SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ -७७ ] तृतीयः स्तबकः १२३ ६७५) तत्रावलोक्य शतबुद्धिमसो सुराग्र्यः किं भद्र वेत्सि खचरेन्द्रमहाबलं माम् । मिथ्यात्वदुर्णयवशात्तव दुःखमेतत् प्राप्तं विधेहि हृदि दर्शनमित्युवाच ॥४२॥ ७६ ) इति बोधितोऽयं गृहीतसम्यक्त्वधृतिः शतमतिः कालान्ते निरयान्निर्गत्य, पुष्करार्ध- ५ द्वीपपूर्वार्धपरिशोभितप्राग्विदेहप्रकाशमानमङ्गलावतीविषयसंगतरत्नसंचयनगरमधितिष्ठतोः सुन्दरीमनोहरनामधेययो राजदम्पत्योस्तनयो जयसेनाभिधानः संजातः । पाणिग्रहणप्रारम्भे करुणाकरेण श्रीधरामरेण नारकों वेदनां बोधितो निरस्तविषयाभिलाषस्तत्क्षणमेव यमधरं नाम गुरुवरं समाश्रित्य, दुश्चरणतपश्चरणदक्षः कालान्ते ब्रह्मेन्द्रो भूत्वा सुस्पष्टावधिलोचनस्तस्माल्लोकादागत्य कल्याणमित्रं श्रीधरमतिमात्रं पूजयामास ॥ ७७ ) तदनु श्रीधरोऽपि स्वर्गाच्च्युत्वा जम्बूद्वीपप्राग्विदेहमहितमहावत्सकावतीविषय ७५) तत्रेति-तत्र शर्कराप्रभायां भूमी असो सुराग्र्यः श्रीधरदेवः शतबुद्धि तन्नाममन्त्रिणम् अवलोक्य दृष्ट्वा इतीत्थम् उवाच जगाद । इतीति किम् । हे भद्र ! कि खचरेन्द्रश्चासौ महाबलश्चेति खचरेन्द्रमहाबलस्तं मां वेत्सि जानासि । मिथ्यात्वेन मिथ्यादर्शनेन युक्ता ये दुर्णया दुष्टनयास्तेषां वशेन तव भवतः एतदनुभूयमानं दुःखं प्राप्तम् अतो हृदि दर्शनं सम्यग्दर्शनं विधेहि कुरु इति । वसन्ततिलका छन्दः ॥४२॥ $ ७६) इतीति-इत्येवं १५ बोधितो बोधं प्रापित: गृहीता सम्यक्त्वे धतियन तथाभ तो गहीतसम्यग्दर्शनः शतमतिः श कालान्ते जीवितान्ते निरयान्नरकाद् निर्गत्य पुष्करार्धद्वीपस्य पूर्वार्धे परिशोभितो यः प्राग्विदेहः पूर्वविदेहस्तस्मिन् प्रकाशमानो यो मङ्गलावतीविषयस्तस्मिन् संगतं स्थितं यत् रत्नसंचयनगरं तत् अवितिष्ठतोस्तत्र निवसतोः सुन्दरीमनोहरनामधेययो राजदम्पत्योः जयसेनाभिधानस्तनयः पुत्रः संजातः समुत्पन्नः । पाणिग्रहणप्रारम्भे विवाहसंस्कारस्य प्रारम्भ एव करुणाकरेण कृपाखनिरूपेण श्रीधरामरेण महाबलचरेण नारकी वेदनां यातनां २० बोधित: स्मारितो निरस्तविषयाभिलाषो दूरीकृतभोगाकाङ्क्षः तत्क्षणमेव यमधरं नाम तन्नामानं गुरुवरं समाश्रित्य समाराध्य दुश्चरणतपश्चरणे कठिनतपस्यायां दक्षः समर्थः सन् कालान्ते जीवितान्ते ब्रह्मन्द्रो ब्रह्मस्वर्गपुरन्दरो भूत्वा सुस्पष्टं सुव्यक्तमवधिलोचनं यस्य तथाभूतः सन् तस्माल्लोकाद् ब्रह्मलोकात् पञ्चमस्वर्गाद् आगत्य कल्याणमित्रं कल्याणकरमित्रं श्रीधरं श्रीधरदैवम् अतिमात्रमतिशयेन पूजयामास आनर्च सच्चकारेत्यर्थः । $ ७७) तदन्विति-तदनु तदनन्तरं श्रीधरोऽपि स्वर्गात् च्युत्वा जम्बूदीपस्य प्राग्विदेहे पूर्वविदेहे महितः २५ सुशोभित हो रही थी। $ ७५ ) तत्रेति-वह श्रीधरदेव वहाँ शतबुद्धिको देखकर बोला कि हे भद्र! विद्याधरोंके राजा मुझ महाबलको क्या जानते हो ? मिथ्यात्वपूर्ण मिथ्यानयोंके वशीभूत होनेसे तुम्हें यह दुःख प्राप्त हुआ है अतएव हृदय में सम्यग्दर्शन धारण करो ॥४२॥ $ ७६ ) इतीति-इस प्रकार समझाया हुआ शतमतिका जीव सम्यग्दर्शन धारण कर नरकसे निकला और पुष्करार्ध द्वीपके पूर्वार्धमें सुशोभित पूर्वविदेह क्षेत्रमें प्रकाशमान मंगलावती ३० देश में स्थित रत्नसंचय नामक नगरमें रहनेवाले सुन्दरी और मनोहर नामक राजदम्पतिके जयसेन नामका पुत्र हुआ। विवाहके प्रारम्भमें ही दयाकी खान स्वरूप श्रीधरदेवने उसे नरककी वेदनाका स्मरण करा दिया जिससे विषयोंकी अभिलाषाको छोड़कर उसने उसी क्षण यमधर नामक गुरुके पास जाकर कठिन तपश्चरण किया। तपश्चरणके फलस्वरूप वह ब्रह्म स्वर्गका इन्द्र हुआ। अवधिज्ञानरूपी नेत्रके प्रकट होनेपर उसने ब्रह्मलोकसे आकर कल्याण- ३५ कारी मित्र श्रीधरदेवकी बहुत पजा की। ७७ ) तदन्विति-तदनन्तर श्रीधरदेव भी स्वर्गसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy