SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १५ पुरुदेव चम्पूप्रबन्धे $ ८६ ) अनङ्गरागं हृदयं मृगाक्ष्या अनङ्गदं बाहुयुगं विभाति । तारुण्यतस्त्वेद्विरहाच्च भद्र ! विहारहृद्यं कुचकुम्भयुग्मम् ॥४९॥ $ ८७ ) इत्युक्तोऽयं वज्रजङ्घो मृगाक्ष्या मज्जन्मोदाम्भोधिमध्ये चिराय । पाणी कृत्वा पट्टकं तावकीनं प्रादादन्यत्पट्टकं ते विचित्रम् ॥५०॥ ८८) तदनु, पण्डितया समर्पितं पट्टकमादाय सा कुरङ्गशावलोचना निर्वर्ण्य चिरं, संतापसंतप्ता चातकीव जलदकालं, मरालीव शरन्नदीपुलिनं, भव्यावलीवाध्यात्मशास्त्रं, कलafha कुसुमित सहकारवनं, निर्जरपरिषदिव नन्दीश्वरद्वीपं प्रीतेः परां काष्ठामाटिटी के । २० ८४ १० आदधाति 'हंसः पक्ष्यात्मसूर्येषु' इत्यमरः । उपवनमयूरेषु उद्यानके लिए शिखिमतिम् अग्निबुद्धि पक्षे मयूरबुद्धिम् आदधाति 'शिखी के तुग्रहे वह्नो मयूरे कुक्कुटे शरे' इति विश्वलोचनः । क्रीडाशुके केलिकीरे पतङ्गमनीषां सूर्यबुद्धि पक्षे पक्षिबुद्धि विशेषयति । श्लेषोत्थापितो विरोधाभासोऽलंकारः । १८६ ) अनङ्गरागमिति - हे भद्र ! हे भव्य ! तारुण्यतो यौवनात् त्वद्विरहाच्च त्वदीयवियोगाच्च मृगाक्ष्याः कुरङ्गलोचनायाः श्रीमत्याः हृदयं मनो वक्षश्च अनङ्गरागं विभाति, तारुण्यपक्षे अनङ्गस्य कामस्य गणः प्रीतिर्यस्मिन् तत् त्वद्विरहपक्षे न विद्यतेऽङ्गरागो विलेपनं यस्मिन् तत् । बाहुयुगं भुजयुगलम् अनङ्गदं विभाति । तारुण्यपक्षे अनङ्गं कामं ददातीति अनङ्गदं सौन्दर्येण कामोत्तेजकमित्यर्थः, त्वद्विरहपक्षे न विद्यतेऽङ्गदः केयूरं यस्मिन् तत् । कुचकुम्भयुग्मं स्तनकलशयुगलं बिहारहृद्यं विभाति । तारुण्यपक्षे विहारेण क्रीडया हृद्यं सुन्दरं त्वद्विरहपक्षे हारेण हृद्यं न भवतीति विहार हृद्यं हाररहितम् । श्लेषः । उपजातिछन्दः ॥४९॥ ई८७ ) इतीति- मृगाक्ष्या मृगलोचनायाः तव विषये इतीत्थम् उक्तः कथितः अयं वज्रजङ्घो ललिताङ्गचरः मोदाम्भोधिमध्ये हर्षपारावारमध्ये चिराय दीर्घकालपर्यन्तं मज्जन् समवगाहमानः सन् तावकीनं त्वदीयं पट्टकं चित्रफलकं पाणी कृत्वा हस्ते धृत्वा समादायेत्यर्थः, ते तुभ्यम् विचित्रं विस्मयोत्पादकम् अन्यत् पट्टकं प्रादात् दत्तवान् । शालिनी छन्दः ॥५०॥ $ ८८ ) तदन्विति — तदनु तदनन्तरं पण्डितया तन्नामधात्र्या समर्पितं दत्तं पट्टकं चित्रफलकम् आदाय गृहीत्वा सा कुरङ्गशावस्य हरिणशिशोर्लोचने इव लोचने यस्यास्तथाभूता श्रीमती, चिरं दीर्घकालपर्यन्तं संतापेन ग्रीष्मर्तुजन्येन संतसा चातकी सारङ्गी जलदकालं प्रावृट्कालमिव, मराली हंसी शरन्नद्याः पुलिनं तटमिव भव्यावली भव्यपङ्क्तिः अध्यात्मशास्त्रमिव शुद्धात्मस्वरूपप्रतिपादक ग्रन्थमिव कलकण्ठिका पिकी कुसुमितसहकारवनमिव [ २९८६ २५ ३० अर्थात् हंसको सूर्य के समान सन्तापकारक मानती है । उपवनके मयूरोंमें शिखिमति - अग्निकी बुद्धि ( पक्ष में मयूर बुद्धि ) रचती है और क्रीड़ाशुकमें पतंगमनीषा - सूर्य बुद्धि ( पक्ष में पक्षिबुद्धि) को विशिष्ट करती है । ६८६ ) अनङ्गरागमिति - हे भव्य ! यौवन से तथा तुम्हारे विरहसे उस मृगनयनीका हृदय अनंगराग - कामके रागसे सहित ( पक्ष में विलेपनसे रहित ) हो रहा है । उसकी भुजाओंका युगल अनंगद - कामको देनेवाला (पक्षमें बाजूबन्दसे रहित ) हो रहा है और स्तनकलशोंका युगल विहारहृद्य - क्रीड़ासे मनोहर ( पक्ष में हार से रहित ) हो रहा है ||४९ || ६८७ ) इतीति-तुझ मृगनयनीके विषय में इस प्रकार कहा हुआ यह वज्रजंघ चिरकाल तक हर्षरूपी समुद्र में गोता लगाता रहा । अन्तमें तेरा चित्रपट तो उसने अपने हाथ में ले लिया और तुझे दूसरा विचित्र चित्रपट दिया है ||५० || ९८८ ) तदन्विति तदनन्तर पण्डिताके द्वारा दिये हुए चित्रपटको लेकर वह बालमृगलोचना श्रीमती उसे चिरकाल तक इस तरह देखती रही जिस तरह कि सन्तापसे सन्तप्त चातकी वर्षाकालको, हंसी शरद् ऋतुकी नदीके तटको, भव्यपंक्ति अध्यात्मशास्त्रको, कोयल फूले हुए आम्रवनको और देवोंकी पंक्ति नन्दीश्वर द्वीपको देखती है । उसे देखकर वह प्रीति १. तद्विरहाच्च क० । ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy