SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०४ १० पुरुदेव चम्पूप्रबन्धे $ २० ) इति पृष्टो नरेन्द्रेण मुनीन्द्रस्तुष्टमानसः । अवधि स्पष्टनयन इदमाचष्ट सादरम् ||१२|| $ २१ ) अयं मतिवरो जम्बूद्वीपपूर्वं विदेहवत्सकावतो विषयप्रभाकरी पुर्यामतिगृध्रो नाम नरपालो जातस्तत्र बह्वारम्भपरिग्रहवैभव विजृम्भितनरकायुष्यः पङ्कप्रभानाम्नि नरके संजात५ नारकभावो दशसागरोपमस्थितिस्ततो निष्पत्य पूर्वोक्तनगरसमोपविलसिते निजधननिक्षेपपर्वते शार्दूलः समजायत । $ २२ ) कदाचिद्विजिगोषयाप्युत्थितं निजानुजं निवत्यं तन्महीधरमधिवसन्तं सानुजं प्रीतिवर्धनं नाम महीरमणं, पुरोधाय पुरोधा मेधावतामग्रणीरत्र मुनीश्वराहारदानेन तव महान् लाभो भवितेति प्रतिपाद्य मुनीश्वरसमागमोपायमप्येवं कथयांबभूव । $ २३ ) प्रकीर्यन्तां पुष्पैर लिकुलकलारावमुखरैः [ ३२० पयोभिः सिच्यन्तां घुसृण रसमिश्रः सुरभिलः । कथय ॥११॥ $ २०) इतीति- इतीत्थं नरेन्द्रेण वज्रजङ्घन सादरं सविनयं पृष्टोऽनुयुक्तः, तुष्टमानसः संप्रीतहृदयः अवधिरेव स्पष्टनयनं यस्य तथाभूतोऽवधिज्ञाननेत्र विलसितो मुनीन्द्रः इदम् आचष्ट कथयामास ॥१२॥ $ २१) अयमिति - अयं पुरोवर्तमानो मतिवरो महामन्त्री जम्बूद्वीपपूर्वविदेहस्य वत्सकावतीविषये १५ विद्यमाना या प्रभाकरपुरी तस्याम् अतिगृद्धो नाम नरपालो राजा जात: । तत्रातिगृद्धभवे बह्वारम्भपरिग्रहस्य वैभवेन सामर्थ्येन विजृम्भितं बद्धं नरकायुष्यं यस्य तथाभूतः सन् पङ्कप्रभानाम्नि नरके चतुर्थनरके संजातः समुत्पन्नो नारकभावो नारकपर्यायो यस्य तादृशः, दशसागरोपमा स्थितिर्यस्य तथाभूतः ततो नरकात् निष्पत्य निर्गत्य पूर्वोक्तनगरस्य प्रभाकरीपुर्याः समीपे विलसिते शोभिते निजघनस्य स्वकीयवित्तस्य निक्षेप निघानं यस्मिन् तथाभूते पर्वते शार्दूलो व्याघ्रः समजायत समुद्भूतः । ९२२) कदाचिदिति - कदाचित् २० जातुचित् विजेतुमिच्छा विजिगीषा तथापि उत्थितं स्वविरोधे कृतोत्थानं दिजानुजं स्वकनिष्ठसहोदरं निवर्त्य प्रत्यावर्त्य तन्महीधरं पूर्वोक्तपर्वतम् अधिवसन्तं प्रीतिवर्धनं नाम महोरमणं राजानं पुरोधायाग्रे कृत्वा मेधावतां बुद्धिमताम् अग्रणीः प्रधानः पुरोधाः पुरोहितः, अत्र पर्वते मुनीश्वराय आहारदानं तेन तव भवतो महान् लाभो भविता भविष्यतीति प्रतिपाद्य कथयित्वा मुनीश्वरस्य समागमः प्राप्तिस्तस्योपायमपि एवं कथयामास जगाद | $ २३ ) प्रकीर्यन्तामिति - भो पौराः ! अयं पृथ्वीपतिर्भूपाल : इतोऽस्मात्स्थानात् यास्यति गमिष्यति अतः मुदा २५ हर्षेण पुरीरथ्या नगरीमार्गा: अलिकुलस्य भ्रमरसमूहस्य कलारावेण मधुरशब्देन मुखराणि शब्दायमानानि तैः Jain Education International हे दयाके भाण्डार ! आप मेरे लिए इनके भव कहिए ||११|| $२० ) इतीति- इस प्रकार आदरसहित राजाके द्वारा पूछे गये संतुष्ट चित्त अवधिज्ञानी मुनिराज यह कहने लगे ||१२|| $ २१ ) अयमिति – यह मतिवर जम्बूद्वीपके पूर्व विदेह सम्बन्धी वत्सकावती देशकी प्रभाकरी नगरीमें पहले अतिगृद्ध नामका राजा था वहाँ बहुत आरम्भ और परिग्रहकी सामर्थ्य से ३० नरकाका बन्ध कर यह पंकप्रभा नामके चौथे नरक में दशसागरकी आयुवाला नारकी हुआ । वहाँसे निकलकर उसी प्रभाकरी नगरीके समीपमें शोभित उस पर्वतपर जिसमें कि इसका धन गड़ा हुआ था व्याघ्र हुआ । ९२२) कदाचिदिति - किसी समय जीतने की इच्छासे भी उठे हुए अपने छोटे भाईको लौटाकर उस पर्वतपर ठहरे हुए छोटे भाईसहित प्रीतिवर्धन नाम राजाको आकर बुद्धिमानों में शिरोमणि पुरोहित बोला कि इस पर्वतपर मुनिराजको ३५ आहार दान देनेसे तुम्हें महान लाभ होगा, यह कहकर उसने मुनीश्वर के समागमका उपाय भी इस प्रकार कहा । ६२३ ) प्रकीर्यन्तामिति - हे पुरवासियो ! यहाँसे राजा जावेगा इसलिए हर्षसे नगरीकी सड़कें भ्रमरसमूहके अव्यक्तमधुर शब्दोंसे शब्दायमान फूलोंसे For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy