SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ -३९ ] तृतीयः स्तबकः लगुडताडनादिभिः स्वचरणाभ्यां समं निर्भिद्य राज्ञा च घातितो नकुलत्वमप्रत्याख्यानलोभेन समुपाजगाम । $ ३७ ) युष्मद्दानसमीक्षणेन परमं मोदं गतास्तत्क्षणं प्राप्ताः पूर्वभवस्मृति प्रतिगता निर्वेदमुर्वीपते ! त्वद्दानानुमतेः कुरुष्वतितरां बद्धायुषोऽमी मृगा निःशङ्काः पुरतः स्थिता। कुतुकिता धर्मामृतास्वादने || १८ || १०९ $ ३८ ) अमी किल भवदीयाष्टभवपर्यन्तं भवतैव समं दिव्यमानुषगोचरान्भोगाननुभूय ततः सेत्स्यन्ति । इयं च श्रीमती भवत्तीर्थे दानतीर्थ प्रवर्तकः श्रेयान् कुमारो भूत्वा शाश्वतं पदमवाप्स्यति । ९ ३९ ) इति सुवचनमाध्वीं कणपात्रेण पीत्वा मुनिवरमभिवन्द्यावासमागान्महीशः । Jain Education International ५ गत्वा ततः स्वसुता- ग्रामात् प्रतिनिवृत्तः प्रत्यागतस्तथापूपादिदानेन इष्टिकानां संग्रहे अनाचारितवतः अकृतवतः पुत्रस्य शिरस्तटं मस्तकं लगुडताडनादिभिर्दण्डाघातादिभिः स्वचरणाम्यां स्वकीयपादाभ्यां समं निर्भिद्य खण्डयित्वा न पादो भवेतां नाहं स्वसुताग्रामं गच्छेयं न चेष्टिकासंग्रहे हानिर्भवेदिति विचारेण तेन लोलुपेन स्वचरणावपि खण्डिती । अथ च राज्ञा घातितो दण्डिनोऽप्रत्याख्यानलोमेन नकुलत्वं पन्नगारिपर्यायं समुपाजगाम प्राप । ( ३७ ) युष्मद्दानेति - हे उर्वीपते ! हे महीपते ! अमी पुरो वर्तमानाः मृगा वन्यपशवः सूकरशार्दूल- १५ गोला गुलकुलाः युष्मद्दानस्य भवत्प्रदत्तदानस्य समीक्षणेन समवलोकनेन परमं प्रकृष्टं मोदं हर्ष गताः प्राप्ताः, तत्क्षणं दानावसरे पूर्वभवस्मृतिं पूर्वपर्यायस्मरणं प्राप्ताः सन्तो निर्विदं वैराग्यं प्रतिगता आसादिताः । त्वद्दानस्यानुमतेः समर्थनात् कुरुषूत्तमभोगभूमिषु अतितरां सातिशयं बद्धमायुर्यैस्तथाभूताः धर्म एवामृतं धर्मामृतं पीयूषं तस्यास्वादनेऽनुभवने कुतुकिताः कौतुकसहिताः निःशङ्का निर्भयाः सन्तः पुरतोऽग्रे स्थिता विद्यमानाः सन्तीति शेषः । शार्दूलविक्रीडितं छन्दः || १८ || $ ३८ ) अमीति - अमी किल एते खलु सूकरादयो भवदीया - २० ष्टभवपर्यन्तं भवतैव समं सार्धं दिव्यमानुषगोचरानमरमर्त्यसंबन्धिनो भोगान् पञ्चेद्रियविषयान् अनुभूय ततोऽनन्तरं सेत्स्यन्ति सिद्धा भविष्यन्ति । इयं च भवद्वल्लभा श्रीमती भवत्तीर्थे यदा भवान् वृषभदेवो भविष्यति तदा दानतीर्थस्य दानधर्मप्रवर्तकः श्रेयान् कुमारो हस्तिनागपुराधिपसोमप्रभमहाराजस्यानुजो भूत्वा शाश्वतं पदं मोक्षम् अवाप्स्यति लप्सते । ( ३९ ) इतीति- इतीत्थं महीशो वज्रजङ्घः सुवचनमाध्वीं चारणर्षिमुखारविन्दप्रकटितवचोमकरन्दं कर्णपात्रेण श्रवणभाजनेन पोत्वा मुनिवरं चारणर्षिराजम् अभिवन्द्य नमस्कृत्य आवासं शिविरम् २५ For Private & Personal Use Only १० तब वैसा न करनेवाले पुत्रसे बहुत बिगड़ा । डंडे आदिसे पीटकर उसका सिर फोड़ दिया था और यदि ये पैर न होते तो मैं लड़कीके गाँव न जाता यह सोचकर अपने पैर भी काट लिये । अन्तमें राजाके द्वारा मारा जाकर अप्रत्याख्यान सम्बन्धी लोभसे इस नेवलाकी पर्याय को प्राप्त हुआ है । ९३७) युष्मद्दानेति - हे राजन् ! तुम्हारे द्वारा दिये हुए दानको देखकर ये सब परम हर्षको प्राप्त हुए हैं तथा दान देनेके समय ही पूर्वभवकी स्मृतिको प्राप्त ३० होकर वैराग्यको प्राप्त हो रहे हैं । तुम्हारे द्वारा प्रदत्त दानकी अनुमोदना करनेसे इन्होंने उत्तम भोगभूमिको आयुका बन्ध किया है । इसीलिए ये वन्यपशु धर्मरूपी अमृतके रसास्वाद में कौतुकसे युक्त होते हुए निर्भयरूपसे सामने बैठे हैं ||१८|| ९३८ ) अमीति – ये सब आपके आठ भवतक आपके ही साथ देव और मनुष्य सम्बन्धी भोगोंको भोगकर पश्चात् सिद्ध अवस्थाको प्राप्त होंगे। और यह श्रीमती आपके तीर्थ में दानधर्मका प्रवर्तक श्रेयान्सकुमार ३५ होकर निर्वाणको प्राप्त करेगा । ६३९ ) इतीति- इस प्रकार राजा वज्रजंघ कर्णरूपी पात्रके द्वारा उत्तम वचनरूपी अमृतको पीकर तथा मुनिराजको नमस्कारकर अपने डेरेमें चले गये । www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy