________________
-१९] पञ्चमः स्तबकः
१९९ $१८ ) किं रौप्याद्रिरयं घनः किमु सुधाराशिः क्वचित्संगतः
किंवा स्फाटिकभूधरः किमथवा चन्द्रोपलानां च यः। आहोस्वित्रिगच्छियो धवलितः सोधः सुधासेचने
रित्थं व्योमचरैव्य॑लोकि कनकक्षोणीधरः कौतुकात् ।।१०।। ६ १९ ) तदानीं गगनमुत्पतिताः प्रचुरतराः कुन्दावदाताः मेरुमहीभृतः श्वेतातपत्रविभ्रमं ५ तन्वानाः, गगनलक्ष्म्याः सुपर्वजनसंमदवशेन स्फुटितमुक्ताहारमणिसंदोहसंदेहं संदधानाः, श्रीमदर्हत्कीतिलताबीजराजिशङ्कासंपादका नभोऽङ्गणपुष्पोपहारायमाणाः, दिक्सुन्दरीकर्णपूरायमाणाः स्नानपयःपूरशीकरनिकराः क्रमेण निबिडिताः प्राप्तज्योतिर्लोकास्तत्र तारागणेषु क्षणं पयःस्रवणशालितया करकाशङ्का, क्षणमुन्मज्जनवत्तया बुबुदमति, क्षणं डिण्डोरखण्डमण्डिततया शुक्तिकाशकलसंगत
प्रससार प्रसृतोऽभत् । हेतूत्प्रेक्षा। $ १८) किमिति-किम् अयं दृश्यमानो रोप्याद्रिः रजतगिरिः, किमु १० क्वचित् कुत्रापि संगतो मिलितः घनो निबिडः सुधाराशिः चूर्णकसमूहः, वा अथवा किं स्फाटिकभूधरः स्फटिकगिरिः, अथवा किं चन्द्रोपलानां चन्द्रकान्तमणीनां चयः समूहः, अहोस्वित् अथवा.सुधासेचनैः चूर्णकद्रवैः धवलितः शुक्ल: त्रिजगच्छ्रियः त्रिभुवनश्रियः सोधः प्रासादः, इत्थमनेन प्रकारेण व्योमचरैर्देवविद्याधरैः कनकक्षोणोघरः सुमेरुः कौतुकात् व्यलोकि दृष्टः कर्मणि प्रयोगः। संशयालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥१०॥ $ १९) तदानीमिति-तदानीं तस्मिन् काले गगनं नभ उत्पतिता उच्छलिताः प्रचुरतराः प्रभूततमाः १५ कुन्दावदाताः कुन्दकुसुमवद्धवला, मेहमहीभृतः सुमेरुभूपालस्य श्वेतातपत्रविभ्रमं श्वेतच्छत्रसंदेहं तन्वाना विस्तारयन्तः, गगनलक्ष्म्या व्योमश्रियाः सुपर्वजनानां देवानां संमर्दवशेन संपीडनवशेन स्फुटि मुक्ताहारस्तस्य मणिसंदोहस्य मणिसमूहस्य संदेहं शङ्कां संदधानाः संघरन्तः, श्रीमदर्हतः श्रीमज्जिनेन्द्रस्य कोतिरेव लता तस्या बीजराजिः बीजसंततिस्तस्याः शङ्का तस्याः संपादकाः कारकाः नभोऽङ्गणस्य गगनाजिरस्य पुष्पोपहारायमाणाः पुष्पोपहारवदाचरन्तः, दिक्सुन्दरीणाम् आशासुवासिनीनां कर्णपूरायमाणाः २० कर्णालंकारवदाचरन्तः स्नानपयसोऽभिषेकजलस्य यः पूरः प्रवाहस्तस्य शीकराणामम्बुकणानां निकराः समूहा क्रमेण निबिडिताः सान्द्रीभूताः प्राप्तो ज्योतिर्लोको यैस्तथाभूताः, तत्र ज्योतिर्लोके तारागणेषु नक्षत्रनिचयेषु क्षणमल्पकालपर्यन्तं पयःस्रवणेन जलक्षरणेन शालितया शोभितया करकाशङ्कां वर्षोपलसंशीति, क्षणमल्पकालपर्यन्तम् उन्मज्जनवत्तया उन्मग्नतया बुबुदमति जलस्फोटबुद्धि, क्षणं डिण्डोरखण्डेन फेनशकलेन मण्डिततया
१८) किमिति-क्या यह रजतगिरि है, अथवा कहीं इकट्ठा हुआ चूनाकी बहुत बड़ी राशि २५ है, अथवा क्या स्फटिकका पर्वत है, अथवा क्या चन्द्रकान्त मणियोंका समूह है अथवा क्या कलईसे पुता हुआ त्रिजगत्की लक्ष्मीका भवन है इस प्रकार आकाशमें चलनेवाले देव विद्याधरोंने कुतूहल वश सुमेरु पर्वतको देखा था ॥१०॥ ६१९) तदानीमिति-उस समय जो परिमाणमें बहुत भारी थे, कुन्दफूलके समान उज्ज्वल थे, तथा आकाशमें उचटकर मेरु पर्वतरूपी राजाके सफेद छत्रका संशय उत्पन्न कर रहे थे अथवा देव समूहकी धक्का-मुक्कीके ३० कारण टूटे हुए आकाशलक्ष्मीके मुक्ताहार सम्बन्धी मणियोंके समूहकी शंका कर रहे थे अथवा श्रीमान जिनेन्द्रदेवकी कीर्तिरूपी लताके बीजसमूहकी शंका उत्पन्न कर रहे थे, अथवा आकाशरूपी आँगनके फूलोंके उपहारके समान जान पड़ते थे अथवा दिशारूपी स्त्रियोंके कर्णाभरणके समान प्रतीत होते थे ऐसे अभिषेक सम्बन्धी जलप्रवाहके छींटोंके समूह क्रमसे एकत्रित होकर जब ज्योतिर्लोकमें पहुँचे तब वहाँ ताराओंके समूहमें जलके क्षरणसे सुशोभित ३५ होने के कारण क्षणभरके लिए ओलोंकी शंका, क्षणभरके लिए उखर जानेके कारण बबूलेकी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org