________________
पुरुदेवचम्पूप्रबन्ध वलिफलकुसुमस्रम्गन्धधूपाक्षताद्यैः
प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः
पटुपटहमृदङ्गादीनि तत्सज्जयन्तु । प्रवणय वरवीणां वाणि रीणासि कस्मा
त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्यविस्तार्यरङ्गं
त्वरयसि नटनार्थं किं न रम्भामदम्भाम् ।। समचितमिति कृत्यं जैनजन्माभिषेके
त्रिदशपतिनियोगाद् ग्राहयन्ताग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्ड:
सुरनिवहमवादीद् द्वारपाल: कुबेरः ।। (कुलकम्) (ध० श० ८१५-९) इसे प्रस्तुत चम्पूके 'तदनु जिनेन्द्रजन्माभिषेक' आदि ( पृ. १८८ ) से मिलाइए।
अभ्युपात्तकमलैः कवीश्वरैः संश्रुतं कुवलयप्रसाधनम् । द्रावितेन्दुरसराशिसोदरं सच्चरित्रमिव निर्मलं सरः ॥ पीवरोच्चलहरिव्रजोद्धरं सज्जनक्रमकरं समन्ततः ।
अब्धिमुग्रतरवारिमज्जितक्ष्माभृतं पतिमिवावनीभुजाम् ।। यह 'निजवल्लभमिव' (पृ० १५४) आदि पंक्तियोंसे तुलनीय है ।
सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जटालवालोऽथ स नन्दनद्रुमः ।
छायां दधत्काञ्चनसुन्दरी नवां सुखाय वस्तुः सुतरामजायत ।। (ध० श० ९।१) इसका मिलान प्रस्तुत 'जिननन्दनद्रुमोऽयं' आदि (५, ३१ ) श्लोकसे कीजिए।
रेखात्रयेणेव जगत्त्रयाधिका विरूपयन्तं निजरूपसंपदम ।
तत्कण्ठमालोक्य ममज्ज लज्जया विशीर्यमाणः किल कम्बुरम्बुधौ ॥ (ध० श० ९।२५) इसे 'भुवनत्रितयातिशायिशोभा' आदि ( ६, ८ ) से मिलाइए।
अजस्रमासीद्घनसंपदागमो न वारिसंपत्तिरदश्यत क्वचित ।
महौजसि त्रातरि सर्वतः सतां सदा पराभूतिरभूदिहाद्भुतम् ।। (ध० श० १८०६२) इसे 'तदा देवे पृथ्वीमवति' आदि पद्य ( ७, २१ ) से मिलाकर देखिए । इसी प्रकार मिलाइए--
औत्सुक्यनुन्ना शिशुमप्यसंशयं चुचुम्ब मुक्तिर्निभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलर सोऽत्र संगतः ॥६॥
-धर्मशर्मा० सर्ग ९, पु च. ५, ३७ । क्रमेण सोऽयं मणिकट्रिमाङ्गणे नखस्फुरत्कान्तिझरीभिरञ्चिते। स्खलत्पदं कोमलपादपङ्कजक्रम ततान प्रसवास्तृते यथा ॥१०४॥
-जीवन्धरचम्प, लम्भ १, पु. च. ५, ३९ । बभ्राम पूर्वं सुविलम्बमन्थरप्रवेपमानाग्रपदं स बालकः । विश्वम्भरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभुः ॥९॥
-धर्मशर्मा० सर्ग ९, पु० च० ५, ३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org