SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ -७९ ] चतुर्थः स्तबकः सह कृतप्रस्थानः, सामानिकत्रायस्त्रशपारिषदात्मरक्षलोकपालाभियोग्य किल्विषसंदोहपरिवृतः, सुरभिलसुरतरुकुसुमपूरितपात्र पवित्र कर किङ्करनिकरानुगम्यमानतया तदीयविरहं सोढुमशक्नुवद्भिः क्रीडावनैरनुगम्यमानः, परस्परघट्टन रणन्मणिभूषणवाचालित कुचकुम्भैः कलितकांस्यतालध्वनिभिरिव दृश्यमानैः गगनपयोधिपयोजशङ्कावहवदनविराजितैर्नृत्यद्भिः सुराङ्गनाजनैः परिनिष्क्रियमाणपुरोभागः, नभःस्थलजलाधितरङ्गमकरशङ्काकरैस्तुरङ्गस्तम्बेरमै निविडितसविध प्रदेशः क्रमेणाम्बरतला दवततार । $ ७९ ) संमर्दाद्गलिता नटद्दिविषदां वक्षःस्थलप्रोल्लसन् मालामौक्तिकराजयः क्षितितले पेतुः सुशोभाञ्चिताः । व्योमाभोगचलत्करेणुचरणप्रक्षेपचूर्णीभव नक्षत्रप्रचया इव प्रतिदिनं निः सोमकान्त्युल्वणाः ॥ ५५ ॥ Jain Education International १७३ ५ ऐरावणं ऐरावतम् आरुह्याधिष्ठाय शच्या पुलोमजया इन्द्राण्येत्यर्थः सह कृतप्रस्थानः कृतप्रयाणः, सामानिक: त्रास्त्रिशः पारिषदः आत्मरक्षः लोकपाल: आभियोग्यः किल्विषकश्च देवविशेषास्तेषां संदोहेन समूहेन परिवृतः परिवेष्टितः, 'इन्द्रसामानिक त्रायस्त्रिशपारिषदात्मरक्षलोकपालानोकप्रकीर्णका भियोग्य किल्विषिकारच' इति देवानां दशभेदाः । सुरभिलानि सुगन्धीनि यानि सुरतरुकुसुमानि कल्पवृक्षपुष्पाणि तैः पूरितानि संभृतानि यानि पात्राणि भाजनानि तैः पवित्रकराः पूतपाणयो ये किङ्कराः सेवकास्तेषां निकरेण समूहेनानुगम्यमानतया १५ तदीयविरहं इन्द्रवियोगं सोढुमनुभवितुम् अशक्नुवद्भिः असमर्थैः, क्रोडावनैरिव के लिकाननैरिवानुगम्यमानः, परस्परघट्टनेन मिथो घातेन रणन्ति शब्दायमानानि यानि मणिभूषणानि तैः - वाचालिता मुखरिताः कुचकुम्भाः स्तनकलशा येषां तैः कलितः कृतः कांस्यतालध्वनिर्यैस्तैरिव दृश्यमानैरवलोक्यमानैः गगनमेव पयोधि : गगनपयोधिराकाशसमुद्रस्तस्मिन् विद्यमानानि यानि पयोजानि कमलानि तेषां शङ्कावहानि संदेहधारकाणि यानि वदनानि मुखानि तैविराजितैः शोभितैः, नृत्यद्भर्नद्भिः सुराङ्गनाजनैः देवीसमूहैः परिनिष्क्रियमाणः क्रियाशून्यीक्रियमाणः पुरोभागोऽग्रभागो यस्य तथाभूतः नभःस्थलमेव गगनमेव जलधिस्तस्य ये तरङ्गमकराः कल्लोलमकरास्तेषां शङ्काकरैः संदेहदायकैः तुरङ्गस्तम्बेरमै यहस्तिभिः निबिडितः सान्द्रः सविधप्रदेशो यस्य तथाभूतः सन् क्रमेण अम्बरतलात् आकाशपृष्ठात् अवततार नीचैरागच्छत् । $७९ ) संमर्दादिति - संमर्दात्परस्परप्रघट्टनात् गलिताः पतिताः सुशोभया अञ्चिताः सुशोभाञ्चिता उत्तमशोभासहिताः नटन्तश्च ते दिविपदश्चेति नटद्दिविषदस्तेषां नृत्यन्निलिम्पानां वक्षःस्थले प्रोल्लसन्त्यो या मालास्तासां मौक्तिकराजयो मुक्तापङ्क्तयः २५ प्रतिदिनं प्रतिदिवसं निःसीमकान्त्या उल्वणा उत्कटा इति निःसीमकान्त्युत्वणाः व्योमाभागे आकाशविस्तारे For Private & Personal Use Only १० नमदाह्लादी मदसे रहित ( पक्षमें नम्र मनुष्योंको आह्लाददायी ) ऐरावत हाथीपर इन्द्राणीके साथ बैठकर प्रस्थान करता हुआ क्रमशः आकाशसे नीचे उतरा। उस समय सुगन्धित कल्पवृक्षके फूलोंसे भरे पात्र हाथोंमें धारण करनेवाले किंकरोंके समूह उसके पीछे-पीछे चल रहे थे उनसे वह ऐसा जान पड़ता था मानो उसका विरह सहन करनेके लिए असमर्थ होते ३० हुए क्रीडावन ही उसके पीछे चलने लगे हों । परस्पर के आघात से रुनझुन शब्द करनेवाले मणिमय आभूषणों से जिनके स्तन कलश शब्दायमान हो रहे थे, जो काँसेकी झाँझोंके शब्द करती हुई सी दिखाई देती थीं तथा जो आकाशरूपी समुद्र में सुशोभित कमलकी शंका करनेवाले मुख से सुशोभित थीं ऐसी नृत्य करती हुई देवियोंने उस इन्द्रके अग्रभागको क्रियाशून्य कर दिया था । आकाशरूपी समुद्रकी तरंगों तथा भ्रमरोंकी शंका करनेवाले घोड़े और ३५ हाथियोंसे उसका समीपवर्ती प्रदेश खूब व्याप्त था । ६७९) संमर्दादिति - उस समय परस्परके आघातसे टूटकर गिरे हुए नृत्य करनेवाले देवोंके वक्षःस्थलोंपर शोभायमान मालाओं के २० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy