________________
१४२
[ ४६५
पुरुदेवचम्पूप्रबन्धे ६५) भानि भ्राजितकान्तिसारलहरीं रात्रिंदिवं से वितुं
प्रोद्युक्तानि विहाय तानि खतलं तस्याः कुरङ्गीदृशः । पादाम्भोजयुगे समाविरभवन्नूनं नखानिच्छलात्
तस्मात्खं च नभःस्थलं समभवद्रूढयैव तारापथम् ।।३।। ६६) स्वर्णस्थिति प्राप्तमपि प्रभूतां सरोजमस्याः पदवारिजस्य ।
वसुप्रपञ्चानपहृत्य राज्ञो भयाद्वनान्ते वसतिं विधत्ते ॥४॥ $७) मनोजतूणीयुगलं मृगाक्ष्या जङ्घायुगं नूनमिति प्रतीमः ।
यतस्तदने पदकैतवेन तद्बाणभूतं जलजं चकास्ति ॥५॥
भूषणं बभूव । मालोपमा रूपकं च । $ ५) मानीति--रात्रिंदिवमहर्निशम्, भ्राजिता शोभिता या कान्तिसारलहरी श्रेष्ठकान्तिसंततिस्तां सेवितुमाराधयितुं प्रोद्युक्तानि तत्पराणि तानि प्रसिद्धानि भानि नक्षत्राणि खतलं नभस्तलं विहाय त्यक्त्वा छलाद् व्याजेन तस्याः कुरङ्गोदृशो मृगाक्ष्याः पादाम्भोजयुगे चरणकमलयुगले नखानि नखराणि समभवन् अभवन् नूनमित्युत्प्रेक्षायाम् । तस्मात्कारणात् खं गगनं नभानां नक्षत्राणां स्थलमिति नभस्थलं पक्षे नभःस्थलं गगनस्थलं सत् रूढयैव प्रसिद्धयैव तारापथं नक्षत्रपथम् अभवत् । नभस्थलमित्यत्र 'खपरे शरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेन वैकल्पिको विसर्गलोपो बोध्यः । उत्प्रेक्षालंकार विक्रीडित छन्दः ॥३॥ $4) स्वर्णेति-सरोज कमलं प्रभूतां प्रचुरां स्वर्णस्य काञ्चनस्य स्थितिस्तां प्रभूतसुवर्णसत्तामित्यर्थः, प्राप्तमपि अस्या मरुदेव्याः पदवारिजस्य चरणकमलस्य वसुप्रपञ्चान् धनसमूहान् 'वसु तोये घने मणो' इति वैजयन्ती । अपहृत्य चोरयित्वा राज्ञो नृपतेर्भयात् त्रासात् वनान्ते वनमध्ये वसति विधत्ते कुरुते । यथा कश्चित्स्वभावेन संपन्नोऽपि कस्यचिद्धनं चोरयित्वा राजबन्धनभयाद् वनेऽन्तर्हितो निवसति तद्वदिति भावः ।
प्रकृतपक्ष सरोज कमलं प्रभूतामधिकां सुष्ठु अर्णः स्वर्णः सुजलं तस्मिन् स्थितिस्तां प्राप्तमपि अस्या मरुदेव्याः ° पदवारिजस्य वसुप्रसञ्चान् किरण समूहान् 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः । अपहृत्य राज्ञश्चन्द्रमसो
भयात् वनान्ते जलमध्ये 'वारिक, पयोऽम्भोऽम्बुः पाथोऽर्णः सलिलं जलम्', 'शरं वनं कुशं नीरं तोयं जीवनमन्विषम्' इति धनञ्जयः । वसतिं विधत्ते कुरुते । श्लेषः । उपजातिवृत्तम् ॥४॥ ६७) मनोजेति-नूनं निश्चयेन मृगाक्ष्या मरुदेव्या जङ्घायुगं प्रसृतायुगलं मनोजतूणीयुगलं कामेषुधियुगम् अस्ति, इति प्रतीमः प्रतीति कुर्महे यतो यस्मात्कारणात्ते तदने जङ्घायुगाग्रे पदकैतवेन चरणच्छलेन तस्य मनोजस्य बाणभूतं शरभूतं जलजं कमलं चकास्ति शोभते 'अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणाः प्रकीर्तिताः ।'
२०
लताओंकी वाटिका थी और शृंगाररसकी नदी थी। $५) भानीति-रातदिन देदीप्यमान रहनेवाली श्रेष्ठ कान्तिकी परम्पराको प्राप्त करनेके लिए उद्यत हुए नक्षत्र आकाशको छोड़कर उस मृगनयनीके चरणकमलयुगलमें छलसे नाखून बन गये थे ऐसा जान पड़ता है।
इसीलिए आकाश नभस्थल हो गया (पक्षमें ताराओंका स्थल नहीं रहा) रूढ़िसे ही तारापथ ३० कहा जाता है ॥३॥ ६६ ) स्वर्णेति-कमल यद्यपि बहुत भारी स्वर्णकी स्थितिको प्राप्त था
तथापि मरुदेवीके पद कमलके धन समूहका उसने अपहरण कर लिया इसीलिए वह राजाके भयसे वनके मध्यमें निवास करता है। ( पक्ष में कमल बहत भारी स्वर्णस्थिति-सन्दरजलमें स्थितिको प्राप्त था तो भी उसने मरुदेवीके चरणकमलोंकी किरणोंके समहको हर लिया इस
लिए वह चन्द्रमाके भयसे पानीके मध्यमें निवास करता है ।) ॥४।। $७) मनोजेति-मृगनयनी ३५ मरुदेवीकी जंघाओंका युगल निश्चित ही कामदेवके तरकशोंका युगल था ऐसा हम समझते
हैं क्योंकि उसके अग्रभागमें चरणोंके छलसे कामदेव का बाणभूत कमल सुशोभित हो रहा है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org