SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - ११० ] चतुर्थः स्तबकः $ १०९ ) तत्र किल देवराजो विविधमणिखचितविचित्रस्तम्भसंभृतं वस्त्राङ्गमहीजसमुद्भूतवचननिर्मितवितानविराजितं तारातरलमुक्तामालाविभूषितमवलम्बितसुरभिकुसुमदामावकीर्णं चतुणिकाया मरेन्द्रवृन्दसंकीर्णमभिषेकमण्डपं विधाय तत्र सिंहविरे जिनार्भकं पूर्वाभिमुखं निवेशयामास । $ ११० ) तदा दुन्दुभिनिध्वानो निरुद्धाशेषदिक्तटः । समुज्जृम्भे संभूतघन गर्जनतर्जनः ॥७२॥ इत्यर्हद्दासकृतौ पुरुदेव चम्पूप्रबन्धे चतुर्थस्तबकः || ४ || तया व्याप्ततया सुरचापमध्यगता या शशाङ्ककला चन्द्रकला ताम् अनुकुर्वन्तो विद्योतते, विशोभते । १०२ ) तत्रेति तत्र किल पाण्डुकशिलायां देवराजः सौधर्मेन्द्रः, विविधमणिभिर्नानारत्नैः खचिता जटिता ये विचित्रस्तम्भास्तैः संभृतं संधृतं वस्त्राङ्गमहोजात् वस्त्राङ्गजातीय कल्पवृक्षात्समुद्भूतं समुत्पन्नं यद् वसनं वस्त्रं तेन निर्मितेन वितानेन चन्द्रोपकेन विराजितं शोभितं तारावत् तरलाभिश्चपलाभिर्मुक्तामालाभिर्मौक्तिकस्रग्भिवि- १० भूषितं शोभितं, अवलम्बितानि यानि सुरभिकुसुमदामानि सुगन्धिपुष्पमाल्यानि तैरवकीर्णं व्याप्तं चतुणिकायामरेन्द्रानां भवनवास्यादिचतुर्णिकायदेवेन्द्रानां वृन्देन समूहेन संकीर्णं व्याप्तम् अभिषेकमण्डपं विधाय रचयित्वा तत्राभिषेकमण्डपे सिंहविष्टरे सिंहासने जिनार्भकं जिनेन्द्रनन्दनं पूर्वाभिमुखं यथा स्यात्तथा निवेशयामास स्थापयामास । $ ११० ) तदेति तदा तस्मिन्काले निरुद्धानि अशेषदिक्तटानि येन स तथाभूतो निरुद्धाखिलकाष्ठान्तः संभूतं समुत्पन्नं यद् घनगर्जनं मेघगर्जनं तस्य तर्जनं भर्त्सनं यस्मात् सः, अथवा संभूता एकत्रस्थिता १५ ये घना मेघास्तेषां गर्जनस्थ तर्जनं यस्मात्तथाभूतः, दुन्दुभिध्वानो भेरीनादः 'शब्दो निनादो निनदो ध्वनिध्वानरवस्वनाः' इत्यमरः । समुज्जजृम्भे ववृधे ॥७१॥ इत्यर्हदासकृते पुरुदेव चम्पूप्रबन्धस्य वासन्तीसमाख्यायां संस्कृतव्याख्यायां चतुर्थः स्तबकः समाप्तः ॥ ४ ॥ Jain Education International १८७ बीच में स्थित चन्द्रकलाका अनुकरण करती रहती है । $१०९ ) तत्रेति- -उस पाण्डुकशिला- २० पर इन्द्रने नाना प्रकारके मणियोंसे जड़े हुए विचित्र खम्भोंसे धारण किया हुआ, वस्त्रांगजातिके कल्पवृक्षोंसे उत्पन्न वस्त्रसे निर्मित चंदोवासे सुशोभित, ताराओंके समान चंचल मोतियोंकी मालाओंसे विभूषित, लटकती हुई सुगन्धित फूलोंकी मालाओंसे व्याप्त और चतुर्णिकाय के इन्द्रसमूहसे व्याप्त अभिषेकमण्डप बनाकर उसके बीच सिंहासन पर जिन बालकको पूर्वमुख विराजमान किया । $ ११० ) तदेति - उस समय समस्तदिशाओंके तटको रोकनेवाला तथा उत्पन्न हुई मेघगर्जनाको डाँटता हुआ दुन्दुभिबाजोंका शब्द वृद्धिको प्राप्त हो रहा था || १२ || इस प्रकार श्रीमान् अर्हद्दासकी कृति पुरुदेव चम्पूप्रबन्धमें चतुर्थ स्तबक पूर्ण हुआ ॥४॥ ५ For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy