SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पुरुदेव चम्पूप्रबन्धे $ २२ ) सुत्रामा सूत्रधारोऽभू च्छिल्पिनः कल्पजाः सुराः । यत्र तत्पुरसौन्दर्य को वा वर्णयितुं क्षमः ॥ १८ ॥ $ २३ ) यत्र पण्यवीथिकासु सकलभवनानीव सकल भवनानि मदनागमोचितरसालसालपनसहित विटपालिपालिताभिर्मृदुलवल्लीभिरञ्चितानि व्यशोभन्ते । यत्र च सुरसालावलीव ५ सुरसालावली सदाखण्डलसद्विचाररमणीया तथापीयं च मराली गतिहृद्या, सा पुनरमराली १४८ $ २२ ) सुत्रामेति -- यत्र पुरे सुत्रामा वज्री इन्द्र इत्यर्थः सूत्रधारो निर्देशकः कल्पजाः स्वर्गोत्पन्नाः सुरा अमराः शिल्पिनः कार्यंकरा अभूवन् तस्य पुरस्य सौन्दर्यमिति तत्पुरसोन्दर्यं तन्नगरसुन्दरतां वर्णयितुं समाख्यातुं को वा क्षमः को वा समर्थः । न कोऽपीत्यर्थः || १८ || २३ ) यत्रेति – यत्रायोध्यापुर्याम् पण्यवीथिकासु आपणरथ्यासु सकलभवनानि निखिलनिकेतानि सकलभानि करिशावकसहितानि च तानि वनानि चेति सकल१० भवनानि तद्वत् व्यशोभन्त शुशुभिरे । अयोभयोः सादृश्यमाह - पूर्व सकल भवनपक्षे — मदनागमस्य कामशास्त्रस्य उचितानि योग्यानि रसालसानि शृङ्गारादिरसभरमन्थराणि यानि आलपनानि आभाषणानि तैः सहिता ये विटपाः प्रधानविटास्तेषामालिः पङ्क्तिस्तया पालिताभिः रक्षिताभिः मृदुलवल्लीभिः मृदुलाश्च ताः वल्ल्यश्च ताभिः कोमलकायकामिनीभिरञ्चितानि शोभितानि । अथ सकलभ-वनपक्षे - मदनागो मदनवृक्षः मोचा कदली, तयोर्द्वन्द्वः, मदनागमोचे संजाते येषां ते मदनागमोचिताः रसालश्च सालश्च पनसश्चेति रसालसाल१५ पनसा आम्रसर्जपनसाः मदनागमोचिताश्च ते रसालसालपनसा इति मदनागमोचितरसालसालपनसास्तेषां विटपानां शाखानां या आलिः पङ्क्तिस्तया पालिताभिः रक्षिताभिः मृदुलवल्लीभिः मृदवश्च ता लवल्ल्यश्चेति मृदु-लवल्ल्य: ताभिः कोमललताभिः 'वल्ली स्यादजमोदायां व्रतत्यामपि योषिति' इति मेदिनी । अञ्चितानि शोभितानि । यत्र चायोध्यायां सुरसालावली शोभना रसाला आम्रवृक्षा इति सुरसालास्तेषामावली पङ्क्तिः सुरसालावलीव सुराणां देवानां सालवृक्षाः सुरसालाः कल्पवृक्षास्तेषामावलीव पङ्क्तिरिव । उभयोः २० सादृश्यमाह – सदाखण्डलसद्विचाररमणीया तत्र पूर्वं आम्रवृक्षपङ्क्तिपक्षे - सदा सर्वदा अखण्डं निरन्तरायं यथा स्यात्तथा लसन् शोभमानो यो वीनां कोकिलादिपक्षिणां चारः संचारस्तेन रमणीयो, कल्पवृक्षपक्तिपक्षे - सदा सर्वदा आखण्डलस्य सहस्राक्षस्य सद्विचारेण समीचीनविहारेण रमणीया मनोहरा । इत्थं सादृश्यं निरूप्य व्यतिरेकं निरूपयति - तथापि - उक्तप्रकारेण सादृश्ये सत्यपि इयं च शोभना म्रवृक्ष पङ्क्तिश्च मरालीगतिहृद्या मरालीनां हंसीनां गत्या हुद्या मनोहरा सा पुनः कल्पवृक्षपङ्क्तिः अमरालीगतिहृद्या मरालीनां गत्या हृद्या न [ ४।२२ २५ गर्वको नष्ट करनेवाली अयोध्या नामकी कोई नगरी बनायी । २२ ) सुत्रामेति — जहाँ इन्द्र निर्देशक था और स्वर्गके देव कारीगर थे उस नगरकी सुन्दरताका वर्णन करनेके लिए कौन समर्थ है ||१८|| $२३) यत्रेति - जहाँ बाजारकी गलियों में सकलभवन -- सम्पूर्ण भवन सकलभ - वन - हाथियोंके बच्चोंसे सहित वनोंके समान सुशोभित होते थे क्योंकि जिस प्रकार सकलभवन, कामशास्त्र के योग्य रससे अलस आभाषणसे सहित विट मनुष्योंकी पंक्तिसे ३० पालित कोमलांगी स्त्रियोंसे सुशोभित थे उसी प्रकार वन भी मदन वृक्ष और केला के वृक्षोंसे I युक्त आम सागौन तथा कटहल वृक्षोंकी शाखाओंकी पंक्तिसे पालित कोमल लताओंसे सुशोभित थे । जिस अयोध्या में सु-रसालावली - उत्तम आम्र वृक्षोंकी पंक्ति सुरसालावली - कल्प वृक्षोंकी पंक्ति समान थी क्योंकि जिस प्रकार आम्र वृक्षोंकी पंक्ति सदा अखण्डरूप से शोभायमान पक्षियों के संचारसे रमणीय थी उसी प्रकार कल्पवृक्षोंकी पंक्ति भी सदा आखण्डल३५ इन्द्रके उत्तम संचारसे रमणीय थी किन्तु आम्र वृक्षोंकी पंक्ति मराली गतिहृद्य - हंसी की गति - से सुन्दर थीं और कल्पवृक्षोंकी पंक्ति अमराली गतिहृद्य - हंसी की गतिसे सुन्दर नहीं थी १. विशोभन्ते क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy