशोभायमान नक्षत्रोंके स्वामी, समस्त पर्वतोंके शिखरोंसे सेवनीय किरणोंसे युक्त, समस्त दिशाओंके अन्तमें व्यवस्थापितकर-किरणोंसे सहित, अतिशयसुशोभितनूतनसुधाके स्वामी रूपसे विख्यात तथा भुवनपति-समुद्रको समुद्वेलित करनेवाले चन्द्रमाको ही ( पक्षमें प्रौढशोभन-क्षत्राधिप अतिशय शोभायमान क्षत्रियोंके स्वामी, समस्त राजाओंके सेवनीय चरणोंसे युक्त, ३० समस्त दिशाओंके अन्त तक टैक्स (कर) स्थापित करनेवाले, अतिशयसुशोभित वसुधाके स्वामीरूपसे विख्यात तथा राजाओंको समुल्लासित करनेवाले नृपतिको ही) नहीं जीता था किन्तु वनवासी-जलमें निवास करनेवाले, महातप-तीक्ष्ण घामसे स्थित रहनेवाले तथा सदा परागकी कान्तिसे सुशोभित कुशेशयनिकर-कमलोंके समूहको भी (पक्ष में अरण्यवासी, महान तपमें स्थिति रखनेवाले और सदा वीतरागकी ३५ श्रद्धासे सुशोभित तपस्वियोंके समूहको भी ) जीत लिया था इसमें क्या आश्चर्य है ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy