________________
-२३ ]
चतुर्थः स्तबकः भावास्पदत्वमकृशानुभावास्पदत्वं मुक्तास्थानत्वममुक्तास्थानत्वं चेति परस्परभेदः। यत्र च राजेव राजा सकलकलावल्लभः कुवलयानन्दसंदायकश्च, किंतु दीनबन्धु दीनबन्धुरलीकविप्रियो नालीकविप्रियः, क्षत्राधिपपतिनक्षत्राधिपपतिर्वसुधावैभवमनोहरश्च ।
शतपर्वा यवफलो वेणुमस्करतेजनाः' इत्यमरः, उभयोः सादृश्यमाह-सुपर्वसुन्दराः ते जना अयोध्यावासिनो मनुजाः सुपर्वाणो देवा इव सुन्दरा इति सुपर्वसुन्दराः वंशाः सुपर्वभिः सुन्दरा इति सुपर्वसहिताः, एवं सादृश्यं ५ निरूप्य परस्परभेदं दर्शयति-तथापि कृशानुभावास्पदत्वं--वंशेषु कृशानुभावस्याग्निसद्भावस्यास्पदत्वं स्थानत्वम् पक्षे कृशोऽल्पो योऽनुभावस्तस्यास्पदत्वम् जनेषु कृशानुभावास्पदत्वं न भवतीत्यकृशानुभावास्पदत्वं पक्षेऽकृशो महान् योऽनुभावः प्रभावस्तस्य आस्पदत्वं स्थानत्वं, मुक्तास्थानत्वं मुक्तानां मुक्ता फलानां स्थानत्वं तेजनेषु वंशेषु पक्षे मुक्तं त्यक्तमास्थानं सभासंनिवेशनं येषां तेषां भावस्तत्त्वम्, जने षु मनुष्येषु अमुक्तास्थानत्वं मुक्तानां मुक्ताफलानां स्थानत्वं न भवतीति तथा पक्षे त्यक्तसभासंनिवेशनं न भवति तत्रत्या मनुष्या सभासंनि- १० वेशनार्दा आसन्निति परस्परभेदः । वंशानां मुक्तास्थानत्वं यथा-'द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि' इत्यगस्त्यः । यत्र च राजा भूपालो
चन्द्र इव व्यशोभत । उभयोः सादृश्यं यथा-सकलकलावल्लभः सकलकलानां चतुःषष्टिकलानां वल्लभः स्वामी भूपाल: सकलकलानां षोडशकलानां वल्लभः स्वामी चन्द्रः, कुवलयानन्दसंदायकश्च कुवलयं पृथिवोमण्डलं तस्यानन्दसंदायको हर्षप्रदायको भपाल:. कुवलयानामत्पलानामानन्दसंदायको विकासप्रदायकश्चन्द्रः । १५ इत्थं सादृश्यं निरूप्य व्यतिरेकं दर्शयति-किंतु दीनबन्धु दीनबन्धुः, भूपालो दीनानां बन्धुहितकर इति दोनबन्धुः चन्द्रस्तु दीनबन्धुन भवतीति नदीनबन्धुः पक्षे नदोनां सरितामिनः स्वामी नदीनः समुद्रस्तस्य बन्धुः, अलीकविप्रियो नालीकविप्रियः भूपालोऽलोकस्य मिथ्याभाषणस्य विप्रियो विरोधी चन्द्रस्तु तथा न भवतीति नालीकविप्रियः पक्षे नालीकानां पद्मखण्डानां विप्रियो विरोधी । 'नालीकं पद्मखण्डेऽपि' इति विश्वलोचनः । क्षत्राधिपतिनक्षत्राधिपतिः भूपाल: . क्षत्राणामधिपतिः चन्द्रस्तु तथा न भवतीति नक्षत्राधिपतिः पक्षे नक्षत्राणां २० ताराणामधिपतिरिति, वसुधावैभवमनोहरो नवसुधावैभवमनोहरश्च भूपालो वसुधायाः पृथिव्या वैभवेन समृद्धया मनोहरश्चन्द्रस्तु तथा न भवतीति नवसुधावैभवमनोहरः पक्षे नवसुधायाः प्रत्यग्रपीयूषस्य वैभवेन मनोहरः ।
परस्पर भेद था क्योंकि बाँसोंके समूह कृशानुभाव-अल्पप्रभावके आस्पद-स्थान थे ( पक्षमें कृशानु-अग्निके सद्भावसे सहित थे) और मनुष्य अकृशानुभावास्पद-बहुत भारी प्रभावके स्थान थे। बाँसोंके समूह मुक्तास्थानत्व-आस्थान-सभासंनिवेशसे मुक्त थे (पक्षमें २५ मोतियोंके स्थान थे) और मनुष्य अमुक्तास्थानत्व-सभासंनिवेशसे मुक्त नहीं थे अर्थात् सभाओं में स्थान पानेके योग्य थे। जहाँ राजा-भूपाल राजा-चन्द्रमाके समान था क्योंकि जिस प्रकार भूपाल सकलकलावल्लभ-समस्त-चौंसठ कलाओंका स्वामी था उसी प्रकार चन्द्रमा भी सकलकलावल्लभ-सोलह कलाओंका स्वामी था और जिस प्रकार भूपाल कुवलयानन्दसंदायक-पृथिवीमण्डलको आनन्ददायक था उसी प्रकार चन्द्रमा भी कुवलया- ३० नन्दसंदायक-नीलकमलोंको आनन्ददायक था किन्तु दोनों में परस्पर भेद था क्योंकि भूपाल दीन बन्धु था-दीनोंका हितैषी था और चन्द्रमा नदीनबन्धु था-दीनोंका हितैषी नहीं था ( पक्षमें समुद्रका बन्धु था), भूपाल अलीकविप्रिय-मिथ्याभाषणका विरोधी था और चन्द्रमा नालीकविप्रिय था-मिथ्याभाषणका विरोधी नहीं था (पक्षमें कमलसमूहका विरोधी था ), भूपाल क्षत्राधिपति-क्षत्रों-क्षत्रियोंका अधिपति था और चन्द्रमा नक्षत्राधि- ३५ पति-क्षत्रोंका अधिपति नहीं था ( पक्षमें नक्षत्रोंका अधिपति था ) भूपाल वसुधावैभवमनोहर-पृथिवीके वैभवसे मनोहर था और चन्द्रमा नवसुधावैभवमनोहर-पृथिवीके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org