SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९४ पुरुदेवप्रबन्धे सकलकलमुदञ्चच्चन्द्रसाम्यं प्रपेदे धवलमधुरदुग्धोद्योतसज्ज्योत्स्नयेद्धम् ॥४॥ $ १० ) अथ सुरकरैर्नीतान्क्षीराब्धिसज्जलपूरितान् कनककलशानेताविन्द्रौ तदा विकृतेर्भुजेः । दशशतमितैर्मोदात्स्वीकृत्य मूर्ध्नि जगद्गुरो जयजयजयारावैः सार्धं न्यपातयतां तदा ॥५॥ $ ११ ) ततो जयजयारावमुखरीकृत दिक्तटाः । कल्पेश्वरास्तदा हर्षात्समं धारा न्यपातयन् ॥६॥ $ १२ ) साकिल पयोधारा कुम्भस्थलायमानमिलितकनककुम्भद्वयविगलिततयाखण्डल१० शुण्डाल शुण्डादण्डशङ्कामङ्करयन्ती, जिनार्भकमुत्सङ्गे वहन्त्याः पाण्डुकवनलक्ष्म्याः कनककुम्भकुच [ ५1१० निमज्जत् निमग्नोभवत्, विशदा धवला रुचिरा मनोहरा या मुक्ता मौक्तिकानि ता एव तारकास्ताभिः परीतं व्याप्तं, सकलकलं कलकलेन सहितं सकलकलं कलकलशब्दसहितं पक्ष सकलाः कला यस्य तत् पूर्णमित्यर्थः, धवलमधुरं सितमिष्टं यद् दुग्धं क्षीरं तस्योद्योतः प्रकाश एव सज्ज्योत्स्ना सच्चन्द्रिका तया इद्धं दीप्तं, कनककलशजालं स्वर्णकलशनिकुरम्बं उदञ्चच्चन्द्रस्य उदीयमानेन्दोः साम्यं सादृश्यं प्रपेदे । उपमालंकारः । १५ मालिनी छन्दः ॥ ४ ॥ $ 10 ) अथेति — अथानन्तरं तदा तस्मिन्काले एती इन्द्रो सोधर्मेशानेन्द्रौ सुरकरैर्देवहस्तैः वीतान् प्रापितान् क्षीराब्धिसज्जलपूरितान् क्षीरसागरसत्सलिलसंभृतान् एतान् कनककलशान् काञ्चनकुम्भान् तदा विकृतैस्तत्कालविक्रियानिर्मितैः दशशतमितैः सहस्रपरिमितैः भुजेर्बाहुभिः मोदात् हर्षात् स्वीकृत्य गृहीत्वा जगद्गुरोजिनेन्द्रस्य मूर्ध्नि शिरसि जयजयजयेति आरावाः शब्दास्तैः सार्धं न्यपातयताम् निपातयांबभूवतुः । हरिणीच्छन्दः || ५ || $11 ) तत इति — ततस्तदनु तदा तस्मिन् काले जयजयारावेण जयजयशब्देन २० मुखरीकृतानि दिक्तटानि यैस्ते तथाभूताः कल्पेश्वराः स्वर्गशतक्रतवः हर्षात् प्रमोदात् समं युगपद् धारा न्यपातयन् निपातयांबभूवुः || ६ || $ १२ ) सा किलेति सा किल पूर्वोक्ता पयोधारा जलधारा व्यराजत व्यशोभत । कथमिति चेत् । आह — कुम्भेति कुम्भस्थलायमानो गण्डस्थलायमानौ मिलितो परस्परं संपृक्तौ यो कनककुम्भी काञ्चनकलशी तयोर्द्वयं युगलं तस्माद्विगलिततया पतिततया आखण्डलशुण्डालस्यैरावतस्य यः शुण्डादण्डस्तस्य शङ्कां संशीतिम् अङ्कुरयन्ती समुत्पादयन्ती, जिनार्भकं जिनबालकं उत्सङ्गे क्रोडे वहन्त्या दधत्याः पाण्डुकवन २५ क्षीरसमुद्र में निमग्न हो रहा था, श्वेत तथा सुन्दर मोती रूप ताराओंसे व्याप्त था, कल-कल शब्द सहित था ( पक्ष में समस्त कलाओंसे युक्त था ) तथा सफेद और मधुर दूधके प्रकाश रूपी चाँदनीसे देदीप्यमान था ऐसा स्वर्णकलशोंका समूह उदित होते हुए चन्द्रमाके सादृश्य प्राप्त हो रहा था || ४ || $१० ) अथेति - तदनन्तर उस समय इन दोनों इन्द्रोंने देवोंके हाथों से लाये हुए तथा क्षीरसमुद्रके उत्तम जलसे भरे हुए इन सुवर्ण-कलशोंको तत्काल ३० विक्रियासे निर्मित एक हजार भुजाओंके द्वारा हर्षसे स्वीकृत कर जय जय जय शब्द के साथ भगवान् के मस्तकपर छोड़ा ||५|| $११ ) तत इति - तत्पश्चात् जिन्होंने जय जय शब्द के द्वारा दिशाओंके तट गुँजा दिये थे ऐसे स्वर्गके इन्द्रोंने उस समय हर्षसे एक साथ धाराएँ छोड़ीं ॥६॥ $ १२ ) सा किलेति - वह धारा कभी तो गण्डस्थलोंके समान मिले हुए सुवर्णकलशोंके युगलसे निकली होनेके कारण ऐरावत हाथीके शुण्डादण्डकी शंका उत्पन्न कर रही ३५ थी, कभी जिनबालकको गोदमें धारण करनेवाली पाण्डुकवनकी लक्ष्मीके सुवर्णकलशरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy