SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १० १३२ पुरुदेवचम्पूप्रबन्धे [ ३३६१०२$१०२ ) तदनु वज्रसेनमहाराजोऽपि तस्मिन्नेव तनये राज्यलक्ष्मी नियोज्य लौकान्तिकामरैः प्रबोधितो विहितनिष्क्रमणमतिः कलितसुरवरापचितिः सहस्रप्रमितैनराधिपतिभिः सह परिनिष्क्रम्य तपोलक्ष्म्या समालिङ्गितदेहोऽपि मुक्तिलक्ष्मी प्रमोदिनी चक्रे । $ १०३ ) जयागारे चक्रे विजितरविबिम्बे रुचिभरैः समुद्भूते पुण्यात् क्षितिपतिरसौ कौतुकवशात् । विधायैतत्पूजां विलसितषडङ्गेन महता बलेनाथ श्रीमान् स निखिलदिगन्तानि जितवान् ।।५७।। $ १०४ ) धनदेवोऽपि तस्यासीद्धरणीशस्य चक्रिणः । रत्नं तद्गृहपत्याख्यं निधो रत्ने च योजितम् ॥५८॥ $ १०५ ) यस्य च महीरमणस्यारिचक्रं पाणिलालितं खण्डितं च । सुमनोमाला कण्ठे पार्वे कीर्त्या यशसा साधं विस्तृतत्वं विपुलत्वं प्रपेदे लेभे, रोमराजिलॊमपङ्क्तिः तेजोलक्ष्म्या तेजःश्रिया सह उद्गता प्रकटिता। सहोक्तिरलंकारः। मन्दाक्रान्ताछन्दः ॥५६॥ १०२) तदन्विति-तदनु तदनन्तरं वज्रसेनमहाराजोऽपि वज्रनाभिजनकोऽपि तस्मिन्नेव तनये वज्रनाभौ पुत्र राज्यलक्ष्मी राज्यधियं नियोज्य स्थापयित्वा लोकान्तिकामरैर्ब्रह्मलोकान्तनिवासिभिर्देवर्षिभिः प्रबोधितः प्रबोधं प्रापितः विहिता कृता निष्क्रमणे प्रव्रजने १५ मतिर्येन सः, कलिता कृता सुरवरैः शक्ररपचितिः पूजा यस्य तथाभूतः सन् सहस्रप्रमितैनराधिपतिभिः सह परिनिष्क्रम्य परिव्रज्य तपोलक्ष्म्या तपःश्रिया समालिङ्गितदेहोऽपि समाश्लिष्टशरीरोऽपि सन मक्तिलक्ष्मी प्रमोदिनी प्रहर्षिणी चक्रे विदधे। $१०३) जयागार इति-असौ क्षितिपतिर्वज्रनाभिः पुण्यात् सुकृतात् रुचिभरैः किरणकलापैः विजितं पराभूतं रविबिम्ब सूर्यमण्डलं येन तथाभूते चक्रे चक्ररत्ने जयागारे शस्त्रशालायां समुद्भूते प्रकटिते सति स श्रीमान् वज्रनाभिः कौतुकवशात् कुतूहलवशात् एतत्पूजां चक्ररत्नापचितिं विधाय कृत्वा विलसितानि शोभितानि षडङ्गानि यस्य तेन महता विशालेन बलेन सैन्येन निखिलदिगन्तानि सकलकाष्ठान्तानि जितवान जिगाय । शिखरिणीछन्दः ॥५७॥१०४ ) धनदेवोऽपीति-धनदेवोऽपि केशवजीवोऽपि तस्य पूर्वोक्तस्य धरणीशस्य पृथिवीपतेः चक्रिणश्चक्रवतिनो वज्रनाभः तत् प्रसिद्ध गृहपत्याख्यं गृहपतिनाम रत्नम् अभवत् 'जाती जातो यदुत्कृष्टं तद्रत्नमिहोच्यते' इति रत्नलक्षणम् । यत् निधी रत्ने च योजितं संमेलितं बभूव ॥५८॥ $ १०५ ) यस्येति-यस्य महीरमणस्य वज्रनाभेः अरिचक्रं पाणिलालितं खण्डितं च पूर्वत्रपक्षे अराश्चक्रदण्डा विद्यन्ते यस्मिन् तत् अरि तच्च तत् चक्रं चेति अरिचक्रं अरयुक्तं चक्ररत्नं करलालितं परत्र पक्षे अरीणां शत्रूणां चक्रं समूह इत्यरिचक्रं खण्डितं नष्टं च । सुमनोमाला यस्य कण्ठे पार्वे च कण्ठपक्षे सुमनसां तेजश्रीके साथ प्रकट हो गयी॥५६॥ १०२) तदन्विति-तदनन्तर उसी वज्रनाभिपुत्रपर राज्यलक्ष्मीको नियुक्त कर लौकान्तिक देवोंके द्वारा प्रबोधको प्राप्त होते हुए जिन्होंने दीक्षा लेनेकी बुद्धि की थी तथा इन्द्रने जिनकी पूजा की थी ऐसे वज्रसेन महाराजने भी एक हजार राजाओं३० के साथ दीक्षा ले ली और तपोलक्ष्मीके द्वारा आलिंगित शरीर होनेपर भी मुक्तिरूपी लक्ष्मी को हर्षित किया ॥ $१०३) जयागार इति-राजा वज्रनाभिने पुण्योदयसे आयुधशालामें किरणोंके समूहसे सूर्यबिम्बको जीतनेवाले चक्ररत्नके प्रकट होनेपर कुतूहलवश उसकी पूजा की। तदनन्तर विशिष्ट लक्ष्मीसे युक्त हो छह अंगोंसे सुशोभित बड़ी भारी सेनाके द्वारा उसने समस्त दिशाओंके अन्तको जीता ॥५७।। $ १०४) धनदेवोऽपीति-धनदेव भी उसी चक्रवर्ती३५ का गृहपति नामका वह रत्न हुआ जो कि निधि और रत्न दोनोंमें शामिल था ॥५॥ १०५) यस्य चेति-अरिचक्र जिस राजाके हाथमें धारण किया गया था तथा खण्डित भी किया गया था (हाथमें अरोंसे युक्त चक्ररत्न धारण किया गया था और शत्रुओंका समूह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy