SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ -१४ ] तृतीयः स्तबकः १०१ काश्यपीकान्तः कान्तायै श्रीमत्यै यथानिश्चयं वृत्तमिदं निवेद्य, समाश्वास्य च समाकुलमानसां तां, कृतप्रमाणोद्यमः पुरतो विसृज्य चिन्तागतिमनोगतिविख्यातौ दूतमुख्यौ, मतिवरानन्दधनमित्राकम्पननामधेयैर्महामन्त्रिपुरोहितश्रेष्ठिचमूपतिभिः परिवृतश्चलन्तमपरमिव जलधिं बलं पुरोधाय प्रस्थानभेरीरवपूरितभुवनोदरः प्रतस्थे। ६१३ ) रङ्गत्तुरङ्गमतरङ्गवती करीन्द्र यादःकुला बहुललोलकृपाणमत्स्या। श्वेतातपत्रघनफेनविराजमाना ___ सा वाहिनी नरपतेः प्रजवं चचाल ॥७॥ $१४ ) घोटाटोपस्फुटितवसुधाधूलिकापालिकाभिः शोषं याते दिवि भुवि लसत्सिन्धुयुग्मे क्षणेन । १० क्रान्तं स्वान्तं चित्तं यस्य तादृशः काश्यपोकान्तो महोपतिर्वज्रजङ्घः कान्तायै वल्लभायै श्रीमत्यै यथानिश्चयं निश्चयानुसारम् इदं वृत्तं समाचारमेतं निवेद्य कथयित्वा, समाकुलमानसां व्यग्रचेतसं तां समाश्वास्य च संबोध्य च, कृतः प्रयाणे उद्यमो येन तथाभूतः सन् पुरतोऽने चिन्तागतिमनोगतिविख्याती दूतमुख्यो प्रधानदूतो विसृज्य मुक्त्वा प्रेष्येत्यर्थः । मतिवरानन्दधनमित्राकम्पननामधेयः महामन्त्रिपुरोहितश्रेष्ठिचमूपतिभिः यथाक्रमेणान्वयः, परिवृतः परीतः चलन्तम् अपरं जलधि सागरमिव बलं सैन्यं पुरोधाय अग्रे कृत्वा प्रस्थानभेरीणां १५ प्रयाणदुन्दुभीनां रवेण शब्देन पूरितः संभरितो भवनोदरो लोकमध्यो येन तथाभूतः सन् प्रतस्थे प्रययौ । १३) रङ्गदिति-नरपतेर्वज्रजङ्गस्य सा प्रसिद्धा वाहिनी सेना पक्षे नदी च प्रकृष्टवेगं यथा स्यात्तथा चचाल। अथ रूपकेणोभयोः सादृश्यमाह-रङ्गन्त उच्चलन्तस्तुरङ्गमा अश्वा एव तरङ्गाः कल्लोला इति रङ्गत्तुरङ्गमतरङ्गाः, ते विद्यन्ते यस्यां तथाभूताः, करीन्द्रा गजेन्द्रा एव यादःकुलानि जलजन्तुसमूहा यस्यां सा, बहुललोला अतिशयचपलाः कृपाणाः खङ्गा एव मत्स्यास्तिमयो यस्यां सा, श्वेतातपत्राणि शुभ्रच्छत्राण्येव घनफेनाः सान्द्र- २० डिण्डोरास्तेन विराजमाना शोभमाना। रूपकालंकारः । वसन्ततिलकावृत्तम् ॥७॥ १४) घोटाटोपेतिदिवि गगने भुवि पृथिव्यां च लसत् शोभमानं यत् सिन्धुयुग्मं नदीयुगलं तस्मिन् घोटानामश्वानां टोपैः खुरैः स्फुटिता विदारिता या वसुधा भूमिस्तस्या धूलिका रेणवस्तासां पालिकाः पङ्क्तयस्ताभिः क्षणेन अल्पेनैव कालेन शोषं याते सति शुष्के सति, तदिदमुभयं स्वर्णदीमहीनदीयुग्मम् अन्वर्थाख्यैः सार्थकनामधेयः सिन्धुरन्धेः सिन्धुं ऐसे राजा वज्रजंघने निश्चयानुसार सब समाचार अपनी प्रिया श्रीमतीके लिए सुनाये और २५ खिन्न चित्तवाली उस श्रीमतीको समझाकर प्रयाण के लिए उद्यत हुए। सबसे आगे उन्होंने चिन्तागति और मनोगति नामसे प्रसिद्ध दो मुख्य दूतोंको भेजा। मतिवर, आनन्द, धनमित्र और अकम्पन नामवाले महामन्त्री, पुरोहित, श्रेष्ठी और सेनापतिसे परिवृत हो चलते हुए दूसरे समुद्रके समान सेनाको आगे कर प्रस्थान कालमें बजनेवाली भेरियोंके शब्दसे संसारके मध्यको व्याप्त करते हुए उन्होंने प्रस्थान किया । १३) रङ्गत्तुरङ्गमेति-जो उछलते हुए ३० घोड़ेरूपी तरङ्गोंसे सहित थी, गजेन्द्र ही जिसमें जलजन्तु थे, अत्यन्त चञ्चल तलवारें ही मच्छ थे, तथा जो सफेद छत्ररूपी सघन फेनसे सुशोभित थी ऐसी राजा वज्रजंघकी सेनारूपी नदी बड़ी वेगसे चल रही थी॥७॥ १४) घोटाटोपेति-उस समय घोड़ोंकी टापोंसे खुदी हुई पृथिवी सम्बन्धी धूलिकी पक्तियों के द्वारा आकाश तथा भूमिपर शोभायमान-दोनों नदियोंके युगल क्षणभरमें सुखा दिये गये थे परन्तु सार्थक नामवाले सिन्धुरन्ध्र-हाथियोंने ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy