SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ५ ९४ २० पुरुदेव चम्पूप्रबन्धे $ ११२ ) अपूर्वपाणिग्रहणे प्रक्लृप्ते नृपेण देव्याः किल केलिगेहे । लाजायितं मन्मथहव्यवाहे मर्दाद्गलन्मौक्तिकहारकेण ॥६५॥ $ ११३ ) जायापत्योर्मेलने केलिगे हे शम्पावल्लीमेघयोर्यद्वदभ्रे । आसीत्तत्र मेघसंपात वृष्टिस्तस्या जज्ञे मानसस्य प्रहषः ॥ ६६ ॥ $ ११४ ) अरुण विलसद्विम्बं ग्रस्तं तदा सहसा बला दह पतितं मेरोः शृङ्गाच्च तारगणैस्ततः । तिमिरनिकरव्याप्तश्चन्द्रो बभूव नवोत्पलद्वितयमभवल्लीलालोलं तयोः स्मरसङ्गरे ॥६७॥ १५ पश्यतो विलोकयतो मे मम नेत्रं हठाद् बलाद् जहार इति मत्वेव स सुरते संभोगे सुष्ठु दृशी यस्यास्तस्याः १० सुनयनाया श्रीमत्या अम्बरं वस्त्रं जहार हरति स्म । उत्प्रेक्षा ॥ ६४ ॥ ६११२ ) अपूर्वेति केलिगेहे क्रीडागारे देव्याः श्रीमत्याः नृपेण वज्रजङ्घन अपूर्वपाणिग्रहणेऽभिनवविवाहे सर्वप्रथमकरग्रहणे च क्लृप्ते रचिते सति मर्दात् आलिङ्गन जन्यसंमर्दात् गलन्मौक्तिकहारकेण त्रुटयत्पतन्मुक्तासरेण मन्मथहव्यवाहे कामाग्नी लाजा इवाचरितमिति लाजायितं लाजवर्षणमिवाचरितम् || उपजातिछन्दः ॥ ६५ ॥ $११३ ) जायेति — अभ्रे वियति शम्पावल्ली मेघयोर्यद्वत् तडित्तडित्वतोरिव जायापत्योर्दम्पत्योर्मेलने संयोगे सति तत्र केलिगेहे न विद्यते मेघो वलाहको यस्यां सा अमेधा, अमेघा चासो संपातवृष्टिश्च धारावृष्टिश्चेत्यमेघसंपातवृष्टिः आसीत् तस्या वृष्टेश्च हेत्वर्थे पञ्चमी, मानसस्य चेतसः तपोरिति शेषः मानससरोवरस्य च प्रहर्षः प्रमोदो वृद्धिश्च जज्ञे जायते स्म स्वेदवृष्टया दम्पत्योश्चेतः प्रसत्तिरभूदिति भावः । उपमाश्लेषौ शालिनी छन्दः ॥ ६६ ॥ ६११४ ) अरुणेति - तदा संभोगवेलायां तयोः श्रीमतीवज्रजङ्घयोः स्मरसंगरे कामयुद्धे सहसा झटिति बलात् हठात् अरुणस्यार्कस्य विलसद्विम्बं शोभमानमण्डलं ग्रस्तम् आक्रान्तं ततस्तदनन्तरं मेरोः सुमेरोः शृङ्गात् शिखरात् तारगणैः नक्षत्रगणैः पतितं भ्रष्टम् अहह् इत्याश्चर्ये । चन्द्रः शशी तिमिरनिकरेण ध्वान्तसमूहेन व्यासः समाच्छन्नो बभूव, नवोत्पलद्वितयं च नूतननोलारविन्दयुगलं च लीलालोलं क्रीडाचपलम् अभवत् । अत्रातिशयोक्तिमहिम्नोपमेयो निगीर्ण [ २६११२ हठपूर्वक हर लिये हैं यह मान कर ही मानों वज्रजघने सुरत कालमें उस सुलोचनाका वस्त्र छीन लिया था ॥६४॥ $ ११२ ) अपू - क्रीडागृह में राजाने जब देवीका अपूर्वपाणिग्रहण किया - अपूर्वविवाह किया अर्थात् सर्वप्रथम हस्तग्रहण कर आलिंगनके लिए जब उसे २५ अपनी ओर खींचा तब एक ही झटके में हारके मोती टूट कर बिखर गये और उन बिखरे हुए मोतियोंने उस अपूर्व विवाह के समय कामरूप अग्निमें लाजवर्षाका काम किया || ६५ ॥ $ ११३ ) जायते - जिस प्रकार आकाशमें बिजली और मेघका संयोग होनेपर वर्षा होती है उसी प्रकार क्रीडागृह में दम्पतियों का संयोग होने पर बिना मेघकी धाराबद्ध वृष्टि होने लगी अर्थात् उनके शरीर से स्वेदकणोंकी वर्षा होने लगी और उस वर्षासे उनके मन में बहुत ३० भारी हर्ष उत्पन्न हुआ || ६६ || $११४ ) अरुणेति — उन दोनोंके कामयुद्ध में आश्चर्यजनक घटनाएँ हुईं जैसे सूर्यका लालबिम्ब बलपूर्वक शीघ्र ही ग्रस्त हो गया, मेरुके शिखरसे ताराओंके समूह टूटकर नीचे गिरे, चन्द्रमा अन्धकार के समूहसे व्याप्त हो गया और नवीन नीलोत्पलोंका युगल लीलासे चंचल हो उठा । ( द्वितीय अर्थ संस्कृत टीकासे देखें ) ||६७॥ १. ६५-६६ श्लोकयोर्मध्ये क प्रती निम्नश्लोकोऽधिकोऽस्ति - क्रीडायुद्धे चकोराक्ष्या तया धूतायुधोऽप्यसी । ३५ बभूव सहसा चित्रं घनचापलतान्वितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy