SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १९८ पुरुदेवचम्पूप्रबन्धे [५।६१६$ १६ ) मरुद्भरोरावैरितरसुरवादित्रनिनदै जयारावैर्नृत्यत्त्रिदशसुदतीनूपुररवैः। तदा वन्दिवातैः पठितजिनराजस्तुतिरवै रभूच्छब्दाद्वैतं परकथितमध्यक्षविषयम् ।।९।। १७ ) तदानी खलु प्रजवं प्रचलितः प्रचुरतरपयःप्रवाहः क्वचिद् विचित्ररत्नकान्तिपरोततया द्रवीभूतेन्द्र चापशङ्काकरः, क्वचन वैडूर्यप्रभारञ्जिततया एकत्र निलीनघनतिमिरशङ्काकरः, क्वचिन्मरकतमणिघृणिसंगततया हरितांशुकच्छायः, एकत्र प्लावितानां सुरसैनिकानां क्षीराब्धिमज्जनमिव विदधानः, पत्रशाखाशिखाग्रदर्शनानुमीयमाननन्दनवनकर्षणः सुमेरुमभितः प्रससार । प्रवाहेण तं जिनबालकम् अभ्यसिञ्चत् स्नपयामास । श्लेषरूपकोत्प्रेक्षाः । ६१६ ) मरुदिति-तदा तस्मिन् १० काले मरुद्भरीणां देवदुन्दुभीनां रावाः शब्दास्तैः, इतराणि च तानि सुरवादित्राणि चेतीतरसुरवादित्राणि तेषां निनदास्तैः अन्यदेववादित्रशब्दैः, जयारावैः जनजयशब्दैः, नृत्यन्त्यो नृत्यं कुर्वन्त्यो यास्त्रिदशसुदत्यो देवाङ्गनास्तेषां नूपुराणां मजीराणां रवाः शिञ्जितानि तैः, वन्दिवातैः चारणसमूहैः पठिता उच्चरिता या जिनराजस्य स्तुतयः स्तोत्राणि तासां रवाः शब्दास्तैः परकथितं अन्यवादिप्ररूपितं शब्दाद्वतं संसारे शब्द एवैको वर्तते सिद्धान्तः अध्यक्षविषयं प्रत्यक्षस्य विषयः अभूत् । तदा तत्र सर्वत्र शब्द एव श्रयते स्मेति भावः । शिखरिणी छन्दः ।।९।। १५ १७) तदानीमिति–तदानीं तदा खलु प्रजवं प्रकृष्टवेगं यथा स्यात्तथा प्रचलितः प्रचुरतरः प्रभूततरश्चासो पयःप्रवाहो जलपूरश्च क्वचित् कुत्रापि विचित्ररत्नानां विविधवर्णमणोनां कान्त्या परीततया व्याप्ततया द्रवीभूतो निःस्यन्दाकारेण परिणतो य इन्द्रचापः शक्रधनुस्तस्य शङ्काकरः संदेहोत्पादकः, क्वचन कुत्रापि वैडूर्याणां नीलमणीनां प्रभया रञ्जिततया एकत्र एकस्थले निलीनं निगूढं यत्तिमिरं ध्वान्तं तस्य शङ्काकरः संशयकरः, क्वचित् कुत्रचित् मरकतमणीनां हरितमणीनां घृणिभिः किरणैः संगततया सहिततया हरितांशुकस्येव हरित२० वस्त्रस्येव छाया कान्तिर्यस्य तथाभूतः 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः, एकत्र एकस्मिन् स्थाने प्लावितानां निमज्जितानां सरसैनिकानां देवसैनिकानां क्षीराब्धिमज्जनमिव क्षीरसागरस्नपनमिव विदधानः कुर्वाणः, पत्रशाखाशिखाग्राणां दलविटपशिखराग्रभागानां दर्शनेनानुमीयमानं नन्दनवनकर्षणं यस्य तथाभूतः सन् सुमेरुमभितः सुमेरुपर्वतस्य समन्तात् 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति । था। $ १६ मरुदिति-उस समय देवदुन्दुभियोंके शब्दोंसे, देवोंके अन्य बाजोंके शब्दोंसे, जय २५ जयके शब्दोंसे, नृत्य करती हुई देवांगनाओंके नू पुर सम्बन्धी शब्दोंसे और चारणोंके समूह द्वारा पढ़ी हुई जिनेन्द्र स्तुतियोंके शब्दोंसे, अन्यमतावलम्बियों द्वारा निरूपित शब्दाद्वैतका सिद्धान्त प्रत्यक्षका विषय हो रहा था। अर्थात् सर्वत्र शब्द ही शब्द सुनाई पड़ रहा था। १७) तवानीमिति-उस समय बहुत भारी वेगसे बहता हुआ अत्यधिक जलका प्रवाह कहीं तो नाना रंगके मणियोंकी कान्तिसे व्याप्त होनेके कारण पिघले हुए इन्द्रधनुषकी शंका ३० कर रहा था, कहीं वैडूर्यमणिकी प्रभासे रँगा हुआ होनेसे एक स्थानमें छिपे हुए अन्धकारका सन्देह कर रहा था, कहीं मरकत मणियोंकी किरणोंसे सहित होनेके कारण हरे रंगके वस्त्रके समान जान पड़ता था, किसी एक जगह डुबाये हुए सुरसैनिकोंसे ऐसा जान पड़ता था मानो वे क्षीरसागरमें गोता लगाकर स्नान ही कर रहे हों, और कहीं उसमें पत्र शाखा तथा शिखरके अग्रभाग दिखाई देते थे उनसे ऐसा अनुमान होता था जैसे यह नन्दनवनको ही ३५ खींचकर लिये जा रहा हो । इस प्रकारका वह जल प्रवाह मेरुपर्वतके चारों ओर फैल गया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy