SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ -४९ ] पञ्चमः स्तबकः २१३ $ ४६ ) मुक्तिश्रीनेपथ्यैः सुरनरपथ्यः प्रतीतसद्रथ्यैः । कर्मारिविजयरथ्यैदिव्यध्वनिभिर्भविष्यति सुतथ्यैः ॥२८॥ ६४७ ) एवं नाकाधिराजस्य नर्तनं पुण्यवर्धनम् । दृष्ट्वा नाभिमहीपालो देव्या सह विसिष्मिये ॥२९।। $४८) वृषो धर्मस्तेन त्रिभुवनगुरु ति यदयं । ततो नाकाधीशो वृषभ इति नामास्य विदधे । जनन्या सुस्वप्ने विबुधनुतनाकावतरणे तया दृष्टः श्रीमान्वृषभवररूपः स इति वा ॥३०॥ $ ४९ ) तदनु पुरुहूतस्तस्य जगद्गुरोः मज्जनमण्डनसंस्कारकोडनादिचतुरान् देवीनिकरान् समानवयोरूपवेषान् प्रकटितमनो विनोदनतत्तद्विकृतिसमुन्मेषान्सुरकुमारविशेषांश्च परिचर्यायां १० नियोज्य निखिलनिर्जरबलेन सह निजभवनमुपजगाम । सकलजन्तुकस्तस्य भावस्तां प्राप्स्यसि लप्स्यसे ॥ आर्या ॥२७॥ $ ४६ ) मुक्तीति-हे भगवन् ! त्वं दिव्यध्वनिभिः उपलक्षितो भविष्यसि । कथंभूतैदिव्यध्वनिभिरित्याह-मुक्तिश्रीनेपथ्यैः मुक्तिलक्ष्मीप्रसाधनैः 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । सुरनरपथ्यैः देवमनुजहितकरैः प्रतीतस द्रथ्यैः प्रतीता श्रद्धाविषयीकृता रथ्या समीचीनसरणियस्तैः, कर्मारिविजयरथ्यैः कर्मशत्रुविजयरथाश्वः, सुतथ्यैः शोभनसत्यैः । १५ आर्या ॥२८॥ ४७ ) एवमिति-एवं पूर्वोक्तप्रकारेण नाकाधिराजस्य शक्रस्य पुण्यवर्धनं सुकृतवृद्धिकरं नर्तनं नृत्यं दृष्ट्वा समवलोक्य नाभिमहीपालो नाभिराजः, देव्या मरुदेव्या सह साधं विसिष्मिये विस्मयान्वितोऽभूत् ॥२९॥ ४८) वृष इति-वृष: धर्मः वृषो धर्मे बलीव' इति मेदिनी । यद् यस्मात् कारणात अयं त्रिभुवनगुरुस्त्रिलोकीनाथः तेन वृषेण धर्मेण भाति शोभते ततो हेतोः नाकाधीश इन्द्रः अस्य त्रिभुवनगुरोः वृषभ इति नाम नामधेयं विदधे चक्रे । अथवा तया जनन्या मात्रा विबुधनुतं देवस्तुतं यन्नाकावतरणं स्वर्गावतरणं २० तस्मिन् गर्भकल्याणक इत्यर्थः, सुस्वप्ने शोभनस्वप्ने वृषभवररूपो वृषभोत्कृष्टरूपधारकः श्रीमान् स त्रिभुवनगुरुः दृष्ट इति वा हेतोः वृषभ इति नाम विदधे । षोडशस्वप्नदर्शनानन्तरं देव्या स्ववक्त्राब्जे प्रविशन् पुङ्गवो दृष्ट इति प्रागुक्तम् । शिखरिणीछन्दः ॥३०॥ ६४९) तदन्विति-तदनु तदनन्तरं पुरुहूत इन्द्रः तस्य पूर्वोक्तस्य जगद्गरोभगवतः मजनं स्नपनं मण्डनमलंकारधारणं संस्कार उद्वर्तनादिकरणं क्रीडनं खेलनं तदादिषु चतुरान् निपुणान् देवीनिकरान् सुरीसमूहान्, समानाः सदृशा वयोरूपवेषा दशासौन्दर्यनेपथ्यानि येषां तान्, प्रकटितः २५ प्रादुर्भावितो मनोविनोदनाय तत्तद्विकृतिसमुन्मेषः तत्तद्विक्रियासमुदयो यैस्तथाभूतान् सुरकुमारविशेषांश्च परि प्राप्त होंगे ॥२७॥ ६४६ ) मुक्तीति-हे भगवन् ! आप उस दिव्यध्वनिसे युक्त होंगे जो मुक्तिरूपी लक्ष्मीका प्रसाधन है, देव तथा मनुष्योंका हित करनेवाली है, समीचीन मार्गकी श्रद्धा करानेवाली है, कर्मरूपी शत्रको जीतनेके लिए अश्वके समान है तथा उत्तम सत्यसे सहित है ॥२८॥ $४७ ) एवमिति-इस प्रकार इन्द्रके पुण्यवर्धक नृत्यको देखकर राजा ३० नाभिराय मरुदेवीके साथ आश्चर्यको प्राप्त हुए ।।२६।। $ ४८ वृष इति-वृषका अर्थ धर्म है। यह त्रिभुवनके गुरु चूँकि उस धर्मसे सुशोभित हैं इसलिए इन्द्रने इनका वृषभ यह नाम रखा। अथवा देवोंके द्वारा स्तुत स्वर्गावतरणके समय माता ममदेवीने स्वप्न में उत्तम वृषभके रूपको धारण करनेवाले जिनेन्द्र भगवानको देखा था इसलिए भी उसने उनका वृषभ यह नाम रखा ॥३०॥ ३४९ ) तदन्विति-तदनन्तर इन्द्र, जगद्गुरुके स्नान, प्रसाधन, संस्कार तथा ३५ क्रीड़ा आदिमें चतुर देवियोंके समूहको और समान अवस्थारूप एवं वेषसे सहित और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy