________________
-११७]
द्वितीयः स्तबकः ११५ ) निरंजनत्वं नयनाञ्चलेऽभूद्विरागताभून्नयने मृगाक्ष्याः।
नीव्यां कवर्यामपि बन्धमुक्तिः पत्या समं दर्पककेलिकाले ॥६८॥ $ ११६ ) एवं जिनेन्द्रमहिमोत्सवपात्रदान
पुत्रोद्भवादिविभवैः सरसस्य तस्य । कान्तासखस्य कमनीयविशालकीर्तेः ।
कालो महानविदितो निरगाच्च तत्र ॥६९।। ६ ११७ ) वज्रबाहुरदात्कन्यां वज्रजङ्घसहोदरीम् ।
__ अनुन्दरों चक्रवर्तिसुतायामिततेजसे ॥७०॥
उपमानमेवावशिष्टं, श्रीमत्या अधरोष्ठं प्रातः सूर्यस्य बिम्बमिव लोहितमासीत् तच्च वज्रजङ्घन बलात् पीतं, श्रीमत्याः स्तनयुगलं सुमेरोः शृङ्गमिवोन्नतं बभूव तत्र च शोभमाना हारमणयस्तारागणा इवासन् प्रगाढा- १० लिङ्गनवेलायां हारमणयस्त्रुटित्वा पतिताः । श्रीमत्या मुखं चन्द्र इव भास्वरमासीत् केशसमूहश्च तिमिरसमूह इव कृष्णोऽभवत् विपरीतरत्यां पुंसायितक्रियायामिति यावत् श्रीमत्या मुखं विकीर्णन केशसमूहेन व्याप्तमभूत् । श्रीमत्या नेत्रद्वयं भवोत्पलमिव बभूव तच्च तदा लीलया चपलमभवत् 'अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथी' इति मेदिनी । हरिणीछन्दः ॥७६।। ६११५ ) निरंजनत्वमिति-- मृगाक्ष्याः कुरङ्गनेत्र्याः पत्या समं दर्पककेलिकाले कामक्रीडासमये नयनाञ्चले नयनान्ते निरंजनत्वं पापरहितत्वमभूत, विरागता वीतरागता च नयने १५ लोचनेऽभूत् बन्धमुक्तिश्च बन्धान्मोक्षश्च नीव्यामधोवस्त्रग्रन्थ्यां कवर्यामपि केशपाशेऽपि बभूवेति चित्रं यत्र पापाभावस्तत्रैव विरागता यत्र च विरागता तत्रैव बन्धमुक्तिरिति संगतिः अत्र तु निष्पापत्वमन्यत्र, विरागतान्यत्र, बन्धमुक्तिश्चान्योत्यसंगतिः । परिहारपक्षे चुम्बनान्नयनकोणे निरञ्जनत्वं निःकज्जलत्वमभवत्, विरागता कोपाभावात्तज्जनितारुण्यस्याभावो नयनेऽभूत, वस्त्रापहरणार्थग्रन्थिमोचनं नोव्यां करव्यापाराद् बन्धनमुक्तिश्च चूडायामभवदिति भावः । असंगतिश्लेषो । उपजातिवृत्तम् ॥६८॥ $ ११६ ) एवमिति–एवमनेन प्रकारेण २० जिनेन्द्रस्य महिम्नां कल्याणानामुत्सवः पात्रदानं पुत्रोद्भवश्च ते आदौ येषां तथाभूता ये विभवास्तैः सरसस्य रसोपेतस्य, कान्ताया सखा तस्य कान्तासखस्य स्त्रीसहितस्य कमनीया मनोहरा विशाला विपुला च कीर्तिर्यस्य तथाभूतस्य तस्य वज्रजङ्घस्य महान् दीर्घः कालस्तत्र वज्रदन्तनगर्याम् अविदित एवाज्ञात एव निरगात् निर्जगाम । वसन्ततिलकाछन्दः ॥६९॥ ११७ ) वज्रेति-वज्रबाहुः वज्रजङ्घस्य सहोदरी सगर्भाम् अनुन्दरी तन्नाम्नी कन्यां चक्रिवतिसुताय वज्रदन्तपुत्राय अमिततेजसे अदात् ॥७०॥ २५
६११५) निरंजनत्वमिति-पतिके साथ कामक्रीडाके समय मृगनयनी श्रीमतीके नयन कोणमें निरंजनत्व-पापका अभाव हुआ था, वीतरागता नेत्रमें हुई थी और बन्धसे मुक्ति नीवी तथा चोटीमें हुई थी ( दूसरा अर्थ संस्कृत टीकासे देखें)॥६८॥ ६ ११६ ) एवमितिइस प्रकार जिनेन्द्र भगवान्के कल्याणकोंका उत्सव, पात्रदान तथा पुत्रोत्पत्ति आदि विभवसे सरस, स्त्रीसहित तथा मनोहर एवं विशाल यशके धारक वनजंघका बहुत ३० भारी समय वहाँ बिना जाने ही निकल गया ॥६९॥ ६११७ ) वज्रबाहुरिति-वजूबाहुने चक्रवर्तीके पुत्र अमिततेजके लिए वनजंघकी बहन अनुन्दरी नामकी कन्या दी ॥७०॥
१. नीरागता क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org