SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७५ -६४ ] द्वितीयः स्तबकः ६६१ ) सोऽयं युगंधरजिनः सुरमौलिराजी नीराजिताघ्रियुगलः सकलाभिवन्द्यः । कैवल्यसंपदमुपेत्य महीयतेऽद्य भव्याम्बुजातवनमण्डलचण्डभानुः ॥३२॥ ६६२) तदेति मद्वचः श्रुत्वा बहवो दर्शनं श्रिताः। युवां च धर्मसंवेगो परमं समुपागतौ ॥३३॥ $६३) हरिणाङ्कगर्वहरणाननाम्बुजे पिहितास्रवस्य महितामराश्चितम् । अयि केवलोदयमहं महागुणे! सममागता वयमपि स्मरस्यदः ॥३४॥ ६६४) सुते स्मरसि किं भद्रे स्वयंभूरमणोदधिम् । क्रोडाहेतोव्रजिष्यामो गिरि चाञ्जनसंज्ञकम् ॥३५॥ ६६१ ) सोऽयमिति-सुराणां या मौलिराजी मुकुटपङ्क्तिस्तया नीराजितं कृतारार्तिकम् अघ्रियुगलं चरणकमलं यस्य तथाभूतः, सकलैनिखिलसुरासुरलोकैरभिनन्द्यः स्तवनीयः, भव्या भव्यजीवा एवाम्बुजातवनमण्डलं कमलवनसमूहस्तस्य चण्डभानुः सूर्यः सोऽयं युगंधरजिनोऽजितंजयवसुमत्योरङ्गजः अद्य कैवल्यसंपदं केवल- १५ ज्ञानसंपत्तिम् उपेत्य लब्ध्वा महीयते पूज्यते । रूपकालंकारः । वसन्ततिलकाच्छन्दः ।।३२॥ ६६२) तदेतीति-तदा तस्मिन् काले इति पूर्वोक्तप्रकारं मद्वचोऽस्मद्वाणीं श्रुत्वा समाकर्ण्य बहवो भूयांसो जनाः दर्शनं सम्यक्त्वं श्रिताः प्राप्ताः । युवां च स्वयंप्रभाललिताङ्गौ परमं समुत्कृष्टं यथा स्यात्तथा धर्मश्च संवेगश्चेति धर्मसंवेगौ धर्मनिर्वेदी समुपागती प्राप्तौ ॥३३॥ ६३) हरिणाङ्केति-हरिणाङ्कश्चन्द्रस्तस्य गर्वहरणं दोपहारकमाननाम्बुजं मुखकमलं यस्यास्तत्संबुद्धी, महान्तो गुणा यस्यास्तत्संबुद्धौ एवंभूते अयि पुत्रि ! पिहितास्रवस्या- २० जितंजयापरनाम्नस्तपोधनस्य, महितामरैः पूजितदेवैरञ्चितं पूजितं केवलोदयमहं केवलज्ञानप्राप्तिमहोत्सवम्, वयमपि अच्युतेन्द्रस्वयंप्रभाललिताङ्गादयः समं सार्धम् आगताः समायाताः अद एतत् स्मरसि। मञ्जुभाषिणीच्छन्दः ॥३४॥ ६६४) सुत इति-हे भद्रे कल्याणि ! सुते पुत्रि! वयं क्रीडाहेतोः केलिनिमित्तात् स्वयंभूरमणोदधि स्वयंभूरमणनामानमन्तिमजलनिधिम्, अञ्जनसंज्ञकं तन्नामधेयं गिरिं च पर्वतं च व्रजिष्यामोऽगच्छन् 'अभिज्ञावचने राजाकी वसुमती रानीसे युगन्धर नामका पुत्र हुआ। ६६१ ) सोऽयमिति-देवोंकी मुकुट- २५ पंक्तिके द्वारा जिनके चरणयुगलकी आरती की गयी है, जो सबके द्वारा स्तुत्य है तथा भव्यजीवरूपी कमलवनके समूहको विकसित करनेके लिए सूर्य हैं ऐसे यह युगन्धर जिनराज आज केवलज्ञानरूपी सम्पदाको पाकर पूजित हो रहे हैं ॥३२॥ ६६२) तदेति-उस समय इस प्रकारके मेरे वचन सुनकर अनेक जीव सम्यक्त्वको प्राप्त हुए तथा तुम दोनों-स्वयंप्रभा और ललितांग उत्कृष्ट रूपसे धर्म तथा संवेगको प्राप्त हुए थे ।।३३।। ६६३) हरिणाङ्केति- ३० जिसका मुखकमल चन्द्रमाके गर्वको हरनेवाला है तथा जो बहुत भारी गुणोंसे सहित है ऐसी हे बेटी ! तुझे स्मरण होगा कि हमलोग पिहितास्रव मुनिराजके उत्तमदेवोंसे पूजित केवलज्ञान प्राप्तिके महोत्सबमें साथ-साथ ही आये थे ॥३४।। ६६४) सुत इति-हे कल्याणवती पुत्री ! तुझे यह भी स्मरण होगा कि हमलोग क्रीडाके लिए स्वयंभूरमण समुद्र और १. धर्मसंवेगं क०। ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy