SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७७ -७० ] द्वितीयः स्तबकः गतिधरे, तत्क्षणमखण्डितमतिः पण्डितापि समागत्य कार्यसिद्धिसंतुष्टहृदयालवालसंजातप्रीतिलतापुष्पायमाणमन्दस्मितसुन्दरवदनारविन्दा प्रियतमोदन्तश्रवणकौतुकविलासवती श्रीमती प्रीतिमधुरमेवं कथयामास । ६६९) कोमलाङ्गि! कुसुमास्त्रपताके ! त्वन्मनोरथतरुः फलितोऽभूत् । सप्रपञ्चमरुणावरबिम्बे ! व्याहरामि तदिदं शृणु कन्ये ! ॥३८॥ ७० ) इतः किल पट्टकमादाय महापूतजिनालयमासाद्य, तत्र विचित्रपट्टकशालायां पट्टकं प्रसार्य, बहून्समागतान्पण्डितमानिनः पतिब्रुवान् गूढार्थसंकटे प्रकटितमोहान्विदधानायां मयि स्थितवत्यां, बिम्बाधरि ! तव कचवद् भ्रमरहितः, भालवत्सुपर्वराजसुन्दरः, कुचमण्डलवत् सरधनंजयः । वयं प्रत्युद्गच्छामः, तां सत्कृत्यानेतुं गच्छामः इतीत्थं कथयित्वा चक्रधरे वज्रदन्ते गतिधरे गते सति, तत्क्षणं तत्कालम्, अखण्डिता मतिर्यस्यास्तथाभूता पूर्णप्रतिभाशालिनी कार्यस्य ललिताङ्गान्वेषरूपस्य सिद्ध्या १० संतुष्टं प्रीतं हृदयमेवालवाल आवापस्तस्मिन् संजाता समुत्पन्ना या प्रीतिलता प्रोतिवल्ली तस्याः पुष्पायमाणेन कुसुमवदाचरता मन्दस्मितेन मन्दहास्येन सुन्दरं मनोहरं वदनारविन्दं मुखकमलं यस्यास्तथाभूता पण्डितापि तन्नामधाश्यपि प्रियतमस्य ललिताङ्गस्य य उदन्तः समाचारस्तस्य श्रवणकौतुकेन समाकर्णनकुतूहलेन विलासवती विभ्रमशालिनी श्रीमती प्रीतिमधुरं यथा स्यात्तथा एवं वक्ष्यमाणप्रकारेण कथयांबभूव जगाद । ६ ६९) कोमलाङ्गीति-हे कोमलाङ्गि ! हे मृदुलशरीरे ! कुसुमास्त्रः कामस्तस्य पताका वैजयन्ती तत्संबुद्धी हे १५ कुसुमास्त्रपताके ! अरुणो रक्तोऽधरबिम्बो यस्यास्तत्संबुद्धौ हे अरुणाधरबिम्बे ! तव मनोरथ एव तरुस्त्वन्मनोरथतरुस्त्वदीयाभिलाषपादपः फलानि संजातानि यस्मिन् स फलितः फलयुक्तः, अभूत् । हे कन्ये ! तदिदं सप्रपञ्च सविस्तरं व्याहरामि कथयामि शृणु समाकर्णय। स्वागताच्छन्दः ॥३८॥ $ ७० ) इत इति-इतः किल त्वदीयपाङत् पट्टकं त्वद्रचितं चित्रफलकम् आदाय गृहीत्वा महापूतजिनालयं तन्नामजिनेन्द्रमन्दिरम् आसाद्य प्राप्य, तत्र जिनालये विचित्रा चासौ पट्टकशाला चेति विचित्रपट्ट कशाला तस्यां विस्मयोत्पादकचित्र- २० शालायां पट्टकं चित्रफलकं प्रसार्य, समागतान् समायातान् आत्मानं पण्डितं मन्यन्त इति पण्डितमानिनस्तान् अपतित्वेऽपि आत्मानं पति ब्रुवन्तीति पतिब्रुवास्तान बहून् भूयसो जनान् गूढश्चासावर्थसंकटश्च तस्मिन् गभीरार्थसंकटस्थले प्रकटितो मोहो विभ्रमो येषां तथाभूतान् विदधानायां कुर्वाणायां मयि स्थितवत्यां सत्यां, निम्नमिवाधरो दशनच्छदो यस्यास्तत्संबुद्धी हे बिम्बाधरि ! तत्र महापूतजिनालये तव श्वसुरस्यापत्यं पुमान् श्वशुर्यो वल्लभो जाते हैं और उसी क्षण अखण्ड प्रतिभाको धारण करनेवाली पण्डिता कार्यसिद्धिसे सन्तुष्ट २५ हृदयरूपी क्यारीमें उत्पन्न प्रीतिरूपी लताके पुष्पके समान आचरण करनेवाली मन्द मुसकानसे सुन्दर मुखकमलसे सुशोभित होती हुई आ पहुँची और प्रियतम सम्बन्धी समाचारोंके सुननेके कौतुकसे प्रकट होनेवाली विलासोंसे युक्त श्रीमतीसे प्रेमपूर्वक इस प्रकार कहने लगी। $ ६९) कोमलांगीति-हे कोमलांगि! हे सुकुमारशरीरे ! हे कामपताके ! हे लोहिताधरबिम्बे ! हे कन्ये! तुम्हारा मनोरथरूपी वृक्ष फलीभूत हो गया है। यह सब समाचार मैं ३० विस्तारसे कहतो हूँ सुन ॥३८॥ ६७०) इतः किलेति-यहाँसे चित्रपट लेकर मैं महापूत जिनालय गयी और वहाँकी विचित्र चित्रशालामें चित्रपट फैलाकर बैठ गयी। वहाँ ऐसे बहुतसे मनुष्य आये जो अपने आपको पण्डित मानते थे तथा अपने आपको झूठ-मूठ ही तुम्हारा पति कहते थे। ऐसे लोगोंको मैं गूढ अर्थके संकटमें मोहयुक्त कर देती थी। हे बिम्बके समान लाल-लाल ओठों वाली ! इस प्रकार वहाँ बैठे-बैठे मुझे जब कुछ समय हो ३५ गया तब तुम्हारे श्वशुरका पुत्र वज्रजंघ जिनालयमें आया और भगवान् अर्हन्त देवकी पूजा कर चित्रशालामें पहुंचा। उसकी सुन्दरताके विषयमें क्या कहूँ ? वह तुम्हारे केशोंके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy