________________
१७२ पुरुदेवचम्पूप्रबन्धे
[ ४६७६$७६ ) ततः शक्राज्ञया देवपृतना निर्ययुर्दिवः ।
तारतम्येन सद्ध्वाना महाब्धेरिव वीचयः ॥५३॥ ६७७ ) चतुणिकायत्रिदशास्तदानीं जिनेन्द्रजन्मोत्सवकौतुकेन ।
विनिर्ययुर्भूषणभूषिताङ्गा दिशामधीशाश्च दश प्रचेलुः ॥५४॥ $७८) तदनु सुपर्वराजोऽपि सुरहिततया, कुवलयानन्दसंदायकतया, सत्पथप्रवृत्ततया, सकलकलोज्ज्वलतया च पर्वराज इति कविभिरुत्प्रेक्ष्यमाणः सीधर्मकल्पशतक्रतुः, अगाभिख्याञ्चितमपि नागाभिख्याञ्चितं नागमपि अनागं, मदाह्लादिनमपि नमदाह्लादिनमैरावणमारुह्य, शच्या
निव जागरयन्निव त्रिलोकीं त्रिभुवनं पूरयामास । उत्प्रेक्षा ॥५२॥ ६ ७६ ) तत इति-ततस्तदनन्तरं शक्राज्ञया सरपतिनिदेशेन देवपतनाः देवसेनाः सध्वानाः सशब्दाः महाब्धेः महासागरात वीचय इव त इव तारतम्येन क्रमशो दिवः स्वर्गात् निर्ययुनिर्जग्मुः । उपमा ॥५३॥ ६ ७७ ) चतुर्णिकायेति-तदानीं तस्मिन् काले भूषणैराभरणभूषितान्यलंकृतान्यङ्गानि येषां तथाभूताः चतुणिकायत्रिदशाः भवनवासिव्यन्तरज्योतिष्ककल्पवासिदेवाः जिनेन्द्रस्य जन्मोत्सवस्य कौतुकं तेन जिनराजजन्माभिषवमहकुतूहलेन विनिर्ययुः विनिजग्मुः, दिशामाशानां दशाधीशाश्च दशदिक्पालाश्च प्रचेलुः चलन्ति स्म ॥ उपेन्द्रवज्राछन्दः ॥५४॥
७८) तदन्विति--तदनु तदनन्तरं सुपर्वणां सुमनसां राजापि सुपर्वराजोऽपि पुरंदरोऽपि सुराणां देवानां १५ हिततया सुरहिततया पक्षे 'सु' वर्णेन रहिततया ( सुपर्वराज इत्यत्र 'सु' वर्णत्यागे ‘पर्वराज' इत्येवावशिष्येत )
कुवलयानन्दस्य महीमण्डलानन्दस्य संदायकतया प्रदायकतया पक्षे उत्पलविकासप्रदायकतया च 'स्यादुत्पलं कुवलयमथ नीलाम्बु जन्म च' इति धनंजयः, संश्चासौ पन्थाश्चेति सत्पथं समीचीनमार्गस्तस्मिन् प्रवृत्ततया पक्षे सतां नक्षत्राणां पन्थाः सत्पथं गगनं तस्मिन् प्रवृत्ततया विद्यमानतया, सकलकलाभिनिखिलचातुरीभिरुज्ज्वल
तया निर्मलतया च पक्षे षोडशकलाभिरुज्ज्वलतया च पर्वराजः पूर्णिमाचन्द्र इति कविभिः उत्प्रेक्ष्यमाण२० स्तर्यमाणः सौधर्मकल्पः प्रथमस्वर्गस्तस्य शतक्रतुरिन्द्रः, अगस्य पर्वतस्येवाभिख्या शोभा तयाञ्चितमपि
शोभितमपि अगाभिख्याञ्चितं न भवतीति नागाभिख्याचितमिति विरोधः परिहारपक्षे नाग इत्यभिख्या नाम तयाञ्चितम् हस्तीति नाम्ना सहितमित्यर्थः, नागमपि हस्तिनमपि अनागं नागो न भवतीति अनागस्तमिति विरोधः परिहारपक्षे न विद्यते आगोऽपराधो यस्य तम् अकारान्तोऽप्यागशब्द: क्वचिद् दृश्यते, मदेन दानेन आह्लादयतीति मदाह्लादो तं तथाभूतमपि नमदाह्लादिनमिति विरोधः पक्षे नमतां नम्रोभवतामाह्लादिनम्,
३०
२५ ॥५२॥ $ ७६ ) तत इति–तदनन्तर इन्द्रकी आज्ञासे शब्द करती हुई देवसेनाएँ क्रमशः
स्वर्गसे उस प्रकार निकलीं जिस प्रकार कि समुद्रसे लहरें निकलती हैं ॥५३।। ६७७) चतुणिकायेति- उस समय आभूषणोंसे भूषित शरीरवाले चारों निकायोंके देव, जिनेन्द्रभगवान के जन्मोत्सव सम्बन्धी कुतूहलसे बाहर निकले तथा दशों दिक्पाल भी चले ॥५४|| ६७८) तदन्विति-तदनन्तर सुपर्वराज-देवराज होनेपर भी जो सुरहिततया-देवोंके लिए हितकारी ( पक्ष में 'सु' अक्षरसे रहित ) होनेके कारण, कुवलयानन्द संदायकतया-पृथ्वीमण्डलको आनन्ददायी ( पक्ष में नीलकमलोंको हर्षदायी) होनेसे, सत्पथ प्रवृत्ततया-समीचीन मार्गमें प्रवृत्त होनेके कारण ( पक्ष में आकाशमें प्रवृत्त होनेसे ) और सकलकलोज्ज्वलतया-समस्त कलाओं-चतुराइयोंसे उज्ज्वल ( पक्ष में सोलह कलाओंसे निर्मल ) होनेके
कारण मानो पर्वराज-पूर्णिमाका चन्द्र ही है। इस प्रकार कवि लोगोंके द्वारा जिसकी उत्प्रेक्षा३५ की जा रही थी ऐसा सौधर्मस्वर्गका इन्द्र, अग-पर्वतकी शोभासे सहित होनेपर भी नागा
भिख्यांचित-पवतकी शोभासे रहित (पक्ष में नाग-हस्ती इस नामसे सहित नाग होनेपर भी अनाग-नागसे भिन्न ( पक्षमें अपराधसे रहित ) तथा मदाह्लादी-मदसे हर्षित होकर भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org