SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ $ १ ) तदनु जिनेन्द्रजन्माभिषेकसंभृतादरजम्भालम्भननिदेशपरवशः किन्नरेशः कौतुकवशेन सर्वतः समापततो दिशामधीशान्सपरिवारान् करचलितमणिदण्डेन तन्मण्डपे हठाद्यथोचितं विनिवेश्य, भो भो मारुता निरन्तरमवकरनिकरमपसारयत । अये मेघकुमाराः सुगन्धिशीतलगन्धो वृष्टि कुरुत । हे दिक्कुमार्यो मुक्तामयरङ्गवल्ली भिर्नानाविधपत्रलताचित्राणि विरचयत । अयं ५ किलेशाननाथः स्वयमेव धवलातपत्रं धत्ते । तदीयमृगलोचनाः पुनर्मङ्गलद्रव्याणि तरङ्गयन्तु । सनत्कुमारा जिनार्भकपरिसरे बालव्यजनानि वीजयन्तु । देव्यश्च बलिफलकुसुममा लागन्धधूमाद्यैः पात्राणि पूरयन्तु । नर्तकाः पुनः पटुपटहमृदङ्गादीनि सज्जयन्तु । वाणी च वीणां गायतु । सुरलासिकाश्च लास्यलीलामुल्लासयन्तु, इत्यादिक्रमेण त्रिदशपतीन्भगवज्जन्माभिषेकसमुचितकृत्येषु नियोजयामास । १० पञ्चमः स्तबकः $ १ ) तदन्विति -- तदनु तदनन्तरं जिनेन्द्रस्य जन्माभिषेके संभृतो सम्यक्प्रकारेण धृत आदरो येन तथाभूतो यो जम्भालम्भन इन्द्रस्तस्य निदेशेन समाज्ञया परवशो निघ्नः, किन्नरेश: किन्नरजातीयव्यन्तरेन्द्रः कौतुकवशेन सर्वतः समन्तात् समापततः समागच्छतः सपरिवारान् परिवारोपेतान् दिशामधीशान् दिक्पालान् करेण चलितो यो मणिदण्डस्तेन तन्मण्डपे पूर्वोक्तमण्डपे हठाद् बलाद् यथोचितं यथायोग्यं विनिवेश्य, भो भो मारुताः पवनकुमारदेवाः ! निरन्तरं सततं अवकरनिकरं अवकरसमूहं अवकरः 'कचड़ा' इति हिन्दीभाषायां १५ प्रसिद्धः । अये मेघकुमाराः ! सुगन्धि सुरभि शीतलं शिशिरं च यद् गन्धोदकं तस्य वृष्टि कुरुत । हे दिक्कुमार्यः ! मुक्तामयरङ्गवल्लीभिः मौक्तिकरङ्गलताभिः नानाविधपत्रलतानां विविधपत्रवल्लीनां चित्राणि आलेख्यानि विरचयत । अयं किल ऐशाननाथो द्वितीयेन्द्रः धवलातपत्रं श्वेतच्छत्रं स्वयमेव अकथितोऽपि धत्ते धारयति । तदीयाश्च ता मृगलोचनाश्चेति तदीयमृगलोचनास्तद्देव्यः पुनः मङ्गलद्रव्याणि सुप्रतिष्ठकप्रभृतीनि मङ्गलद्रव्याणि तरङ्गयन्तु वर्धयन्तु । सनत्कुमाराः सनत्कुमारस्वर्गनिवासिनो देवा जिनार्भकस्य जिनबालकस्य २० परिसरे निकटे बालव्यजनानि लघुतालवृन्तकानि वीजयन्तु कम्पयन्तु । देव्यश्च तदीयदेवाङ्गनाश्च बलिश्च नैवेद्यं च फलं च कुसुमं च माला च गन्धश्च धूपश्च एषां द्वन्द्वस्तदादी: पात्राणि भाजनानि पूरयन्तु संभरन्तु । नर्तकाः नृत्यकराः पुनः पटुपटहमृदङ्गादीनि उत्तमानक मुरजप्रभृतीनि सज्जयन्तु सज्जानि कुर्वन्तु । वाणी $१ ) तदन्विति - तदनन्तर जिनेन्द्र भगवान् के जन्माभिषेक में आदर रखनेवाले इन्द्रकी आज्ञा से परवश किन्नरेन्द्रने कुतूहलवश सब ओरसे आते हुए दिक्पालोंको उनके २५ परिवारों के साथ हाथसे चलाये हुए मणिमयदण्डके द्वारा उस मण्डपमें बलपूर्वक यथायोग्य रीतिसे बैठाकर इस प्रकार आदेश दिये - हे पवनकुमार देवो ! निरन्तर कचड़ाके समूहको दूर करो । हे मेघकुमारो ! सुगन्धित और शीतल गन्धोदककी वर्षा करो। हे दिक्कुमारियो ! मोतियोंकी रंगावलीसे नाना प्रकारके पत्र और लताओंके चित्र बनाओ । यह ऐशानेन्द्र स्वयं ही सफेद छत्र धारण किये हुए है उसकी देवियाँ मंगलद्रव्यों को बढ़ावें । सनत्कुमारस्वर्ग के ३० देव जिनबालकके निकट छोटे-छोटे पंखे चलावें । और उनकी देवियाँ नैवेद्य फल-पुष्प माला गन्ध और धूप आदिके द्वारा पात्रोंको भरें। नृत्यकार उत्तम तबला तथा मृदंग आदिको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy