SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०५ -२५ ] ततीयः स्तबकः पुरोरथ्याः पृथ्वीपतिरयमितो यास्यति मुदा ___ध्वजान्बद्ध्वा सौधेष्वपि तनुत भोस्तोरणगणान् ॥१३।। $२४ ) इति पुरे घोषणायां दत्तायां तथालङ्कृतं नगरमप्रासुकत्वेनात्मनो विहारायोग्य मत्वा कान्तारचर्यां संगीर्य मुनिवरो यास्यति । ६२५) एवं पुरोधोवचनमङ्गीकृत्य धरारमणस्तथा कुर्वाणस्ततः क्रमेण समागताय ५ पिहितास्रवनाममुनिवराय विधिवदाहारं दत्त्वा निलिम्पनिपातितां वसुधारां विलोकमानस्तदानीमये धरारमण ! अस्मिन् महीधरे भवदीयदानवैभवविजृम्भितरत्नवृष्टिनिरीक्षणक्षणजनितजातिस्मृतिः संत्यक्तशरोराहारः कोऽपि शार्दूलः शिलातले निविष्टः सोऽयं त्वयोपचर्यताम् । अयं किल पुरुनन्दनो भूत्वा चक्रवर्तितामेत्य परं धाम व्रजिष्यति, इति मुनिवरव्यवहारविस्तृतविस्मयो मुनिना समं गत्वा शार्दूलस्य सपर्या विस्तारयामास । गाय १५ पुष्पैः प्रसूनः प्रकीर्यन्तां प्रक्षिप्यन्ताम्, घुसृणरसमित्रैः कुङ्कुमरसमिलितैः सुगन्धिभिः पयोभिर्जलैः सिच्यन्ताम्, सौधष्वपि प्रासादेष्वपि ध्वजान् पताका बवा तोरणगणान् बहिरिसमूहान् तनुत विस्तारयत । शिखरिणीछन्दः ॥१३॥ ६२४) इतीति-इतीत्थं पुरे नगरे घोषणायां दत्तायां तथा सुगन्धिसलिलपुष्पादिभिरलंकृतं शोभितं नगरम् अप्रासुकत्वे सचित्तत्वेन आत्मनः स्वस्य विहारायोग्यं विहारस्यायोग्यमनहं मत्वा कान्तारचर्या कान्तारे वने यदि आहारं प्राप्स्यामि तहि गृहीष्यामि अन्यथा नेति प्रतिज्ञा कान्तारचर्या कथ्यते । तां संगीर्य प्रतिज्ञाय मुनिवरो यास्यति नगराद् बहिर्गमिष्यति । $२५) एवमिति-एवमित्थं पुरोधसो वचनं पुरोधोवचनं पुरोहितोक्तिम् अङ्गोकृत्य स्वीकृत्य धरारमणः प्रीतिवर्धनो राजा तथा कुर्वाणः पुरोहितोक्तविधिना नगरीरथ्या अलंकारयन् क्रमेण समागताय संप्राप्ताय पिहितास्रवनाममुनिवराय विधिवत् चरणानुयोगविहितविध्यनुसारम् आहारं दत्त्वा निलिम्पैर्देवैनिपातितां निलिम्पनिपातितां वसुधारां मणिधारां 'वसु तोये धने मणी' इत्यमरः विलोकमानः पश्यन् इदानीं तस्मिन् काले, अये घरारमण ! भो राजन् ! अस्मिन्महीधरे पर्वते भव- २० दीयदानस्य वैभवेन सामर्थ्येन विज़म्भिता वृद्धि प्राप्ता या रत्नवृष्टिस्तस्या निरीक्षणक्षणेऽवलोकनावसरे जनिता समुत्पन्ना जातिस्मृतिः पूर्वजन्मस्मरणं यस्य तथाभूतः, संत्यक्तौ शरीराहारी येन तथाभूतः कोऽपि शार्दूलो व्याघ्रः शिलातले दषत्तले निविष्टः स्थितः, सोऽयं शार्दूलस्त्वया राज्ञा उपचर्यतां सेव्यताम् । अयं किल शार्दूलः पुरोभगवतो वृषभदेवस्य नन्दनः पुत्रो भूत्वा चक्रवतितां चक्रधरतामेत्य प्राप्य परं धाम मोक्षं व्रजिष्यति गमिष्यति । इतीत्थं मुनिवरस्य पिहितास्रवमुनिराजस्य व्याहारेण वचनेन विस्तृतो विस्मयो यस्य तथाभूतः पृथ्वीपतिः प्रोति. २५ 3 . आच्छादित की जावें, केशरके रससे मिले हुए सुगन्धित जलसे सींची जावें तथा महलोंपर ध्वजाएँ बाँधकर तोरणोंके समहको विस्तृत करो अर्थात् तोरण द्वार बनाओ ॥१३॥ $ २४ ) इतीति-नगरमें इस प्रकारकी घोषणाके किये जानेपर उस प्रकार अलंकृत किये हुए नगरको अप्रासुक होनेसे अपने विहारके अयोग्य मानकर कान्तारचर्याका नियम धारण कर मुनिराज प्राप्त होंगे। $२५ ) एवमिति-इस प्रकार पुरोहितके वचन स्वीकृत कर राजाने वैसा ही किया। तदनन्तर क्रमसे आये हुए पिहितास्रव नामक मुनिराजके लिए विधिपूर्वक आहार देकर देवोंके द्वारा गिरायी हुई रत्नोंकी धाराको देखने लगा। उस समय मुनिराजने कहा-हे राजन् ! इस पर्वतपर आपके दानकी सामर्थ्यसे होनेवाली रत्नवृष्टिको देखनेके समय जिसे जातिस्मरण हो गया है ऐसा कोई व्याघ्र शरीर और आहार का त्यागकर शिलातलपर बैठा है सो तुम इसकी सेवा करो। यह भगवान् आदिनाथका पुत्र होकर ३५ ।। चक्रवर्तीपदको प्राप्त होता हुआ मोक्ष जावेगा। मुनिराजके इन वचनोंसे जिसका आश्चर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy