________________
-१२ ]
चतुर्थः स्तबकः $ ८) तदूरुकान्ति स्वकरे चिकीर्षुर्मत्तद्विपोऽसौ यतनं विधत्ते ।
तत्कान्तिचौर्याय सदा प्रवृत्तां रम्भां विमथ्नाति कुतोऽन्यथासो ॥६॥ $९) कटीमण्डलमेतस्याः काञ्चीसालपरिष्कृतम् ।
मन्ये दुर्गमनङ्गस्य जगड्डामरकारिणः ॥७॥ १०) स्वयमम्बरमपि मध्यं तस्याः सूक्ष्माम्बरोपेतम् ।
तदपि च नेत्राविषयं बभूव चित्रं सुमध्यायाः ॥८॥ ११) परिवेष्ट्य मध्ययष्टिं नाभिबिलान्तं कुरङ्गलोलाक्ष्याः ।
__ मणिखचितसर्वदेहश्चित्रं काञ्चोप्रदाकुरधिशिष्ये ॥९॥ १२) रोमश्रेणी 'कुसुमधनुषा यौवनारामवृद्धयै
नाभीवापी निकटघटितं किं घटीयन्त्रदारुः । इत्यमरवचनाज्जलस्य मनोजबाणत्वं प्रसिद्धम् । हेतूत्प्रेक्षा। उपजातिछन्दः ॥५॥६८) तदूर्विति-तस्या मरुदेव्या कों: सक्थ्नोः कान्तिस्तां तद्वरुकान्ति स्वकरे स्वकीयशुण्डादण्डे चिकीर्षुः कर्तुमिच्छुः असी प्रसिद्धो मत्तद्विपो मत्तगजराजो यतनं प्रयासं विधत्ते कुरुते । अन्यथा असो मत्तद्विपः तत्कान्तिचौर्याय तदूरुदीप्त्यपहरणाय प्रवृत्तां रम्भां कदली सदा शश्वत् कुतः कस्माद्धेतोः विमथ्नाति हिंसति । रम्भासदृशं तदूरुयुगमिति भावः । हेतुत्प्रेक्षा । उपजाति छन्दः ॥६॥६९) कटीति-काञ्चीसालपरिष्कृतं रशनाप्राकारवेष्टितम एतस्या मरुदेव्याः १५ कटीमण्डलम् अवलग्नप्रदेशः जगड्डामरकारिणो जगद्विजयकारिणः अनङ्गस्य मदनस्य दुर्ग 'किला' इति प्रसिद्धं वर्तते इति मन्ये जाने ।।७।१०) स्वयमिति-सुमध्यायाः शोभनावलग्नायाः तस्या मरुदेव्या मध्यं स्वयम अम्बरमपि वस्त्रमपि सूक्ष्माम्बरोपेतं सूक्ष्मवस्त्रसहितं तदपि च तथाभतमपि नेत्रस्य वस्त्रस्य अविषयमगोचरं बभूव इति चित्रमद्भुतम् । यत् स्वयं वस्त्ररूपं सूक्ष्मवस्त्रसहितं च तद् वस्त्ररहितं कथं भवेदिति भावः । परिहारपक्षे तस्या मध्यं स्वयं स्वतः अम्बरमपि गगनमिव शून्यमपि कृशतरमित्यर्थः सूक्ष्माम्बरोपेतं सूक्ष्मवस्त्र- २० परिहितं तदपि च नेत्राविषयं नयनागोचरं बभूव ॥ विरोधाभासः । आर्यावृत्तम् ॥८॥ $1) परिवेष्टयेतिमणिभिः खचितः सर्वदेहो यस्य तथाभतः काञ्चीप्रदाकूः मेखलासर्पः कूरङ्गस्येव लोले अक्षिणी यस्यास्तस्या हरिणचपललोचनाः या मरुदेव्या इति यावत् मध्यष्टि कटों परिवेष्टय परीत्य नाभिरेव विलं विवरं तस्यान्तस्तम् अधिशिश्ये अधिशेते स्म इति चित्रम् । अन्यसर्पस्य फणामात्र रत्नखचितं भवति काञ्चीसर्पस्य तु सर्वदेहो रत्नखचितो बभूवेति चित्रम् । रूपकालंकारः। आर्याछन्दः ॥९॥६१२) रोमेति--तस्याः, रोमश्रेणी २५ रोमराजिः कुसुमधनुषा कामदेवेन यौवनारामवृद्धय तारुण्योपवनवर्धनाय नाभीवाप्यानिकटे घटितं स्थापित ॥५॥ $८) तविति-वह मदोन्मत्त हाथी मरुदेवीकी जाँघोंकी कान्तिको अपनी सूंडमें लानेकी इच्छा करता हुआ प्रयास करता है यदि ऐसा न होता तो वह जाँघोंकी कान्तिकी चोरीके लिए प्रवृत्त कदलीको सदा क्यों नष्ट करता ? ॥६॥ ६९) कटीति-मेखलारूपी प्राकारसे घिरा हुआ इसका मध्यभाग जगद्विजयी कामदेवका गढ़ था ऐसा मैं मानता हूँ ॥७॥ ६१०) ३० स्वयमिति-सुन्दर कमरवाली मरुदेवीका मध्यभाग यद्यपि स्वयं अम्बर--वस्त्ररूप था (पक्षमें आकाशके समान शून्यरूप था) और सूक्ष्म अम्बर-महीन वस्त्रसे सहित था तथापि वह नेत्र-वस्त्रका विषय नहीं था ( पक्ष में नयनगोचर नहीं था) यह आश्चर्यकी बात थी ॥८॥
११)) परिवेष्टयेति-आश्चर्य है कि जिसका सर्व शरीर मणियोंसे खचित था ऐसा मेखलारूपी सप, मृगके समान चंचल नेत्रोंवाली मरुदेवीके मध्यभागको घेरकर नाभिरूपी ३५ बिलके पास सो रहा था ॥९॥ $१२) रोमेति-मरुदेवीकी रोमराजि ऐसी जान पड़ती थी। १. कुसमधनुषा (?) क० । २. घटिता क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org