SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७४ पुरुदेवचम्पूप्रबन्धे [ १६६०६० ) तदनु, राज्यं परिपालयन्महाबलः केशवस्यातिबलस्य वियोगेन संजातवैराग्यः समाधिगुप्तमहामुनिपार्वे तपस्तप्त्वा प्राणतेन्द्रपदं प्राप्तस्तत्र विंशतिसागरोपमस्थितिरमरलक्ष्मीमनुभूय, धातकोखण्डपश्चिममन्दरपूर्वविदेहवत्सकावतोविषयप्रभाकरीपुरीनाथस्य महासेनमहीपालस्य वसुंधरादेव्यां जयसेनाह्वयः पुत्रः संजातः, क्रमेणोद्भूतचक्ररत्नः सुचिरं पालितमहीवलयः सीमंधरजिनपादपयोजमूले जैनी दीक्षामासाद्य भावितषोडशभावनः कलितनिरतिशयतपसा ग्रेवेयकेषूर्ध्वमध्यमे प्राप्याहमिन्द्रपदं, तत्र त्रिंशत्सागरोपमस्थितिर्दिव्यान् भोगाननुभूय ततोऽवतीर्य, पुष्कराधद्वीपपूर्वमन्दरपूर्वविदेहसंगतमङ्गलावतीविषयविशोभितरत्नसंचयराजधानीमधिवसतोऽजितंजयभूपा - लस्य वसुमतीनामदेव्यां युगंधरः समजायत । भूपालस्य जयन्तायशस्वतीदेव्योर्जयन्तायशस्वतीनामराश्योस्तनयो महाबलातिबलनामधेयो बलकेशवी बलभद्रनारायणी अजायेतां संभूतो। $६०) तदन्विति-तदनन्तरं राज्यं परिपालयन् महाबलो बलभद्रः केशवस्य नारायणस्यातिबलस्य वियोगेन मृत्युना संजातं समुत्पन्नं वैराग्यं यस्य तथाभूतः सन् समाधिगुप्तश्चासौ महामुनिश्च समाधिगुप्तमहामुनिस्तस्य पार्वे तपस्तप्त्वा प्राणतेन्द्रपदं चतुर्दशस्वर्गाधिपतिपदं प्राप्तः, तत्र विंशतिसागरोपमा स्थितिर्यस्य तथाभूतः सन् अमरलक्ष्मी देवश्रियम् अनुभूय समुपभुज्य धातकीखण्डे द्वितीयद्वीपे पश्चिममन्दरात् पश्चिमदिक्स्थमेरोः पूर्वविदेहे यो वत्सकावतीविषयस्तस्य प्रभाकरीपुर्या नाथः परिवृढस्तस्य, १५ महासेनमहीपालस्य वसुंधरादेव्यां तन्नामराश्यां जयसेनाह्वो जयसेननामधेयः पुत्रः संजातः, क्रमेण उद्भूतं प्रकटितं चक्ररत्नं यस्य तथाभूतः सुचिरं दीर्घकालपर्यन्तं पालितमहोवलयो रक्षितभूचक्रवालः सीमंधरजिनस्य पादपयोजमूले चरणकमलमूले जनीं जिनोक्तां दीक्षां प्रव्रज्याम् आसाद्य प्राप्य भाविता अनुचिन्तिताः षोडशभावना दर्शनविशुद्धयादयो येन तथाभूतः सन् कलितं कृतं यत् निरतिशयतपः सर्वोत्कृष्टतपश्चरणं तेन अवेयकेषु ऊर्ध्वमध्यमे ऽष्टमग्रैवेयक इत्यर्थः अहमिन्द्रपदं प्राप्य तत्र त्रिंशत्सागरोपमा स्थितिर्यस्य तादृशः दिव्यान् मनोहरान् स्वर्ग२० संबन्धिनो भोगान् पञ्चेन्द्रियविषयान् अनुभूय ततोऽष्टमग्रैवेयकात् अवतीर्य च्युत्वा पुष्करार्द्धद्वीपस्य पूर्वमन्दरात् पूर्वविदेहे संगतः स्थितो यो मङ्गलावतीविषयस्तस्मिन् विशोभिता विराजिता या रत्नसंचयराजधानी ताम् अधिवसतः तत्र कृतनिवासस्य अजितंजयभूपालस्य तन्नामनृपतेः वसुमतीनामदेव्यां युगंधरः समजायत संभूतः । करनेवाले धनंजय राजाकी जयन्ता और यशस्वती नामको रानियोंके महाबल तथा अति बल नामसे सहित बलभद्र और नारायण पदके धारक पुत्र हुए । ६६० ) तदन्विति२५ तदनन्तर राज्यका पालन करता हुआ महाबल, अतिबल नारायणके मरणसे विरक्त हो गया। फलस्वरूप समाधिगुप्त नामक महामुनिके पास तप तपकर उसने प्राणत स्वर्गमें इन्द्रका पद प्राप्त किया। वहाँ बीस सागरकी उसकी स्थिति थी। उतने समय तक देवोंकी लक्ष्मीका उपभोग कर धातकीखण्डके पश्चिम मेरुसे पूर्व विदेहक्षेत्रमें स्थित वत्सकावती देशकी प्रभाकरी नगरीके स्वामी महासेन राजाकी वसुन्धरा रानीमें जयसेन नामका पुत्र हुआ। क्रमसे उसके चक्ररत्न प्रकट हुआ, चक्रवर्ती होकर वह दीर्घकाल तक पृथिवीमण्डलकी रक्षा करता रहा। अन्तमें सीमन्धर तीर्थकरके चरणकमलोंके मूलमें जिनदीक्षा प्राप्तकर उसने सोलह कारण भावनाओंका चिन्तवन किया तथा किये हुए सर्वोत्कृष्ट तपके द्वारा आठवें अवेयकमें अहमिन्द्र पदको प्राप्त किया। वहाँ तीस सागरकी स्थिति प्राप्तकर दिव्यभोगोंका उपभोग करता रहा। अन्तमें वहाँसे च्युत हो पुष्कराध द्वीप सम्बन्धी पूर्वमेरुके पूर्व विदेह क्षेत्रमें ३५ स्थित मंगलावती देशमें सुशोभित रत्नसंचय नामकी राजधानीमें रहनेवाले अजितंजय ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy