SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १० १०० पुरुदेव चम्पूप्रबन्धे [ ३|१० बहुमन्वाने, तत्सुताय पुण्डरीकाय वदनजितपुण्डरीकाय बालाय राज्यमर्पयित्वा षष्टिसहस्र देवानां त्रिशत्सहस्र नरपालानां सहस्र ेण सुतैः पण्डितया च परिवृतो यशोधरयोगीन्द्रशिष्यं गुणधरनामानं मुनिवरमासाद्य सत्वरमदीक्षिष्ट । १५ $ १० ) ततश्चक्रधरापायाल्लक्ष्मीमतिरगाच्छुचम् | अनुन्दर्या सहोष्णांशुवियोगान्नलिनी यथा ||५|| $ ११ ) बाले राज्यभरोऽर्पितः कथमयं बालो मया रक्ष्यते पुष्यत्पक्षबलादृते किमधुना कर्तव्यमित्युत्कटम् । चिन्ताक्रान्तमतिः खगाधिपसुतौ लक्ष्मीमतिः प्राहिणोत् पत्रप्रोत करण्डको कुशलिनी श्रीवत्रजङ्घ प्रति ||६|| $ १२ ) तदनु करण्डकस्थितपत्रार्थज्ञानेन निश्चितसकलोदन्तः किंचिच्चिन्ताक्रान्तस्वान्तः तनयाय पुत्राय राजलक्ष्मीं राजश्रियं प्रतिपादयितुकामः प्रदातुमनाः, सानुजे लघुसहोदरसहिते तस्मिन् अमिततेजसि तपसः साम्राज्यं तपः साम्राज्यं तदेव बहुमन्वाने राज्यमस्वीकुर्वाणे सति तत्सुताय अमिततेजःपुत्राय वदनेन मुखेन जितं पुण्डरीकं श्वेतसरोरुहं येन तस्मै वदनजितपुण्डरीकाय बालायात्पवयस्काय पुण्डरीकाय पुण्डरीकनाम्ने राज्यम् अर्पयित्वा प्रदाय देवीनां राज्ञीनां षष्टिसहस्रः, नरपालानां राज्ञां त्रिंशत्सहस्रैः सहस्रेण सुतैः पुत्रैः पण्डितया श्रीमतीसख्या च परिवृतः परीतः यशोधरयोगीन्द्रस्य यशोधरजिनराजस्य शिष्यं गुणधरनामानं मुनिवरं यतिश्रेष्ठम् आश्रित्य प्राप्य सत्वरं शीघ्रम् अदीक्षिष्ट दीक्षितो बभूव । १० ) तत इति ततस्तदनन्तरं चक्रधरस्य वज्रदन्तस्य अपायात निर्गमनात् लक्ष्मीमतिश्चक्रवतिभार्या अनुन्दर्या पुत्रवध्वा सह उष्णांशुवियोगात् सूर्यविप्रलम्भात् नलिनी यथा कमलिनीव शुचं शोकम् अगात् प्रापत् ॥ ५॥ $ ११ ) बाल इति — राज्यभरो बालेऽल्पवयस्कपुण्डरीके अर्पितो निक्षिप्तः, पुष्यत्पक्षस्य सबलसहायस्य बलं समाश्रयस्तस्मात् ऋते विना मया २० स्त्रिया अयं बालः पुण्डरीकः कथं रक्ष्यते त्रायते । अधुना सांप्रतं किं कर्तव्यं करणीयम् इतीत्थम् उत्कटमत्य धिकं चिन्तया विचारसंतत्या आक्रान्ता मतिर्यस्या तथाभूता लक्ष्मीमतिश्चक्रवर्तीपत्नी पत्रप्रोतं पत्रसहितं करण्डकं ययोस्ती कुशलिनी चतुरी खगाधिपसुतौ विद्याधरराजपुत्री श्रीवज्रजङ्घ प्रति जामातरं प्रति प्राहिणोत् प्रेषयामास । शार्दूलविक्रीडित छन्दः ||६|| $१२ ) तदन्विति - तदनन्तरं करण्डके पेटके स्थितं निहितं यत् पत्रं तस्यार्थस्य ज्ञानेन निश्चितो निर्णीतः सकलोदन्तो निखिलसमाचारो येन तथाभूतः, किंचिन्मनाग् चिन्तया २५ कमलको जीतनेवाले, अमिततेजके पुत्र पुण्डरीकके लिए जो कि अत्यन्त बालक ही था राज्य देकर साठ हजार रानियों, तीस हजार राजाओं, एक हजार पुत्र और पण्डिता नामक श्रीमतीकी सखीसे परिवृत हो यशोधर जिनेन्द्र के शिष्य गुणधर नामक मुनिराज के पास जाकर शीघ्र ही दीक्षा ले ली । ११० ) तत इति तदनन्तर चक्रवर्ती के चले जानेसे लक्ष्मीमति अनुन्दरीके साथ, सूर्यके बियोगसे कमलिनीके समान शोकको प्राप्त हुई ||५|| $११ ) बाल ३० इति – राज्यका भार बालकके ऊपर अर्पित किया गया है सो सबल सहायकके बलके बिना यह बालक मुझ अबलाके द्वारा किस प्रकार रक्षित किया जा सकता है । इस समय क्या करना चाहिए ? इस प्रकारकी चिन्तासे जिसकी बुद्धि आक्रान्त हो रही थी ऐसी लक्ष्मीमतिने पत्र सहित पिटारोंसे युक्त अतिशय चतुर विद्याधर राजाके दो पुत्रोंको भी वज्रजंध के प्रति भेजा || ६ || $१२ ) तदन्विति - तदनन्तर पिटारे में स्थित पत्रके अर्थका ज्ञान होनेसे जिन्होंने ३५ सब वृत्तान्तका निश्चय कर लिया था तथा जिनका चित्त कुछ चिन्तासे व्याप्त हो रहा था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy